अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
युक्तो भगवज्ज्ञानरहितो ज्ञानाधिकारीति सिद्धम् ॥ १० ॥ इति तृतीयाध्याये द्वितीयपादे तृतीयमतः प्रबोध इत्यधिकरणम् ॥ ३ ॥ भाष्यप्रकाशः। सुषुप्तिरितीति, यथा संप्रज्ञातासंप्रज्ञातभेदेन योगो द्विविधो भवति, तथा सुषुप्तिरपीति । इमां च ब्रह्मव्यर्षसंपत्तिरूपां सुषुप्तिमधिकृत्य, 'आनन्दभुक् चेतोमुखः प्राज्ञः' 'जाग्रत्स्वप्नसुषुप्त्यादिप्रपञ्चं यत् प्रकाशते' इत्यादिश्रुतयः प्रवृत्ता इत्याह । तन्न । श्रुतीनां या प्रवृत्तिः, सा नाडीषु सुषुप्तिमादायाप्युपपद्यमाना न मोहावस्थामपेक्षत इति न श्रुतिम्यस्तत्रान्तर्भावः शक्यवचनः । सुखदुःखमोहानुस्यूतीनां रोमहर्षवेपथुवैकल्यादीनां च दर्शनेन सुषुप्तेः सकाशाद्भेदस्य स्वयमेवाङ्गीकारात् तस्याः सुषुप्तावन्तर्भावेऽपि हेत्वभावः । नचायोगिनां जीवदशायां बृहदारण्यकेऽवस्थात्रयस्यैवोक्तत्वाज्जाग्रत्स्वप्नयोर्वैलक्षण्ये परिशेषात् सुषुप्तावन्तर्भाव इति युक्तम् । परिशेषस्य मरणार्थसंपत्तावपि तौल्यात् । नच पुनरुत्थानान्न मरणेऽन्तर्भाव इति वाच्यम् । नामभ्रान्त्या यमदूतनीतानामपि पुनरुत्थानात् । षष्ठस्कन्धे चित्रकेतुसुतस्य पुराणान्तरेषु सावित्री- पत्युः सत्यवतश्च पुनरुत्थानकथनाच्च । अतो मरणं सर्वप्राणदेहसंबन्धोपरतिः, मूर्च्छा तु सूक्ष्मप्राणदेहसंबन्धावस्थितिरिति रामानु- जाचार्योक्तमेवात्र युक्तम् । परमेतद्विचारस्यात्र प्रयोजनं तैरपि नोक्तम् । माध्वास्तु भिक्षुवदेवाङ्गीकुर्वन्ति ॥ १० ॥ इति तृतीयमतः प्रबोध इत्य- धिकरणम् ॥ ३ ॥ रश्मिः। सम्प्रज्ञातेति । सबीजनिर्बीजसमाधिः । 'परो हि योगो मनसः समाधि'रिति वाक्यात् । तत्र शब्दार्थ- ज्ञानविकल्पै संकीर्णा सवितर्का समापत्तिः । तत्रेति । समापत्त्योर्मध्ये । स्मृतिपरिशुद्धौ स्वरूपशून्येवा- र्थमात्रनिर्भासा निर्वितर्केति तयोर्लक्षणे । इमामिति । सम्प्रज्ञातसमाधिवदस्पष्टज्ञानरूपाम् । आन- न्दभुगिति । सुखमहमस्वाप्समित्यर्थे सुखलेनानन्दभुक् मनोबुद्धिचेतस्सु सुषुप्तिश्रेतोमुखः चेतउपाया चेतःकरणा । प्राज्ञस्तु सुषुप्तिसाक्षी । यदिति । यदव्ययं प्रकाशते । अत्र यदव्ययं प्राज्ञः । इत्यादीति । आदिना 'यत्र न कंचन कामं कामयते न स्वप्नं पश्यती'ति । वितण्डां वारयन्ति स्म न मोहेति । मूर्च्छावस्थां नापेक्षते । तत्रान्तरिति । अवस्थात्रये मूर्छान्तर्भावः । रोमेति । आदिना स्वेदः । स्वयमिति । भगवता भिक्षुणैव । नान्येन युक्तिं सहपक्षकेण । तस्या मूर्छायाः । एवेति । अन्याव- स्थाव्यवच्छेदकः । मूर्च्छा सुषुप्त्यन्तर्भूता । अवस्थात्रयबोधकबृहदारण्यकात् । जाग्रत्स्वप्नवैलक्षण्यप- रिशेषवत् इत्यनुमानमाहुः नचायोगिनामिति । अयं हेतुः हेतुतावच्छेदकलाघवे उक्तो हेतुः । परिशेषादिति । शङ्कराचार्यजाग्रत्स्वप्नवदिति स्फुटम् । अतः सन्देहात् सुषुप्तौ खमवज्जाग्रतोप्यन्त- र्भावः । अयं दृष्टान्तः । सुषुप्तावित्यादिसाध्यम् । स्मरणादिति सौत्रात्स्मरणालम्भानात् संशयार्थ- सम्पत्तावपि । तौल्यादिति । एककोटिकस्य । एवं कृते मूर्च्छाया मरणेन्तर्भावः वैद्यके प्रसिद्धः । 'मूर्च्छायां चतस्रो गुटिकाः संजीविन्या देया' इति । जीवनसंभावनाकर्त्री संजीविनीति । तत्र शङ्कते न चेति । यमेति । नृगाजामिलप्रभृतीनाम् । पुनरुत्थानेति । मृतस्य । एवात्रेति । मूर्च्छाविषये- ऽन्ययोगव्यवच्छेदः क्रियते । रामानुजाचार्यवचनात् । तद्युक्तम् । एवेति । अन्यप्रकारयोगव्यव- च्छेदकः ॥ १० ॥ इति तृतीयमतः प्रबोध इत्यधिकरणम् ॥ ३ ॥
न स्थानतोपि परस्योभयलिङ्गं सर्वत्र हि ॥ ११ ॥ (३. २. ४.) इदानीं विषयनिर्धारणार्थं ब्रह्मस्वरूपं विचार्यते । तत्र प्रथममन्योन्यविरुद्ध- वाक्यानां निर्णयः क्रियते । तदर्थमेतावत् सिद्धम् । समन्वयाविरोधाभ्यामेकमेव ब्रह्म प्रतिपाद्यत इति । तत्र यथा कार्यविरोधः परिहृतः, एवं ब्रह्मधर्मविरोधोपि परिहरणीयः । अन्यथा अबोधकता स्यात् । तत्र स्वगतधर्माणामविरुद्धनामग्रिम- पादे विचारः । जडजीवधर्मत्वेन प्रतीतानामत्र विचारः क्रियते । भाष्यप्रकाशः । न स्थानतोपि परस्योभयलिङ्गं सर्वत्र हि ॥ ११ ॥ प्रस्तूयमानस्य ग्रन्थस्य सङ्गतिं वदन्तः प्रयोजनमाहुः इदानीमित्यादि । ज्ञानाधिकारिविचरोत्तरं ज्ञानविषयनिर्धारो युक्त इति तदर्थ- मवसरसङ्गत्या ब्रह्मणो विवक्षितज्ञानविषयस्य स्वरूपं पादशेषेणाग्रिमपादेन च विचार्यत इत्यर्थः । एतेन विचारेणोपनिषदां ब्रह्मबोधकताप्रकारो ज्ञातो भविष्यतीति तदर्थोऽयं विचार इति बोधितम् । नन्वस्मिन्नधिकरणे वाक्यविचारो दृश्यते, न तु स्वरूपस्येत्याशङ्क्य एतदधिकरणप्रयोजनमाहुः तत्र प्रथममित्यादि । प्रथममिति । स्वरूपविचारात् पूर्वम् । ननु ब्रह्मस्वरूपनिर्णयः प्रथमाध्याये कृतः, विरुद्धवाक्यनिर्णयश्च द्वितीयाध्याय इति किं पुनस्तन्निर्धारणादिनेत्यत आहुः तदर्थ- मित्यादि । तदर्थमिति । स्वरूपनिर्धारणार्थम् । तथाच कार्यमन्यस्य न भवति, किन्तु सर्वं ब्रह्मण एव कार्यमिति तत्र निर्धारात् सर्वत्र वेदान्तेष्वेकमेव ब्रह्म प्रतिपाद्यत इत्येतावत् सिद्धम् । द्वितीयोक्तो विरोधपरिहारोपि तद्विषयनिर्धारणार्थत्वेनैव फलितः, न तु ब्रह्मस्वरूपनिर्धारणार्थत्वेन, ब्रह्मधर्मविरोधस्यापरिहृतत्वात् । अतस्तत्र यथा कार्ये अन्यजन्यत्वकृतो विरोधः कारणैक्य- निर्धारार्थं परिहृतः, एवं कारणभूतब्रह्मस्वरूपनिर्धारणार्थं ब्रह्मधर्मविरोधोपि परिहरणीयः । अन्यथा सधर्मकं निर्धर्मकं वा, जीववत् सदोषं वा, यावद्दोषरहितं वेत्यादिसन्देहानपायादबोधकता वाक्यानां स्यात् । अतस्तन्निवृत्त्यर्थमिदं निर्धारणमित्यर्थः । एवं विचारावश्यकत्वं प्रतिपाद्य तत्रावान्तरविषयं विभजन्ते तत्र स्वगतेत्यादि । अविरुद्धानामिति । परस्परविरुद्धत्वेपि भगवदीयत्वेन प्रतीततया स्वरूपाविरुद्धानाम् । रश्मिः । न स्थानतोपि परस्योभयलिङ्गं सर्वत्र हि ॥ ११ ॥ अवसरेति । समन्वयेऽविरोधेन स्थिरीकृते विषयनिर्धारः प्रसङ्गसङ्गत्या युक्तः, परन्तु अनधिकारिहृदये न स्फुरतीति प्रतिबन्धकीभूताधि- कारिचिन्तानिवृत्तौ सत्यामवश्यवक्तव्यत्वमवसर उक्तः । आवृत्तौ गौरवमित्यवसरसङ्गत्या । विव- क्षितेति । परम्परासम्बद्धधर्मिसाक्षात्सम्बद्धधर्मिविषयकज्ञानविषयस्य । ब्रह्मण एवेति । एवकारेण सांख्यादिष्टत्युपरुन्धप्रधानादिव्यवच्छेदः । तत्रेति । प्रथमद्वितीयाध्याययोः । तत्र यथेति भाष्यं विवरीतुमाहुः द्वितीयोक्त इति । तद्विषयेति । वाक्यविषयनिर्धारार्थत्वेन । एवेति । ब्रह्मस्वरूपनि- र्धारार्थत्वव्यवच्छेदकः । ब्रह्मधर्मेति । द्वितीयाध्याये तथा । विवृण्वन्ति स्म अतस्तत्रेति । तत्र द्विती- याध्याये ब्रह्मणि ब्रह्मत्वेन सहावस्थानलक्षणो हि कार्यस्य विरोधः ब्रह्मरूपकारणैक्यनिर्धारार्थ प्रधानादि- कारणवादनिरासेन परिहृतः । एवमितिभाष्यं विवृण्वन्ति स्म एवं कारणेति । ब्रह्मधर्मेति । रूपमरूपं चेति ब्रह्मधर्मयोर्विरोधः सहानवस्थानलक्षणः । अन्यथेति भाष्यं विवृण्वन्ति स्म अन्यथेति । इत्या- दीति । आदिना रूपमरूपं चेति सन्देहः तेषामनपायात् । तत्तद्धर्मप्रकारकबोधकता तत्तत्प्रतियोगिता- ब्र० सू० २० १४ 1641
