अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1762, कुल 2600 में से
संदर्भ में पढ़ेंन स्थानतोपि परस्योभयलिङ्गं सर्वत्र हि ॥ ११ ॥ (३. २. ४.) इदानीं विषयनिर्धारणार्थं ब्रह्मस्वरूपं विचार्यते । तत्र प्रथममन्योन्यविरुद्ध- वाक्यानां निर्णयः क्रियते । तदर्थमेतावत् सिद्धम् । समन्वयाविरोधाभ्यामेकमेव ब्रह्म प्रतिपाद्यत इति । तत्र यथा कार्यविरोधः परिहृतः, एवं ब्रह्मधर्मविरोधोपि परिहरणीयः । अन्यथा अबोधकता स्यात् । तत्र स्वगतधर्माणामविरुद्धनामग्रिम- पादे विचारः । जडजीवधर्मत्वेन प्रतीतानामत्र विचारः क्रियते । भाष्यप्रकाशः । न स्थानतोपि परस्योभयलिङ्गं सर्वत्र हि ॥ ११ ॥ प्रस्तूयमानस्य ग्रन्थस्य सङ्गतिं वदन्तः प्रयोजनमाहुः इदानीमित्यादि । ज्ञानाधिकारिविचरोत्तरं ज्ञानविषयनिर्धारो युक्त इति तदर्थ- मवसरसङ्गत्या ब्रह्मणो विवक्षितज्ञानविषयस्य स्वरूपं पादशेषेणाग्रिमपादेन च विचार्यत इत्यर्थः । एतेन विचारेणोपनिषदां ब्रह्मबोधकताप्रकारो ज्ञातो भविष्यतीति तदर्थोऽयं विचार इति बोधितम् । नन्वस्मिन्नधिकरणे वाक्यविचारो दृश्यते, न तु स्वरूपस्येत्याशङ्क्य एतदधिकरणप्रयोजनमाहुः तत्र प्रथममित्यादि । प्रथममिति । स्वरूपविचारात् पूर्वम् । ननु ब्रह्मस्वरूपनिर्णयः प्रथमाध्याये कृतः, विरुद्धवाक्यनिर्णयश्च द्वितीयाध्याय इति किं पुनस्तन्निर्धारणादिनेत्यत आहुः तदर्थ- मित्यादि । तदर्थमिति । स्वरूपनिर्धारणार्थम् । तथाच कार्यमन्यस्य न भवति, किन्तु सर्वं ब्रह्मण एव कार्यमिति तत्र निर्धारात् सर्वत्र वेदान्तेष्वेकमेव ब्रह्म प्रतिपाद्यत इत्येतावत् सिद्धम् । द्वितीयोक्तो विरोधपरिहारोपि तद्विषयनिर्धारणार्थत्वेनैव फलितः, न तु ब्रह्मस्वरूपनिर्धारणार्थत्वेन, ब्रह्मधर्मविरोधस्यापरिहृतत्वात् । अतस्तत्र यथा कार्ये अन्यजन्यत्वकृतो विरोधः कारणैक्य- निर्धारार्थं परिहृतः, एवं कारणभूतब्रह्मस्वरूपनिर्धारणार्थं ब्रह्मधर्मविरोधोपि परिहरणीयः । अन्यथा सधर्मकं निर्धर्मकं वा, जीववत् सदोषं वा, यावद्दोषरहितं वेत्यादिसन्देहानपायादबोधकता वाक्यानां स्यात् । अतस्तन्निवृत्त्यर्थमिदं निर्धारणमित्यर्थः । एवं विचारावश्यकत्वं प्रतिपाद्य तत्रावान्तरविषयं विभजन्ते तत्र स्वगतेत्यादि । अविरुद्धानामिति । परस्परविरुद्धत्वेपि भगवदीयत्वेन प्रतीततया स्वरूपाविरुद्धानाम् । रश्मिः । न स्थानतोपि परस्योभयलिङ्गं सर्वत्र हि ॥ ११ ॥ अवसरेति । समन्वयेऽविरोधेन स्थिरीकृते विषयनिर्धारः प्रसङ्गसङ्गत्या युक्तः, परन्तु अनधिकारिहृदये न स्फुरतीति प्रतिबन्धकीभूताधि- कारिचिन्तानिवृत्तौ सत्यामवश्यवक्तव्यत्वमवसर उक्तः । आवृत्तौ गौरवमित्यवसरसङ्गत्या । विव- क्षितेति । परम्परासम्बद्धधर्मिसाक्षात्सम्बद्धधर्मिविषयकज्ञानविषयस्य । ब्रह्मण एवेति । एवकारेण सांख्यादिष्टत्युपरुन्धप्रधानादिव्यवच्छेदः । तत्रेति । प्रथमद्वितीयाध्याययोः । तत्र यथेति भाष्यं विवरीतुमाहुः द्वितीयोक्त इति । तद्विषयेति । वाक्यविषयनिर्धारार्थत्वेन । एवेति । ब्रह्मस्वरूपनि- र्धारार्थत्वव्यवच्छेदकः । ब्रह्मधर्मेति । द्वितीयाध्याये तथा । विवृण्वन्ति स्म अतस्तत्रेति । तत्र द्विती- याध्याये ब्रह्मणि ब्रह्मत्वेन सहावस्थानलक्षणो हि कार्यस्य विरोधः ब्रह्मरूपकारणैक्यनिर्धारार्थ प्रधानादि- कारणवादनिरासेन परिहृतः । एवमितिभाष्यं विवृण्वन्ति स्म एवं कारणेति । ब्रह्मधर्मेति । रूपमरूपं चेति ब्रह्मधर्मयोर्विरोधः सहानवस्थानलक्षणः । अन्यथेति भाष्यं विवृण्वन्ति स्म अन्यथेति । इत्या- दीति । आदिना रूपमरूपं चेति सन्देहः तेषामनपायात् । तत्तद्धर्मप्रकारकबोधकता तत्तत्प्रतियोगिता- ब्र० सू० २० १४ 1641