अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1761, कुल 2600 में से
संदर्भ में पढ़ेंयुक्तो भगवज्ज्ञानरहितो ज्ञानाधिकारीति सिद्धम् ॥ १० ॥ इति तृतीयाध्याये द्वितीयपादे तृतीयमतः प्रबोध इत्यधिकरणम् ॥ ३ ॥ भाष्यप्रकाशः। सुषुप्तिरितीति, यथा संप्रज्ञातासंप्रज्ञातभेदेन योगो द्विविधो भवति, तथा सुषुप्तिरपीति । इमां च ब्रह्मव्यर्षसंपत्तिरूपां सुषुप्तिमधिकृत्य, 'आनन्दभुक् चेतोमुखः प्राज्ञः' 'जाग्रत्स्वप्नसुषुप्त्यादिप्रपञ्चं यत् प्रकाशते' इत्यादिश्रुतयः प्रवृत्ता इत्याह । तन्न । श्रुतीनां या प्रवृत्तिः, सा नाडीषु सुषुप्तिमादायाप्युपपद्यमाना न मोहावस्थामपेक्षत इति न श्रुतिम्यस्तत्रान्तर्भावः शक्यवचनः । सुखदुःखमोहानुस्यूतीनां रोमहर्षवेपथुवैकल्यादीनां च दर्शनेन सुषुप्तेः सकाशाद्भेदस्य स्वयमेवाङ्गीकारात् तस्याः सुषुप्तावन्तर्भावेऽपि हेत्वभावः । नचायोगिनां जीवदशायां बृहदारण्यकेऽवस्थात्रयस्यैवोक्तत्वाज्जाग्रत्स्वप्नयोर्वैलक्षण्ये परिशेषात् सुषुप्तावन्तर्भाव इति युक्तम् । परिशेषस्य मरणार्थसंपत्तावपि तौल्यात् । नच पुनरुत्थानान्न मरणेऽन्तर्भाव इति वाच्यम् । नामभ्रान्त्या यमदूतनीतानामपि पुनरुत्थानात् । षष्ठस्कन्धे चित्रकेतुसुतस्य पुराणान्तरेषु सावित्री- पत्युः सत्यवतश्च पुनरुत्थानकथनाच्च । अतो मरणं सर्वप्राणदेहसंबन्धोपरतिः, मूर्च्छा तु सूक्ष्मप्राणदेहसंबन्धावस्थितिरिति रामानु- जाचार्योक्तमेवात्र युक्तम् । परमेतद्विचारस्यात्र प्रयोजनं तैरपि नोक्तम् । माध्वास्तु भिक्षुवदेवाङ्गीकुर्वन्ति ॥ १० ॥ इति तृतीयमतः प्रबोध इत्य- धिकरणम् ॥ ३ ॥ रश्मिः। सम्प्रज्ञातेति । सबीजनिर्बीजसमाधिः । 'परो हि योगो मनसः समाधि'रिति वाक्यात् । तत्र शब्दार्थ- ज्ञानविकल्पै संकीर्णा सवितर्का समापत्तिः । तत्रेति । समापत्त्योर्मध्ये । स्मृतिपरिशुद्धौ स्वरूपशून्येवा- र्थमात्रनिर्भासा निर्वितर्केति तयोर्लक्षणे । इमामिति । सम्प्रज्ञातसमाधिवदस्पष्टज्ञानरूपाम् । आन- न्दभुगिति । सुखमहमस्वाप्समित्यर्थे सुखलेनानन्दभुक् मनोबुद्धिचेतस्सु सुषुप्तिश्रेतोमुखः चेतउपाया चेतःकरणा । प्राज्ञस्तु सुषुप्तिसाक्षी । यदिति । यदव्ययं प्रकाशते । अत्र यदव्ययं प्राज्ञः । इत्यादीति । आदिना 'यत्र न कंचन कामं कामयते न स्वप्नं पश्यती'ति । वितण्डां वारयन्ति स्म न मोहेति । मूर्च्छावस्थां नापेक्षते । तत्रान्तरिति । अवस्थात्रये मूर्छान्तर्भावः । रोमेति । आदिना स्वेदः । स्वयमिति । भगवता भिक्षुणैव । नान्येन युक्तिं सहपक्षकेण । तस्या मूर्छायाः । एवेति । अन्याव- स्थाव्यवच्छेदकः । मूर्च्छा सुषुप्त्यन्तर्भूता । अवस्थात्रयबोधकबृहदारण्यकात् । जाग्रत्स्वप्नवैलक्षण्यप- रिशेषवत् इत्यनुमानमाहुः नचायोगिनामिति । अयं हेतुः हेतुतावच्छेदकलाघवे उक्तो हेतुः । परिशेषादिति । शङ्कराचार्यजाग्रत्स्वप्नवदिति स्फुटम् । अतः सन्देहात् सुषुप्तौ खमवज्जाग्रतोप्यन्त- र्भावः । अयं दृष्टान्तः । सुषुप्तावित्यादिसाध्यम् । स्मरणादिति सौत्रात्स्मरणालम्भानात् संशयार्थ- सम्पत्तावपि । तौल्यादिति । एककोटिकस्य । एवं कृते मूर्च्छाया मरणेन्तर्भावः वैद्यके प्रसिद्धः । 'मूर्च्छायां चतस्रो गुटिकाः संजीविन्या देया' इति । जीवनसंभावनाकर्त्री संजीविनीति । तत्र शङ्कते न चेति । यमेति । नृगाजामिलप्रभृतीनाम् । पुनरुत्थानेति । मृतस्य । एवात्रेति । मूर्च्छाविषये- ऽन्ययोगव्यवच्छेदः क्रियते । रामानुजाचार्यवचनात् । तद्युक्तम् । एवेति । अन्यप्रकारयोगव्यव- च्छेदकः ॥ १० ॥ इति तृतीयमतः प्रबोध इत्यधिकरणम् ॥ ३ ॥