१०६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० २ अ० ४ सू० ११. तत्र क्वचिज्जडजीवधर्मा भगवति बोध्यन्ते, क्वचिन्निषिध्यन्ते । यथा 'सर्व- कर्मा सर्वकामः' । नचैते जीवधर्मा एव न भवन्तीति वाच्यम् । उच्चावचकर्मणां कामानां च जीवगतत्वप्रतीतेः । 'नेतरोऽनुपपत्ते'रिति सर्वत्र बैलक्षण्यस्योक्तत्वात् । कार्यवि- शेषधर्माणां कारणे वक्तुमशक्यत्वात् । नच कारणधर्मा एव सर्वे कार्ये अंशो वा प्रतीयन्त इति वाच्यम् । 'अस्थूलमनण्वि'त्यादिवाक्यैः प्रापञ्चिकसर्वधर्मवैलक्ष- ण्यस्योक्तत्वात् । अत्र केचिदविरोधमेवमाहुः । सर्वत्र कारणत्वात् भगवानस्ति । ततश्च अस्थूले अस्थूलः, अनणावणुः, उच्चावचकर्तृषूच्चावचकर्ता, उच्चावचकामे उच्चावचकामः, पृथिव्यां सर्वगन्धः, जलादावगन्धः । एवं रसादिषु । एवं स्थानतः परस्योभय- लिङ्गत्वमुपपद्यते । भाष्यप्रकाशः । एवं विषयं विभज्य प्रस्तुताधिकरणविषयादिकमाहुः तत्र क्वचिदित्यादि, निषिध्यन्त इति । अस्थूलादिवाक्येषु निषिध्यन्ते । तथाच विरुद्धवाक्यद्वयदर्शनात् संशयः । किमुभयलिङ्गं ब्रह्म, अन्यतरलिङ्गं वेति । पूर्वपक्षमाहुः नचेत्यादि । प्रकरणावरुद्धत्वाच्चेति न वाच्यमित्यर्थः । तत्र हेतुः उच्चावचे- त्यादि । प्रतीतेरिति । प्रत्यक्षादेव प्रतीयमानत्वात् । नच श्रुत्यपेक्षया लौकिकप्रमाणस्य निर्बलत्वात् तस्य भ्रान्तत्वमिति वाच्यम् । 'नेतरोऽनुपपत्ते'रित्यादिसूत्रेषु सर्वत्र जीववैलक्षण्यस्योक्तत्वात् सर्वकामत्वादीनां ब्रह्मधर्मत्वे जीवसारूप्यापत्त्या शास्त्रस्यापि विरोधात् । कार्यकारणव्यवहार- मङ्गापच्या कार्यविशेषधर्माणां कारणे वक्तुमशक्यत्वात् । शेषं स्फुटम् । तथाच धर्मविधेरुपासनार्थ- तयोपचारादपि नेतुं शक्यत्वाभिषेद्यस्य तु प्रयोजनान्तरशून्यतया स्वरूपबोधनमात्रफलकत्वेनान्यथा नेतुमशक्यत्त्वान्निर्विशेषलिङ्गमेव प्रतिपत्तव्यमिति प्राप्तम् । तत्र सूत्रं व्याकुर्वन्ति अत्रेत्यादि । रश्मिः । कामावो वाक्यानां स्यादित्यर्थः । प्रकरणेति । ब्रह्मप्रकरणावरुद्धत्वात् । एवेति । अनुमानयोग्य- वच्छेदकः । न चेतिभाष्यं विवरीतुमाहुः नच श्रुतीति । तस्येति । अंशांशिनोरभेदे सति वैलक्षण्यस्य अप्रप्तेयुः । विवृण्वन्ति स्म नेतरेति । आनन्दमयाधिकरणे व्याकृतानि । सर्वत्रेति । जीवे जडे च । शास्त्रस्येति । 'नेतरोऽनुपपत्ते'रित्यादेः । कार्येतिभाष्यं विवृण्वन्ति स्म कार्येति । कार्यविशेषेति । सर्वकर्मसर्वकामादीनाम् । पूर्णत्वेन तत्राभावात्, नतु कार्यत्वादीनाम् । 'अजायमानो बहुधा विजायते' इति प्राकटरूपामुल्यत्तिमादायांशतस्तेषां सत्त्वात् । स्फुटमिति । एवेति । नैयायिकप्रवादादेवकारः । अंश इति । 'यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्येवमेवास्मादात्मनः सर्वे जीवाः सर्व आत्मान' इति पृथगुपदेशात् । प्रापञ्चिकेति । नञः पर्युदासार्थत्वात्तथा । एवं शेषं स्फुटमित्यर्थः । पर्युदासः सदृग्राही । अस्य पूर्वपक्षत्वं स्फुटयन्ति स्म तथाच धर्मेति । धर्मविधेरिति । 'सर्वकर्मा सर्वकाम' इति भाष्योक्तोभयक्रोडीकारेण यो धर्मविधिः 'ज्योतिष्टोमेन स्वर्गकामो यजेते'ति धर्मैकदेशधर्मविधेः । 'धर्मं चरे'ति विधेर्वा । सर्वकर्मत्वेन सर्वकामत्वेन ब्रह्मोपासनार्थतया सामान्यविशेषभावसम्बन्धरूपोपचा- राच्छक्यसम्बन्धात् । शक्यसम्बन्धो लक्षणा । एवेति । आरोपापवादसङ्गतिसत्त्वादेवकारः । तत्रेति । 1642
भाष्यप्रकाश-रश्मि-परिवृंहितम् । १०७ अथवा । कारण एव रूपमरूपं चावच्छेदभेदेन अचिन्त्यसामर्थ्याद्वा । अन्यथा असतः सज्जननप्रसङ्ग इति अपिना संगृहीत इति । एतदुभयमपि न । कुतः । सर्वत्र हि । सर्वत्रैतादृशं रूपं भगवत उपदि- श्यते । हि युक्तोऽयमर्थः । भगवत्स्वरूपप्रतिपादकानि हि एतानि वाक्यानि, भाष्यप्रकाशः। केचित् ब्रह्मवादैकदेशिन ऋषयो वक्ष्यमाणरीत्योभयलिङ्गाविरोधं व्युत्पादयन्ति । 'यतो वा इमानि' 'सदेव सौम्ये'त्यादिभिर्भगवत उपादानत्वस्य सिद्धत्वात् सर्वत्रोपादेये कार्ये भगवानस्तीत्य- विवादम् । ततश्च यथा पार्थिवकारणभूता पृथिवी घटपटस्तम्भादिषु कार्येषु निमित्तवशात् तत्तद्रूपतां धत्ते, तथा भगवानप्यस्थूलादिषु द्रव्येषु, रसादिषु च गुणेषु, तत्तद्रूपतां धत्ते इत्येवं स्थानधर्मरूपं तत्तल्लिङ्गं परस्मिन् भासत इति परस्योभयलिङ्गत्वमुपपद्यत इत्येकं मतम् । अथवेत्यादिनोक्तं द्वितीयं मतम् । अवच्छेदभेदेनेति । अवच्छिद्यत इत्यवच्छेदः प्रदेशस्तेन । तत्र युक्तिस्त्वचिन्त्यसामर्थ्यम् । भाष्ये वाशब्दो वाक्यालङ्कारे । पूर्वोक्तरीत्यान्यथा- ङ्गीकारे तु स्थानस्य कार्यत्वात् स स धर्मस्तत्र तत्र स्थाने कुत आगत इति विमर्शे कारणस्य तद्धर्मवत्त्वाभावेन कार्ये तस्यासतः सत्ता स्यात् । तस्मात् तद्विहायैवं तत्तदवच्छेदभेदेनाचिन्त्य- सामर्थ्यादुभयलिङ्गत्वमुपपादनीयमिति । तदिदमपिना संगृहीतम् । एवं स्थानतोपीतिपदद्वयेन तदुभयमनुवदन्निषेधति नेत्यनेन । तत्र हेतुः सर्वत्रेति । तं व्याकुर्वन्ति सर्वत्रेत्यादि । ननु तत्तद्वाक्येषु तत्तल्लिङ्गताया एव श्रवणात् सर्वत्रैतादृशरूपोपदेशस्य चाश्रवणात् कथं युक्तत्वमित्याकाङ्क्षायां तद्व्याकुर्वन्ति भगवदित्यादि । एतानीति । सर्वकर्म- त्वास्थूलत्वादिवोधकानि । तथाहि । सर्वकर्मत्वादिवाक्यं तावत् , 'अथ खलु क्रतुमयः पुरुष' इति क्रतूपदेशं प्रकृत्य शाण्डिल्यविद्यायाम्, 'एष म आत्मान्तर्हृदय एतद्ब्रह्मैतमितः प्रेत्य संभवितासी'त्युपसंहारे रश्मिः। एवं पूर्वपक्षे सिद्धान्तसूत्रं व्याकुर्वन्ति अस्तीति । कार्यरूपतया तदाधेयतया च । तेन 'तद्रूपं तत्र च स्थितं साकारव्यापकत्वाचे'त्युक्तेषु द्वयं द्रव्ये, साकारव्यापकं तु गुणे द्रव्येपीत्याशयेनाहुः अस्थूलादिष्विति । अस्थूलादिषु स्थानेषु रसादिषु च स्थानेषु । अथवेत्यादिनेति । पूर्वत्र कारणरूपस्य ब्रह्मणः कार्यस्थानत उभयलिङ्गमूक्तम् । अधुना कारणस्थानत उभयलिङ्गमाहुः अथवेति । एवकारेण कार्यरूपव्यवच्छेदः । .रूपं मूर्तं अरूपममूर्तम् । मूर्तामूर्तब्राह्मणेन । अन्यथेति भाष्यं विवृण्वन्ति स्म अन्यथेति । अस्मात्प्रकारादन्यप्रकारस्य । अन्यथेत्यस्मात्षष्ठ्या लुक् । तद्विहायेति । पूर्वपक्षं विहाय । अत्रेति । पृथिवीदेशेन रूपं वायुदेशेनारूपमिति देशभेदरूपावच्छेदभेदेन । पदद्वयेनेति । नन्वेकमपि न पदं 'अव्ययादाप्सुप' इति 'सुब्लुकि लुकालुप्तत्वे नलुमताङ्गस्ये'त्यस्य प्राप्त्या कथं 'सुप्तिङन्त'- मित्यनेन पदत्वमिति चेत् । न । शब्दलक्षकलक्ष्यान्तेर्जोधर्मत्वात् । तदुभयमिति । पक्षद्वयम् । एतेनैत- दुभयमिति भाष्यं विवृतम् । तत्तल्लिङ्गताया इति । 'सर्वकर्मा सर्वकाम' इत्यादिषु सर्वकर्मत्वादिनो तत्तज्जीवादिषु तत्तच्छन्दस्य सामर्थ्यं शक्त्यादि तस्य समूहस्यैव श्रावणात् । एवकारः शक्यार्थव्यवच्छे- दकः । अर्थपदशक्त्यादिज्ञानानन्तरं गुरूपदेशादिसहकारणसाध्यत्वात् । तत्तल्लिङ्गसमूहस्तत्तल्लिङ्गता तस्या इत्यर्थः। शब्दरूपमङ्गीकृत्य यत्किञ्चिच्छब्दं वाङ्गीकृत्याह सर्वत्रेति । युक्तत्वमिति । भगवदुपदेशरू- 1643
न त्वनुवादकानि । वैयर्थ्यापत्तेः । अचिन्त्यत्वे ज्ञानानुदयः । 'तमेव विदित्वातिमृत्युमेति' 'भक्त्या माम-
भाष्यप्रकाशः । तत्क्रतुविषयं ब्रह्मैव बोधयति । क्रतुश्चात्र नोपासना । शब्दान्तरात् । अन्यथा तद्वैयर्थ्यप्रसङ्गात् । किन्तु मननम् । एवमन्यान्यपि वाक्यानि 'अणोरणीया'नित्यादीनि जीवव्यतिरिक्तमात्मानं विषयीकुर्वन्तीत्यस्थूलादिवाक्यवत् प्रमाणान्तरानवगतभगवत्स्वरूपप्रतिपादकानि, न त्वनुवादकानि । यदि हि तेषां स्थानगतधर्मानुवादकत्वं स्यात्, तदा तद्ब्रह्मज्ञानाभावात् तेषां वैयर्थ्यमेव स्यात् । न ह्यौपाधिकानां धर्माणां तद्वत्तया ब्रह्मणो वा ज्ञानं मुक्त्यर्थमिति वक्तुं शक्यम् । तथा सति दर्शनान्तरीयज्ञानादपि सा स्यात् । ततश्च शास्त्रवैयर्थ्यापत्तिः । नापि यथाकथञ्चिच्छाखाचन्द्र- न्यायेन ब्रह्मप्रतिपत्त्यर्थम् । तथा सति परस्परविरुद्धान् धर्मान्न बोधयेयुः । प्रतिपत्तिजननप्रति- बन्धकत्वात् । किञ्च । अस्मिन् वाक्येऽनुवादकत्वं संभवत्यपि न । 'ज्यायानाकाशा'दित्युक्तेः । न हि लोके आकाशाज्ज्यायः किञ्चिदस्ति स्थानम्, येन तद्वशाद्ब्रह्मणि तदनूद्येत । दिक्कालात्मनां तत्समत्वात् । एवं सांख्यादिदृष्ट्या प्रकृत्यादिग्रहणेपि ततो नान्यस्य ज्यायस्त्वम् । ज्यायस्त्वं चात्र परिमाणादेव विवक्षितं ज्ञायते । अग्रे 'अणीयान् व्रीहे'रिति श्रावणात् । अतस्तत्प्रतिपादकत्वमेवात्र मन्तव्यम् । तथा सर्वकर्मत्त्वादिप्रतिपादकत्वमपि, निरङ्कुशानां तेषामन्यत्राभावादिति । तस्मान्नात्र स्थानप्रयुक्तानुवादकत्वम् । एवं द्वितीयेपि मते, सामर्थ्यस्याचिन्त्यतया तस्याज्ञानात् तद्गतो ब्रह्मणोप्यज्ञानापत्तिः । रश्मिः । पार्थस्य युक्तत्वम् । तद्ध्येति । ब्रह्मैवेति । अन्तर्हृदय इति लिङ्गादेवकारः । तद्वैयर्थ्येति । शब्दा- न्तरवैयर्थ्यप्रसङ्गात् । विषयीति । विरुद्धसर्वधर्माश्रयत्वेन विषयीकुर्वन्ति । अनधिगतार्थगन्तृत्वप्रमाणा- दन्यत् प्रमाणं प्रमाणान्तरं तदनवगतं यद्ब्रह्मस्वरूपं विरुद्धधर्माश्रयं तस्य प्रतिपादकानि । हेतुभाष्यं विवृण्वन्ति स्म यदी त्यादि । ब्रह्मेति । किन्तु स्थानगतधर्मज्ञानात् । तेषां ब्रह्मज्ञानांशे वैयर्थ्यम् । एवेति । अवैयर्थ्ययोग्यव्यवच्छेदकः । नहीति । उपाधिः अस्थूलादिः स्थानं अस्थूलादेः । पृथिवीस्थानं सर्वगन्धस्य । जलादिस्थानमगन्धस्य । तादृशधर्माणामौपाधिकानाम् । तादृशधर्मवत्तया तादृशास्थूलाद्यौ- पाधिकस्थूलादिमत्तया पृथिव्याद्यौपाधिकसर्वगन्धादिमत्तया वा ब्रह्मणो वा ज्ञानम् । दर्शनेति । मायावच्छिन्नं चैतन्यमीश्वरः इति ज्ञानात् । सांख्यदर्शनेऽसङ्गोपाधिका सङ्गपुरुषज्ञानात् । शास्त्रेति । अविरोधाध्यायसहकृतोक्तोपपादकवेदान्तशास्त्रवैयर्थ्यापत्तिः । यथाकथमिति । औपाधिकेनापि प्रकारेण । अस्यां स्थूलायां शाखायां चन्द्र इति न्यायेन । शाखाद्रष्टारं चन्द्राद्रष्टारं प्रत्युक्तिः सूक्ष्मप्रतिपत्त्यर्था । प्रतिपत्तीति । नच विरुद्धधर्माश्रयत्वेन प्रतिपत्तिः । अन्यैरनङ्गीकारात् । तद्वशादिति । स्थानवशात् । तदनूद्येतेति ।
भाष्यप्रकाश-रश्मि-परिवृंहितम् । १०९
भिजानाति यावान् यश्चास्मि याहशः, ततो मां तत्त्वतो ज्ञात्वा विशते तदन- न्तर'मिति ज्ञानानन्तरमेव सायुज्यप्राप्तेः । न च 'यस्यामतं तस्य मतं मतं यस्य न वेद सः, अविज्ञातं विजानतां विज्ञातमविजानता'मिति वाच्यम् । शास्त्रानारम्भप्रसङ्गात् । अयं च विरोधः परिहरणीयः । सर्वे हि विरोधा अत्र चिन्त्यन्ते । नापि तत्तदुपादानभूतप्रदेशविशेषेणाविरोधः । अनुवा- दकत्वेन वैयर्थ्यापत्तेः । न च भगवति भेदोऽस्ति । प्रत्यारम्भ'मेकमेवा-
भाष्यप्रकाशः ।
ततश्च 'तमेवे'त्यादिश्रुत्युक्तसाधनाभावान्मोक्षस्याप्यप्राप्त्यापत्तिः । भक्त्याभिज्ञानादेरपि बाधापत्तिः स्यात् । नच 'यस्यामत'मित्यादावमतस्य मतत्वश्रावणादचिन्त्यत्वेनामतत्वेपि सुखेन ज्ञानोदयसंभव इति वाच्यम् । तथा सति विचारशून्यानामपि ज्ञानसंभवेन विचारशास्त्रस्य वेदान्तरूपशास्त्रस्य वानारम्भप्रसङ्गात् । किञ्च । एतद्वाक्योक्तम॑मततायां मतत्वं तदा बुद्धिगोचरीभवेत्, यदास्य बोधन- प्रकारोवगम्येत, स एव तु नावगम्यते । वदतो व्याघातात् । अतोयमपि विरोधः परिहरणीयः । यतः सर्वे विरोधा अत्र चिन्त्यन्ते । अतो यावदस्य बोधनप्रकारो न व्युत्पादितः, तावत्पर्यन्तम- बोधकत्वाभानेन ज्ञानं वक्तुं शक्यम् । किञ्च । नापि तत्तदुपादानभूतप्रदेशविशेषेणाविरोधो युज्यते । तादृशत्वस्य पृथिव्यादौ दर्शनात् वाक्यस्य लोकसिद्धानुवादकत्वेन वैयर्थ्यापत्तेः । नच पृथिव्यादीनां सांशत्वादंशभेदेन तथात्वम्, भगवतस्तु निरंशत्वात् प्रदेशभेदेनोपगम्यत इत्यनु- वादकत्वाभावान्न वैयर्थ्यमिति वाच्यम् । यदि भगवति स्वगतभेदो भवेत्, तदा पत्रपुष्पादीनामिव, तदैवमुपगन्तुं शक्येत । स तु नास्ति । प्रत्यारम्भं यत्र यत्र ब्रह्म निरूपणमारभ्यते, तत्र तत्र 'एकमेवाद्वितीय'मिति वचनात् । यदि सर्वत्रैकरूपता न स्यात्, तदा प्रत्यारम्भं तथा कथन-
रश्मिः ।
किन्तु ब्रह्मप्रतिपादकत्वम् । अचिन्त्यत्व इति भाष्यं विवृण्वन्ति स्म एवं द्वितीय इति । तमेवेति- भाष्यं विवृण्वन्ति स्म ततश्चेति । बाधेति । ज्ञानाभावेऽभिज्ञानबाधः । अभित इत्यस्य ज्ञानधर्मत्वात् । भाष्ये ज्ञानानन्तरमिति 'विदित्त्वे'ति क्त्वान्तार्थः । क्रमादेवकारः । अन्यथा 'अतिमृत्युमेति विदित्वे'त्यपि वदेत् । नचेतिभाष्यं विवृण्वन्ति स्म नचेति । शास्त्रेतिभाष्यं विवृण्वन्ति स्म तथा सतीति । विचारेति । मतपदोक्तं मननं विचारस्तच्छून्यानाम् । अयं चेति भाष्यं विवरीतुमाहुः किञ्च एतदिति । वाक्योक्तेति । ममेदं मतमिति ममतायां श्रुतिनिष्ठायाम् । अवगम्येतेति । अधोक्षजव्यतिरिक्तप्रकारः सर्वेषामाचार्याणां नूतनमार्गप्रवर्तकत्वात्तन्मध्ये कस्यचिन्मार्गत्त्वेन ज्ञायेत सर्वैः । वदत इति । मतममतमिति वदतो व्याघातः 'मम माता वन्ध्ये'ति वाक्यवत् । विवृण्वन्ति स्म अतोयम- पीति । यतो हीतिभाष्यं विवृण्वन्ति स्म यत इति । अत्रेति पूर्वपादे । उत्तरत्र च पादे । अस्येति विरोधस्य । बोधनप्रकारो विरुद्धसर्वधर्माधारत्वलक्षणः । विरोधस्य ज्ञानावरोधकत्वात् । नापीतिभाष्यं विवृण्वन्तिस्म किञ्चेति । तत्तदुपादानेति । यथोद्भूतगन्धोपादानपृथिवीभूतप्रदेशरूपविशेषेण पाषा- णभूतप्रदेशेन चाविरोधो गन्धतदभावयोः । वैयर्थ्येति । लोकेऽनधिगतार्थगन्तृत्वाभावेनाप्रामाण्यात्तथा । न चेतिभाष्यं विवरीतुमाहुः न चेति । विवृण्वन्ति स्म भगवत इति । इत्यन्विति । इति उक्त- प्रकारेण लोकेऽंशभेदात्तदनुवादमादाय प्रमाणलक्षणोपपत्तेरनुवादकत्वाभावादित्यर्थः । स्वगतेति । गीताष्टादशाध्यायोक्तसात्त्विकज्ञाननष्टस्वगतभेदो भवेत् । प्रत्यारम्भमिति भाष्यं विवृण्वन्ति स्म प्रत्या-
१. अमततायामित्यत्र ममतायामिति पाठो रश्मौ । २. सर्वे हीत्यत्र यतो हीति रश्मौ पाठः स्यात् । 1645
११० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० २ अ० ४ सू० १२. द्वितीय'मिति वचनात् । अल्पकल्पनायामपि श्रुतिविरोधः सिद्धः । श्रुत्यविरो- धार्थमेव हि प्रवृत्तेः । तस्मान्न मतान्तरानुसारेण जडजीवधर्माणां सत्त्वासत्त्वे परिहर्तुं शक्ये ॥ ११ ॥ न भेदादिति चेन्न प्रत्येकमतद्वचनात् ॥ १२ ॥ प्रकारान्तरेण समाधानमाशङ्क्य परिहरति । न भवदुक्तो विरोधः सम्भ- वति । भेदात् । कारणकार्येषु सर्वत्र भेदाङ्गीकारात् । प्रपञ्चविलक्षणं ब्रह्म भिन्नम् । प्रपञ्चधर्मवत् ब्रह्म भिन्नम् । तथा अज्ञातं ज्ञातं च । एकस्य भेदस्याङ्गीकारे सर्वमुपपद्यत इति चेत् । न । प्रत्येकमतद्वचनात् । अभेदवचनात् । 'इयं पृथिवी सर्वेषां भूतानां मध्वि'ति ब्राह्मणे 'अयमेव स योऽय'मिति सर्वत्राभेदवचनात्, कार्यकारणरूप- भाष्यप्रकाशः। मनर्थकमेव स्यात् । अतोल्पकल्पनायामपि श्रुतिविरोधः सिद्धः । न च सोल्पत्वान्न दुष्ट इति युक्तम् । श्रुत्यविरोधार्थमेव भगवतो व्यासस्य प्रवृत्तेः । तस्मान्न मतान्तरोक्तरीत्या जडजीवधर्माणां सत्त्वा- सत्त्वरूपस्योभयलिङ्गविरोधस्य परिहारसिद्धिरित्यर्थः । विद्वन्मण्डने तु प्रकरणसिद्धार्थविचारेणैतस्य सिद्धान्तसूत्रत्वमेव सेत्स्यतीत्याशयेन वक्ष्य- माणरीत्यैतदधिकं व्याख्यातम् । सोपाधिकं ब्रह्म सविशेषश्रुतिविषयः, निरुपाधिकं तन्निर्विशेष- श्रुतेरित्यपि मतमर्थाद्भिरस्तम् ।
प्रकाराणां भेदनिषेधात्। तस्मान्न भेदाङ्गीकारेण श्रुतयो योजयितुं शक्याः ॥ १२ ॥ भाष्यप्रकाशः। स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्व'मित्येकं वाक्यम् । एवमग्रेऽपि, अब्व्याकाशवाय्वादित्यचन्द्र- दिग्विद्युत्स्तनयित्नुधर्मसत्यमानुषात्मवाक्यानि । एवं चतुर्दश । तत्रायमर्थः । इयं प्रसिद्धा पृथिवी सर्वेषां भूतानां ब्रह्मादितृणस्तम्बान्तानां मधु मध्विव । उपकारकं कार्यम्, भूतादृष्टजन्यत्वात् । तथा, अस्यै पृथिव्यै अस्याः पृथिव्याः सर्वाणि भूतानि पूर्वो- क्तानि मधु मध्विव उपकारकाणि, कारणत्वात् । किञ्च । यश्चायमस्यां पृथिव्यां तेजोमयश्चिन्मात्र- प्रकाशमयः अमृतमयः अमरणधर्मा पुरुषः, सोऽपि 'तदभिध्यानादेव त्वि'ति न्यायेन पृथिवी- रूपतया तदुपकारकत्वात् तस्यै मध्विति चकारेण समुच्चीयते । यश्चायमध्यात्मम्, 'अधिशरीरं शारीरः शरीराभिमानी' त्यन्ये । वस्तुतस्तु 'यः पृथिव्यां तिष्ठ'न्नित्यादिनोक्तोऽन्तर्यामी तेजोमयो- ऽमृतमयः पुरुषः सोऽपि तेनाभिमानेन प्रकारेण भूतोपकारकत्वाद्भूतानां मध्वित्यपि चकारान्तरेण समुच्चीयते । अयमेव सः । अयं तेजोमयादिरूपः पुरुष एव सः । मैत्रेयीब्राह्मणान्ते पूर्वग्रन्थ उक्तो योऽयमात्मा उक्तविधपुरुषरूप इदममृतमानन्दः । इदं ब्रह्माक्षरम् । इदं सर्वं पूर्वोक्तकार्यकार- णरूपप्रकारात्मकमिति । एवमग्रिमेष्वपि वाक्येषु बोध्यम् । सिद्धमाहुः तस्मादित्यादि । एतेषां कार्यादीनां भगवदात्मकत्वनिगमनेन प्रतिवा- रश्मिः। एवेति । अन्यत्रादानां द्वितीयाध्यायपादयोर्निराकरणादेवकारः । कार्यकारणरूपभेदात् । छान्दसी षष्ठीस्थाने चतुर्थीत्याहुः अस्याः पृथिव्या इति । पूर्वोक्तानीति । ब्रह्मादितृणस्तम्बान्तानि । कारणत्वादिति। ब्रह्मणः कारणत्वं तृतीयस्कन्धे । तृणस्तम्बान्तानां सत्तारूपाणां कारणत्वमवयवत्वात्। तदभिध्यानादिति । अयं न्यायः द्वितीयाध्यायतृतीयपादे गतः । पृथिवीति । तस्य तस्य कार्यस्यो- त्पादनार्थं तदभिध्यानं तत्तदात्मकत्वं तत्तत्कार्यकारणात्मकत्वं तेन तत्कारणवाचकत्वमिति 'तदभि- ध्यानादेव तु तल्लिङ्गात्स' इति सूत्रांशार्थात् पृथिवीरूपतया तदुपकारकत्वात् तस्य 'तस्माद्वा एतस्मा'दिति श्रुतिप्रसिद्धस्योषध्यादेः उपकारकत्वात् कारणत्वात् । तस्यै तस्याः पृथिव्या मधु कार्यम् । चकारेण 'यश्चाय'मिति चकारेण । अधुना 'इयं पृथिवी सर्वेषां भूतानां मध्वस्यै पृथिव्यै सर्वाणि भूतानि मधु यश्चायमस्यां पृथिव्यां तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्म१शरीरस्तेजोमयोऽमृतमयः पुरुषोयमेव स योयमात्मेदममृतमिदं ब्रह्मेद५सर्व'मिति पूर्वकण्डिकां पुरुपान्तां व्याकृत्य भाष्य 'मयमेव स' इत्यंशवि- वरणेन विवरिष्यन्त आहुः यश्चायमिति । अधिशरीरमित्यव्ययीभावः । आत्मनीत्यध्यात्ममिति । भूतोपेति । शरीररूपभूतसोपकारकत्वात्कारणत्वात् । भूतानां मधु कारणम् । भाष्यं विवृण्वन्तिस्म अयमेवेति । उक्त इति । विज्ञाता । 'विज्ञातारमरे केन विजानीया' दिति श्रुतेः । 'इदममृत'मि- त्यादित्रयं व्याकुर्वन्तिस्म इदममृतमिति । पूर्वोक्तेति । एतेन कार्यकारणेति भाष्यं व्याकृतम् । कार्यादिरूपमग्रे वक्तव्यम् । एवमिति । कार्यकारणरूपप्रकाराणां भेदनिषेध इति बोध्यम् । एतेषामिति । कार्यकारणरूपप्रकाराणाम् । भगवदात्मेति । इदं निगमनं मधुब्राह्मणसमाप्तौ 'तदेतद्ब्रह्मापूर्वमनपरम- नन्तरमबाह्यमयमात्मा ब्रह्म सर्वानुभूरित्यनुशासन'मिति श्रुतौ तच्छब्दान्निगमनेन । यद्यपि यदेतादृशं ब्रह्म तदेवैतत्समस्तं जगदिति व्याख्यानम्, तथाप्यारम्भेऽथवैतैर्हेतुभिः साधित'मिदं सर्वं यदयमात्मे'त्यस्यैव पूर्वप्रतिज्ञातस्य निगमनार्थमिदमिति ग्रन्थान्निगमनं बोध्यम् । प्रतिवाक्यमिति । चतुर्दशवाक्येषु । 1647
११२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० २ अ० ४ सू० १३ . अपिचैवमेके ॥ १३ ॥ भेदाङ्गीकारे बाधकत्वात् । अपिच एवमेवाभेदमेव भेदनिषेधेनैके शाखिनो वदन्ति । 'मनसैवेदमाप्तव्यम्, नेह नानास्ति किञ्चन, मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यती'ति भेददर्शननिन्दावचनात् । तस्मान्न भेदाङ्गीकारः कर्तुं शक्यः । इवशब्दो 'बहु स्या'मिति व्यावृत्त्यर्थः । तस्मादुपनिषत्सु सर्वप्रकारो- ऽविरोधः सिद्धः ॥ १३ ॥ इति तृतीयाध्याये द्वितीयपादे चतुर्थमुभयलिङ्गमधिकरणम् ॥ ४ ॥ भाष्यप्रकाशः । क्यमभेदस्य बोधनात् । तथाच तत्तद्वाक्येषु तत्तद्धर्मश्रावणेपि ब्रह्मण ऐक्यात् सर्वत्र सर्वं कार्यं सर्वं कारणं सर्वाणि रूपाणि सर्वे प्रकाराः सन्तीति विरोधात्तादवस्थ्यान्न भेदाङ्गीकारेण श्रुतयो [
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ११३ अरूपवदेव हि तत्प्रधानत्वात् ॥ १४ ॥ (३-२-५.) एकदेशिमतेन समाधानमाह । कथमत्र सन्देहः, विरोधो वा जडजीवध- भाष्यप्रकाशः। वयवत्वेन वा अतिरिक्ततया वेदनविषयं भवति, तत् ब्रह्मैव, न तु तदतिरिक्तम् । विलक्षणप्रती- तिविषयस्य कथमपृथक्त्वमित्याशङ्कावारणाय अर्थान्तरकल्पनैनास्य भेदपरत्ववारणाय च भेदाङ्गी- कारे बाधकमाह मृत्योः स इत्यादि । इवशब्धं विनापि भेददर्शननिन्दासिद्धेस्तद्वैयर्थ्यं स्यादिति तत्प्रयोजनमाहुः इवेत्यादि । तथाच घटपटवत् घटान्तरवत् तरुकुसुमवच्च तत्त्वतो नानेव नाना पश्यति तस्य दोषः, न त्वैच्छिकं विलक्षणप्रतीत्युत्पादकं यः पश्यति, तस्य दोषः । तादृशस्य श्रौतत्वेन वास्तवत्वादिति बोधनं प्रयोजनमित्यर्थः । सिद्धमाहुः तस्मादित्यादि । यस्मादुपनिषत्सु सर्वत्रोभयलिङ्गमुच्यते, भेदश्च सर्वप्रकारेण निषिध्यते, तस्मात् तथेति श्रुतीनामबोधकत्वमेव प्रस- क्तमित्यर्थः । एवमत्राधिकरणे आक्षेपसङ्गत्या विरोधः साधितः ॥ १३ ॥ इति चतुर्थ- मुभयलिङ्गाधिकरणम् ॥ ४ ॥ अरूपवदेव हि तत्प्रधानत्वात् ॥ १४ ॥ सङ्गतिं वदन्तोधिकरणमवतारयन्ति एकदेशीत्यादि । अयं ह्येकदेशी ब्रह्मण एकदेशेन जगत्समवायित्वं तदतिरिक्तस्य जगद्वैलक्षण्यं स्वरूपतः सधर्मकत्वं स्वेच्छया व्यवहार्यत्वं ज्ञानात्मकं ब्रह्मण आकारं च मन्वानो ज्ञानाकारस्य ब्रह्मणः प्रपञ्चे प्रतिबिम्बवेन लौकिकधर्मवत्त्वभानं मनुते । तन्मतेन विरोधसमाधानमाहेत्यर्थः । अस्याग्रे किञ्चिदंशेनादरणीयत्वादादावेवन्मतेन कथनम् । तत्रैकदेशी स्वमतं व्युत्पादयितुं पूर्वा- धिकरणसन्देहं सिद्धान्तं चाक्षिपन्ननुयुङ्क्ते कथमित्यादि । अत्रोभयलिङ्गवाक्यश्रवणे किमापाततः रश्मिः। व्यवच्छेदः । मनसा मानसीसेवानिविष्टेन । ब्रह्मैवेति । 'एकमेवाद्वितीय'मिति श्रुतेर्ब्रह्म, नतु तदतिरिक्तमित्येवकारार्थः । सात्त्विकज्ञानविषयत्वेन तत्स्मृत्युपष्टम्भात् । विलक्षणेति । प्रतीतिशब्देन शब्दात्पाबल्यम् । अर्थान्तरेति । अर्थः भेदपक्षे नानेव यत्किञ्चिद्भेदद्रष्टुः निन्दाश्रावणात्, किं पुनर्भेदद्रष्टुरित्येकः । द्वितीयस्तु 'य इह नानेव पश्यति' भेदमिव पश्यति किं पुनर्भेदमिति । तदुभयादन्योऽर्थोऽर्थान्तरम् । यथा 'य इह स्वप्ने' नानेव भातं ब्रह्म पश्यति 'अविभक्तं च भूतेषु विभक्तमिव च स्थित'मिति ब्रह्मप्रकरणीयगीतावाक्याद्ब्रह्म तादृक् 'स मृत्योर्मृत्युमाप्नोति' । तथाच स्वप्नाध्याये आत्मदर्शनस्य मृत्युजनकत्वमुक्तम् । एवमर्थान्तरकल्पनेनेत्यर्थः । भेदाङ्गीकार इति । 'बहु स्या'मितीच्छात्तः पूर्वं नानेव भाते भेदाङ्गीकारे । तत्प्रयोजनमिति । ब्रह्मस्वरूपे इवार्थसाधनं गीतानुरोधेन फलम् । तत्त्वत इत्यादि । इच्छातोपि पूर्वम् । नानेव वर्तमानं नाना तत्र भेदं पश्यति । विलक्षणेति । नाना, भेदमिति यावत् । तादृशस्येति । ऐच्छिकभेदस्य । अतएव भेदाभेदवादः । तादृशस्य नानेव भानस्येति वार्थः । श्रौतत्वं तु मुखपद्माद्विनिःसृतत्वेन वेदत्वाद्गीतायाः । तथेति । जीवपरत्वेन प्रतीतानां विरोधादपि तथा । एवेति । उभयलिङ्गवत्त्वस्य वक्ष्यमाणत्वेनानिष्यतेस्तथा । आक्षेपेति । अबोधकत्वमाक्षेप्यमिति विरोधाग्रे तन्निराकरणयोराक्षेपसङ्गत्येत्यर्थः ॥ १३ ॥ इति चतुर्थमुभयलिङ्गाधिकरणम् ॥ ४ ॥ अरूपवदेव हि तत्प्रधानत्वात् ॥ १४ ॥ सङ्गनियमिति । आक्षेपसङ्गतिं समाधान- पदेन वदन्तः । आक्षेप्यविरोधसमाधानात् । मुख्यसिद्धान्तं त्यक्त्वैकदेशिमतकथने बीजमाहुः अस्याग्र इति । एकदेशिमतस्य । अनुयुक्त इति । अत्रैकदेशी जैमिन्यादीनां सूत्राणामन्यतमो नोदयति १. विरोधे । २. अविरोध आक्षेप्यः । ब्र० सू० २० १५ 1649
११४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ५ सू० १४. र्माणां विधिनिषेधयोः । जडजीवयोर्हि जडजीवधर्मा भवन्ति । अन्यत्र तूपदिश्य- माना उपासनार्था भवन्ति । ननूक्तो भेदाभावः । सत्यम् । तथापि कार्यकारणां- शाभावकृतस्य भगवद्विहारार्थं जातस्य भेदस्य निषेद्धुमशक्यत्वात् । तस्मात् ब्रह्मणि जडजीवधर्माणां निषेधो युक्तः । उपचारात्तु सर्वकर्मादयः । विपरीतं किं न स्यात्, अत आह । अरूपवदेव । रूप्यते निरूप्यते व्यव- ह्रियत इति रूपं सर्वव्यवहारविषयत्वम्, तद्युक्तं रूपवत् विश्वम् । ब्रह्म तु भाष्यप्रकाशः। सन्देहः, उत ब्रह्मणि जडजीवधर्माणां विधिनिषेधयोर्विरोधनिर्धारात् । विरोधश्च किमुभयलिङ्ग- श्रवणात्, उतोभयलिङ्गवतोर्भेदनिश्चयादिति । तत्र सन्देहे द्वितीयं हेतुं निरस्यति जडजीवयो- रित्यादि । तथाच द्वितीयस्य हेतोरभावात् ततः सन्देहो न युक्त इत्यर्थः । सन्देहे द्वितीयं हेतुं निरस्य स्वमतं साधयितुं विरोधद्वितीयहेतुमुज्जीवयति नन्वित्यादि । तथापीति । उक्तत्वेपि । तथाच तादृशस्यापि निषेधे 'बहु स्या'मित्यादेः 'स वै नैव रेम' इत्यादेश्च पीडया सृष्टिदशायां भेदाभावस्यैवाशक्यवचनत्वात् द्वितीय एव हेतुरवश्यमभ्युपेय इति तादृग्वाक्यश्रवणादापातत एव सन्देहः, उभयलिङ्गवतोर्भेदनिश्चयादेव च विरोध इत्यर्थः । तेन सिद्धं स्वसिद्धान्तमाह तस्मादित्यादि । एवमेकदेशिसिद्धान्तेन समाधानं सङ्क्षेपतो निरूप्य, तदेव विशेषतो वक्तुं सूत्रमवतारयन्ति विपरीतमित्यादि । ब्रह्मण उपादानकारणत्वं पूर्वं सिद्धम् । अतः कारणधर्मा एव सर्वकर्मादयः कार्ये प्रतीयन्ते, सुवर्णरूपादय इव कटकादिषु, अतस्ते युक्त्या श्रुत्या च तत्र सिद्धा इत्यनेकप्रमाण- सिद्धत्वाद् विधिपक्षोपि युक्त इति स एव कुतो न स्यात्, विरोधपक्ष एव वा कुतो न स्यादित्याश- रश्मिः। सेत्यर्थः । अग्रेत्यस्य व्याख्यानमुभयेति । जीवब्रह्मलिङ्गवाक्यश्रवणे । आपाततो निर्धारं विना । जीवधर्मा ब्रह्मधर्मा वेति सन्देहः । एवं पूर्वाधिकरणसन्देहमुक्त्वा विरोधमाहुः सिद्धान्तरूपम् । विरोधश्चेति । उभयलिङ्गवतोर्ब्रह्मजीवयोः । 'न भेदा'दिति सूत्रे भेदस्य निश्चयादाशङ्कांशे । तथाच भाष्यार्थ एवम् । विरोधो वा जडजीवधर्मसम्बन्धिनोः सर्वकर्मादिवाक्यस्थूलादिवाक्यगतविधिनिषे- धयोः श्रवणादिति । निरस्यतीति । एकदेशी । तत इति । हेत्वभावात्सन्देहो न युक्तः । एतेन पूर्वाधि- करणसन्देह आक्षिप्त इत्याक्षेपसङ्गतिरुक्ता । उज्जीवयतीति । शङ्कामुखेन प्रतिपादयति । उक्तत्वेपीति । 'प्रत्येकमदूषणा'दिति हेतुनोक्तत्वेपि । तादृशस्येति । क्रीडोपयोगिभेदस्येत्यर्थः । तेनैकदेशी जैमिनिः शिष्य इत्युक्तम् । पूर्वतन्त्रे भेदस्य द्वितीयाध्याय्यार्थत्वात् । तादृशस्येति । एवेति । भेदव्यवच्छेदकः । द्वितीय एवेति । उभयलिङ्गवतोर्भेदरूपः । एवकारः प्रथमहेतुव्यवच्छेदकः । आपातत एवेति । एवकारो ब्रह्मणि जडजीवधर्माणां विरोधनिर्धाररूपद्वितीयहेतुव्यवच्छेदकः । एवेति । उभयलिङ्गश्रवणरूपहेतुव्यवच्छेदकः । विरोध इति । सिद्धान्तः । तस्मादित्यादीति । भाष्ये । निषेध इति । अस्थूलादिश्रुतिषु निषेधः । उपचारादंशांशिभावसम्बन्धरूपात्तु सर्वकर्मसर्वकामादयो ब्रह्मणि जीवधर्मा इत्यर्थः । प्रकृते । तदेवेति । अन्ययोगव्यवच्छेदक एवकारः । पूर्वमिति । द्वितीयाध्याये समन्वयाधिकरणोक्तं उपादानकारणत्वं मतान्तरनिरासेन सिद्धम् । एवेति । कार्यधर्मयोगव्यवच्छेदक एवकारः । तत्रेति । ब्रह्मणि सिद्धाः । अतो नोपचार इति भावः । विरोधेति । पूर्वाधिकरणसि- 1650
[Header: भाष्यप्रकाश-रश्मि-परिवृंहितम् । ११५]
तद्विलक्षणम् । कार्यकारणांशांशिनोर्वैलक्षण्यस्य युक्तत्वात् । नन्ववैलक्षण्यमपि युक्तम्, कारणत्वात्, अत आह । तत्प्रधानत्वात् । तस्य ब्रह्मणः प्रधानत्वा- न्मुख्यत्वात् । यत्र हि यत् प्रतिपाद्यते, तत्र तस्य मुख्यत्वम् । ब्रह्मप्रतिपादने ब्रह्मधर्माणांमेव मुख्यत्वम्, नान्यधर्मांणाम् । यथा प्रशासनस्य मुख्यत्वम्, तथा 'सर्वकर्मे'ति लौकिककर्मानुवादेन भगवत्सम्बन्धे स्पष्टमेवामुख्यत्वम् । विशि-
[Section: भाष्यप्रकाशः ।] ज्ञायामेकदेशिमतेन समाधिं वक्तुं ब्रह्मणः प्रपञ्चवैलक्षण्यं तत्समवायित्वादिकं चाहेत्यर्थः । तेन सर्वकर्मत्वादयो धर्माः पाणिपादादयश्च ब्रह्मणि सन्ति न वेति सन्देहः । उभयविधवाक्य- श्रवणं सन्देहबीजम् । सन्तीति पूर्वः पक्षः । न सन्तीति तन्मते समाधानमिति बोधितम् । समाधानव्युत्पादनाय सूत्रं व्याकुर्वन्ति रूप्यत इत्यादि । हेतुं व्युत्पादयन्ति यथेत्यादि । तथेति । वैधर्म्ये दृष्टान्तः । भगवत्सम्बन्ध इति । विधीयमान इति शेषः । तथाच तत्र 'होतद्वै तदक्षर'- मिति ब्रह्मैवोपक्रम्य प्रशासनसोक्तत्वात् तस्य मुख्यत्वम्, अत्र तु 'मनोमयः प्राणशरीर' इति शरीरविशिष्टमुपक्रम्य पठितत्वात् तथेत्यर्थः । नन्वत्र नै केवलोनुवादः, किन्तु लौकिकधर्मतुल्य-
[Section: रश्मिः ।] द्धान्तपक्षः । एवकार एकदेशिमतयोगव्यवच्छेदकः । उभयेति । सर्वकर्मास्थूलादिरूपविधिनिषेध(द्वि)- विधवाक्यश्रवणम् । समाधीति । पूर्वपक्षस्तु सर्वकर्मत्वादयो धर्मा ब्रह्मणि सन्तीति सिद्धान्तेन सेत्स्यति । भाष्ये । युक्तमिति । घटकपालद्वयोर्मृत्त्वेनावैलक्षण्यमपि युक्तम् । तस्येति । घट इत्युक्ते घटस्य मुख्यत्वं यथा । ब्रह्मणोऽधोक्षजत्वाद्ब्रह्मत्यनुक्त्वा धर्मपर्यन्तानुधावनम् । ब्रह्मधर्मा अस्थूलादयस्तेषाम् । अन्यधर्मा जीवधर्मत्वेन प्रतीताः सर्वकर्मादयस्तेषाम् । एवकारव्यवच्छेद्यमाहुः- नान्येति । एवकारेण न ब्रह्म व्यवच्छेद्यमधोक्षजत्वात् । प्रकृते । व्युत्पादयन्तीति । दृष्टान्तेन स्पष्टयन्ति । यथेत्यादीति । प्रशासनस्येत्यादि । मधुब्राह्मणान्त उक्तस्य । 'तदेतद्ब्रह्मापूर्वमनपर- मनन्तरमबाह्यमयमात्मा ब्रह्म सर्वानुभूरित्यनुशासन'मिति श्रुतिः । यद्वा । प्रशासनं 'अथ ह वाचक्नव्युवाचे'त्यारम्भकेऽक्षरब्राह्मणोक्तं प्रशासनं तस्येत्यर्थः । 'एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिवी विधृते तिष्ठत' इति श्रुतिः । भाष्ये । लौकिकेति । जीवधर्मत्वेन प्रतीतकर्मणामनुवादेन सिद्धकथनेन । स्पष्टमेवेति । एवकार आरोपापवादसङ्गतेरपि । अमुख्यत्वमौपचारिकत्वम् । जीवधर्मत्वेन प्रतीतधर्मविरोधपरिहारोत्र निरूप्यत इति सर्वत्वविशिष्टकर्मणामजीवधर्मत्वेन निरूपणविरोधामाशङ्क्य समादधुः विशिष्टेति । सर्वत्वविशिष्टकर्मबोधनेपि । प्रसिद्धसिद्धकथकत्वात् । प्रसिद्धातिरिक्तकर्म- कल्पनायाम् । प्रमाणेति । 'सर्वे ब्राह्मणा भोजयितव्या' इति दृष्टान्तसहितशब्दप्रमाणवद्विलक्षणप्र- माणाभावात् । ननु सर्वकर्मणां सर्वकामानां प्रारब्धसञ्चितादिरूपत्वात्पशुपुत्रादिविषयत्वाच्च कथमविरोध ईश्वरपरत्वेनेत्यत आरोपेणेत्याह यथाकथञ्चिदिति । उपासनायां बोध्यम् । एतेन पादायों जीवस्य मुक्तियोग्यता सापि स्मारिता । एवकारो 'वाचं धेनुमुपासीते'त्यादौ तथा दर्शनात् । एवेति । ननु सर्वकर्मत्वादीन् छान्दसाननूद्य । निषेधार्थं सर्वकर्मत्वादिवैशिष्ट्यबोधनमुचितम् । प्रक्षालनपङ्कन्यायेन प्रतिपादनवैयर्थ्यापातात् । तथेति । वैधर्म्य इति । दृष्टान्ते मुख्यत्वपदम्, दार्ष्टान्तिकेऽमुख्यत्वपदमिति साधर्म्ये दृष्टान्तवैषम्यमाशङ्क्योक्तम् । उक्तार्थसिद्धमाहुः तथाचेति । 'अथ ह वाचक्नव्युवाचे'त्यारम्भकेऽ-
[Footer: १. समाधि । २. नानुवाद इति मूले पाठः । 1651]
११६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ५ सू० १४. दृष्टबोधनेऽपि सर्वशब्दस्य प्रसिद्धानुवादकत्वादतिरिक्तकल्पनायां गौरवात् प्रमाणा- भावाच्च यथाकथञ्चित्तद्धर्मवत्त्वेन ज्ञानस्यैवोपयोगाल्लोकधर्मानैवानूद्य विशिष्टबो- धनमुचितम् । अरूपमिति वक्तव्ये अरूपवदिति वचनम्, भिन्नधर्माणामेवैवं निर्णयः, न तु प्रशासनवद्भगवद्धर्माणाम् । तस्मात् कार्यवत् तद्धर्माणामपि कार्यत्वात् भगवत्त्वम्, न भगवद्धर्मत्वमिति सिद्धम् ॥ १४ ॥ भाष्यप्रकाशः। धर्मवत्तया ब्रह्मणो बोध्यत इत्यवयुत्यानुवादाच्चैतेषामप्यमुख्यत्वम्, अत आहुः विशिष्टेत्यादि । मास्तु सर्वकर्मादिशब्दानामनुवादकत्वम्, तथापि के सर्व इत्याकाङ्क्षायां ये लोकप्रसिद्धास्तानेव सर्वपदेना- नूद्य, 'कुन्त्या हि सदृशौ पादौ दृष्ट्वा कर्णस्य धीमत' इतिवत् सर्वेषामिव कर्माणि यस्येति तत्तुल्या- नामतिरिक्तानां विधानं समासेऽङ्गीकार्यम्, तथा सति गौरवात्, सर्वकर्मादिश्रुतेर्वादकवलितत्वाद् तदतिरिक्तस्यैतद्धर्मविधायकप्रमाणस्याभावाच्चातिरिक्तकल्पनामकृत्या यथाकथञ्चित् तद्धर्मवत्त्वेन ज्ञानस्यैवोपासनायामुपयोगाल्लोकधर्मानैवानूद्योपचारेण शरीरधर्मविशिष्टबोधनं युक्तमित्यर्थः। ननु यदि सर्वकर्माद्यभावेन सर्वव्यवहारातीततया जगद्वैलक्षण्यं सूत्रकृतोऽभिप्रेतं स्यात्, तदा अरूपमि- त्येव वदेत्, नत्वरूपवदिति, वदति त्वेवम्, अतोऽतिरिक्तधर्मकल्पनैव युक्तेत्यत आहुः अरूप- मित्यादि । एवं निर्णय इति । औपचारिकत्वनिर्णयः । तथाच लोकवैलक्षण्येन लौकिक- व्यवहारातीतत्वमेवाभिप्रेतम्, न तु यावद्व्यवहारातीतत्वम्, अस्थूलादिवाक्य एव प्रशासन- श्रावणेन तथा निश्चयादिति बोधनाय तथा कथनम्, अतो नानेनातिरिक्तधर्मकल्पनसिद्धिारि- रश्मिः। क्षत्रब्राह्मणे श्रुतिरियम् । मुख्यत्वमिति । ब्रह्मरूपत्वान्निन्दितस्यापि मुख्यत्वं प्रकाशाश्रयन्यायेन । अत्र त्विति । छान्दोग्यीयपञ्चमप्रपाठके तु । पठितत्वादिति । 'सर्वकर्मा सर्वकाम' इत्यादेः पठितत्वात् । तथेति । अमुख्यत्वमौपचारिकत्वम् । अनुवाद इति । जीवधर्माणां सिद्धानां कथनम्। अवयुत्येति । लौकिकधर्मान् तुल्यत्वेन रूपेणालौकिकधर्मेषु मिश्रीकृत्य । एतेषामिति । सर्वकर्मत्वा- दीनाम् । अमुख्यत्वमिति । औपचारिकत्वम् । ननु शक्यस्य तौल्यसम्बन्धरूपा लक्षणा कुतो नेति चेत् । न । तथा सति लौकिकधर्मपदप्रयोगः स्यात्, अलौकिकधर्मेषु, तीरे गङ्गापदप्रयोगवत् । अतो नौपचारिकत्वमिति । अनुवादकत्वमिति । जीवे सिद्धानां कथकत्वमीश्वरे । मास्त्विति । पूर्वोक्तावयुत्यानुवादकत्वमस्तु । यथाकथञ्चिदिति भाष्यं विवृण्वन्ति स्म यथाकथञ्चिदिति । उपचारेणेति । तेषामुपचारेणालौकिकान् हित्वा लौकिकानेवारोप्यापवादार्थं तैर्धर्मैः शरीरविशिष्टबोधन- मित्यर्थः । अतिरिक्तेति । आरोप्यातिरिक्त नित्यधर्मकल्पना । एवकार आरोप्यधर्मयोगं व्यवच्छिनत्ति । अरूपमित्यादीति । रूपं सर्वव्यवहारविषयत्वम्, अरूपं सर्वलौकिकव्यवहारातीतत्वम् । इति वक्तव्ये रूपवद्विश्ववैलक्षण्यायारूपवदितिवचनम्, भिन्नधर्माणां विश्वगतानामेव, नतु भगवद्गतानामिति वक्ष्यन्ति । एवं आरोप्यत्वेन निर्णयः । एवकारव्यवच्छेद्यमाहुः नत्विति । तद्धर्माणामिति । कार्यधर्माणाम् । नेति । नञा भेदोक्तेर्नेति । भेद एव विलक्षणशब्देनोच्यते, ब्रह्म तु तद्विलक्षणमिति भाष्ये । तदेतदाहुः तथाचेति । पूर्वोक्तविश्ववैलक्षण्येन । एवेति । अरूपवदित्यत्र नञा भेदप्रत्ययानाद्विलक्षणं न भेदातिरिक्तमिति भेदातिरिक्तविलक्षणयोगव्यवच्छेदकैवकारः । अन्यमप्येवकारव्यावर्त्यमाहुः नत्विति । एको वाच्यः, एकस्तात्पर्यविषयः । अत्र हेतुमाहुः अस्थूलादीति । तथेति । लौकिकव्यवहारातीतत्वम्, नतु सर्वव्यवहारातीतत्वमिति निश्चयात् । तथेति । मतुबन्तरूपवत्पदकथनम् । अनेनेति । अरू- १. धर्मवत्त्वेन । २. वैशिष्ट्यबोधनम् । 1652
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ११७ प्रकाशवच्चावैयर्थ्यात् ॥ १५ ॥ ननु सर्वव्यवहारातीते शास्त्रवैफल्यम्, 'मनसैवेदमाप्तव्य'मिति विरोधश्च न परिहृतः, 'तं त्वौपनिषदं पुरुषं पृच्छामि' 'यतो वाचो निवर्तन्त' इति चेत्यत आह । प्रकाशवत् । यथा सौरः प्रकाशो व्यवहार्योऽव्यवहार्यश्च, न हि स्वतः सम्पादयितुं शक्यते, स्थापयितुं वा, आगते तु सूर्ये मेघाद्यभावे च सान्निध्यमा- त्रेण व्यवहारः कर्तुं शक्यते, तथा लौकिकवाङ्मनोभिर्न शक्यते व्यवहर्तुम्, ईश्वरसन्निधाने तु शक्यत इति द्वयमाह श्रुतिः । कुत एतदवगम्यते । तत्राह । अवैयर्थ्यात् । अन्यथा शास्त्रं व्यर्थ स्यात् । चकाराद्धर्माणं तथात्वविरोधः परि- हृतः । 'आसीनो दूरं व्रजति' 'अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणो- भाष्यप्रकाशः। त्यर्थः । तेन सिद्धमाह तस्मादित्यादि । कार्यवदिति । प्रपञ्चवत् । न भगवद्धर्मत्वमिति । न नित्यभगवद्धर्मत्वम् ॥ १४ ॥ प्रकाशवच्चावैयर्थ्यात् ॥ १५॥ सूत्रमवतारयन्ति नन्वित्यादि । सर्वकर्मत्वादीनामौपचारि- कत्वात् प्रशासितृत्वादीनां चालौकिकत्वेन सम्यग्बुद्धावनारोहात् सर्वव्यवहारातीते ब्रह्मप्यङ्गीकारे कृते ज्ञेयत्वेनापि व्यवहारस्यासम्भवाज्ज्ञानार्थस्य विचारशास्त्रस्य वैफल्यम् । 'मनसैवैतदाप्तव्य'मिति विरोध इति । सर्वव्यवहारातीतस्य मनोविषयत्वाभावेन, तथा एतस्याः श्रुतेः 'अप्राप्य मनसा सहे'त्यनेन च सह विरोधो न परिहृत इत्यर्थः । अस्मिन् सूत्रे प्रकाशवदिति न मतुप्, किन्तु तृतीयान्ताद्वतिः । पूर्वसूत्रादेकदेशभूतमपि तत्पदमनुवर्तते । तत् ब्रह्म प्रकाशेन तुल्यम् । तत्र कथं तुल्यमित्याकाङ्क्षायां सूत्रं व्याकुर्वन्ति यथेत्यादि । व्यवहार्यत्वाव्यवहार्यत्वे व्युत्पादयति- नहीत्यादि । स्थापयितुमिति । आयातो यथा नापयाति तथा निरोद्धुम् । सन्निधाने तु शक्यत इति । उपासनादिसाधनेनेश्वरसन्निधाने प्रतिबन्धकाभावाच्छक्यते । द्वयमिति । मनसा वाचा चावाप्यमनाप्यं चेति द्वयम् । शास्त्रमिति । मनसैवैतत्, तापनीयरूपम्, ज्ञानफलबोधकं 'तमेवे'त्यादिरूपं चेत्यादिकं उभयबोधकं शास्त्रम् । प्रकाशतुल्यत्वसङ्ग्राहकचकारसूचितं धर्माणं लौकिकत्वादिविरोधपरिहारं व्याकुर्वन्ति आसीन इत्यादि । अलौकिका इति । लोकविरुद्धाः । रश्मिः। षवत्पदेन । अतिरिक्ताः धर्मा वैदिकाः तेषां कल्पनस्य सिद्धिरारोपार्थम् । नित्येति । साक्षात् । साक्षाद्धर्मा नित्यभगवद्धर्माः ॥ १४ ॥ प्रकाशवच्चावैयर्थ्यात् ॥ १५ ॥ बुद्धाविति । यथा बालस्य शृङ्गममितोयादिभ्यो वारितस्य बुद्धौ वारणादेरनाहरूढत् । मनसेति भाष्यं विवृण्वन्ति स्म मनसैवेति । इति चेति भाष्यीयचकारार्थमाहुः एतस्या इति । सन्निधाने तु शक्यत इति । ईश्वरसन्निधानं हृदि 'प्रविष्टः कर्णरन्ध्रेणे'तिवाक्यात् । फलप्रकरणे प्रसिद्धम् । व्रजभक्तेषु ईश्वरसन्निधानं भगवद्वाक्यपूर्वपक्षीकरणसमये । प्रतिबन्धकेति । अलौकिके तु लौकिकत्वरूपप्रतिबन्धकाभावात् । तापनीयेति । 'तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम्' । एवंरूपं शास्त्रम् । अत्र मनश्चक्षुषोः करणत्ववि- रोधः । तमेवेति । 'तमेव विदित्वातिमृत्युमेती'ति । किञ्चादिना 'यतो वाच' इत्यपि । अत आहुः उभयेति । मनश्चक्षूरूपकरणबोधकम् । मनसा वाचा चावाप्यमनाप्यं चेति बोधकम् । धर्माणाम- 1653
११८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ५ सू० १६. त्यकर्ण' इत्यादावलौकिका भगवद्धर्मा उच्यन्ते । अकारणककार्यवचनात् तद्ध- र्माणां चाकार्यत्वं बोधयति । तस्मादव्यवहार्येऽपि न शास्त्रवैफल्यम् ॥ १५ ॥ आह च तन्मात्रम् ॥ १६ ॥ किञ्चिदाशङ्क परिहरति । नन्वलौकिकानीन्द्रियाणि विरोधाभावाय कथं न कल्प्यन्ते, अन्यथा अकारणककार्यत्वम्, तस्य च नित्यत्वमलौकिकत्वम्, ततश्च 'पश्यत्यचक्षु'रिति विरोध इत्याशङ्क परिहरति । आह च श्रुतिः स्वयमेव तन्मात्रं प्रज्ञानघनमात्रम् । 'स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एवं वा अरे अयमात्मानन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एवे'ति स्वरूपातिरिक्ताना- मिन्द्रियाणामभावात् । नच क्रियाभावोऽपि । वेदविरोधेन तथा कल्पयितुम
यहाँ प्रस्तुत पृष्ठ का देवनागरी में पंक्ति-वार प्रतिलेखन (transcription) दिया गया है:
भाष्यप्रकाश-रश्मि-परिबृंहितम् । १११ ल्पना, किन्तु सर्वाकारस्वरूपं वस्त्वेव तादृशमिति मन्तव्यम् । कृत्स्नवचनात् । चकारात् 'सर्वेन्द्रियविवर्जित'मिति स्मृतिरपि । तस्मात्सेन्द्रियकल्पनया अविरोधः ॥ १६ ॥ दर्शयति चाथोपि स्मर्यते ॥ १७ ॥ पुनः प्रकारान्तरेण विरोधमाशङ्क्य परिहरति । ननु ब्रह्म जगत्कारणमिति सिद्धम्, तच्च समवायि निमित्तं चेति च, कारणधर्मा एव हि कार्ये भवन्ति, अस- म्भावनायां त्वन्यथा कल्पनम्, कामादयो धर्माश्च श्रुतौ विहिताः, ते ब्रह्मण एव भवितुं युक्ताः, निषेधिकार्पि श्रुतिः, न हि वेदवादिनामणुमात्रमप्यन्यथा कल्पन- मुचितमित्याशङ्क्य परिहरति । भाष्यप्रकाशः । मेव प्राणो भवती'त्यादेः समुच्चायकः । विषयवाक्यसिद्धमर्थं निगमयन्ति अत इत्यादि । अकृ- त्स्नत्वबुद्ध्युत्पादकप्रकारसत्त्व एव तन्निवारकस्य कृत्स्नपदस्य सार्थक्यसिद्धेस्तद्वचनात् तथेत्यर्थः । सिद्धमाहुः तस्मादित्यादि । क्रियाणाम् केवलज्ञानात्मकैन स्वरूपेणैव सिद्धत्वान्न तदनुरोधेनापि तथेत्यर्थः ॥ १६ ॥ दर्शयति चाथोपि स्मर्यते ॥१७॥ पुनरित्यादिना सूत्रमवतार्य तद्विभजन्ति नन्वित्यादि । असम्भावनायां त्वन्यथा कल्पनमिति । कार्यासाधारणधर्माणां कार्यत्ववत् कारणे असम्भावनायां तु विवर्तवादस्य वा असतः सत्ताया वा आश्रयणेन श्रुतिविरुद्धं कल्पनम् । इत्याशङ्केति । एवं प्रकारेण विरोधमाशङ्क्य । रश्मिः । विनश्यति न प्रेत्य संज्ञास्तीत्यरे ब्रवीमीति होवाच याज्ञवल्क्य' इत्यनया श्रावणेन । पूर्वश्रुतौ श्वासो- च्छ्वासः वेदशब्दजन्यजगतः स्थापनम् । 'कार्यवत्तद्धर्माणा'मित्युक्तभाष्ये कार्यप्रसङ्गे तद्धर्माणांमुक्तेर्जगत्स्था- पनमुक्तम् । द्वितीयायां भूतसमुत्थानादिकं स्पष्टम् । छान्दोग्यीयात्मोपदेशानुसारेण सर्वभूतसमुत्थानम्, नतु ताम्बूलपूगीफलादिजन्यमदशक्तिवदित्याहुः उक्तत्वादिति । तथाच निलीनप्राणादेराविर्भावः, नतु तत्रासत्त्वाया मदशक्तेरित्यर्थः । 'नासतो विद्यते भाव' इति वाक्यात् । विषयेति । विषयवाक्यं 'स यथा सैन्धवे'त्युक्तम् । तत्सिद्धमर्थम् । अत इति शब्देन पञ्चम्यन्तेन घटितं भाष्यमिति निगमयन्तीत्युक्तम् । तस्मात्पर्वतो वह्निमानितिवत् । सर्वाकारत्वसमर्थनायाहुः अकृत्स्नत्वेति । तादृशप्रकारः प्रज्ञानस्य गुण- त्वप्रकारः । तद्वचनेति । कृत्स्नपदवचनात् । तथा प्रज्ञानघनत्वेन गुणगुणिसर्वाकारस्वरूपं वस्त्वेव, न तु मिश्रम् । तादृशमित्यर्थः । क्रियाणामिति । 'प्राणन्नेवे'त्यादौ प्राणेन्द्रियानुकूलक्रियाणाम् । स्वरूपेण स्वसत्ता रूपेण । एवकारोऽसतः सत्ताव्यवच्छेदकः । तदन्विति । अलौकिकेन्द्रियकल्पनानुरोधेनापि तथा अविरोध इत्यर्थः ॥ १६ ॥ दर्शयति चाथोपि स्मर्यते ॥ १७॥ नन्वित्यादीति । विरोधमिति । कामाकामपोषकश्रुति- विरोधम् । कार्येति । कार्यासाधारणधर्माः अनित्ये जननदाससाधनकर्तृत्वापहतपाप्मत्वानि तेषाम् । कार्य- त्वेति । षष्ठ्यन्तादितिः । श्रुतीति । 'यतो वा इमानी'ति श्रुतिविरुद्धम् । भाष्ये । कामादय इति । शारी- रकब्राह्मणे 'काममय एवायं पुरुषः यथाक्रतुर्भवति, तत्कर्म कुरुत' इति श्रुतौ तत्कर्म । 'तदभिसम्पद्यत' इति श्रुतौ तत्कर्मसम्पन्नः । एवं विहिताः । अत्र भवतीति लेडन्तं पदमिति । एवेति । न तु जीवस्येत्यर्थः । युक्ता इति । नैयायिका अपि कारणधर्माः कार्यधर्मानारभन्त इत्याहुः निषेधिकेति । 'अथा कामयमानो योऽकामो निष्काम आत्मकाम आप्तकामो भवती'ति । ज्योतिर्ब्राह्मणेपि 'अथ सुप्तो यत्र न कंचन कामं कामयते न 1655
१२० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ५ सू० १७. दर्शयति श्रुतिरेव जडजीवधर्माणां भगवत्यभाव इति । 'द्वे वा व ब्रह्मणो रूपे' इत्युपक्रम्य, द्वेधा पञ्चभूतान्युक्त्वा, 'अथात आदेशो नेति नेती'त्याह । इतिशब्दः प्रकारवाची । ब्रह्म पञ्चमहाभूतानि भवति, न त्वेवं प्रकारकम् । तत् साधयति । न । न भवत्येव ब्रह्म तादृशम् । हि युक्तोऽयमर्थः । 'एतस्माज्जात'मिति । न हि कार्यकारणयोरेकः प्रकारो भवति । अतो 'नेती'ति प्रकारनिषेधोपसंहारः, न तु समवायित्वमात्रत्वम्, किन्तु 'अन्यत् परमस्ति' इति भाष्यप्रकाशः। परिहारं वदन्तो दर्शयतिपदसूचितं विषयवाक्यमुपन्यस्य व्याकुर्वन्ति द्वे इत्यादि । इदं बृहदारण्यके मूर्तामूर्तब्राह्मणे । तत्र 'द्वे वा व ब्रह्मणो रूपे' इत्युपक्रम्य अधिदैवता- ध्यात्मभेदेन द्व
भाष्यप्रकाश-रश्मि-परिवृंहितम् । १२१ रूपं निरूप्य, नाम निरूपयति । 'सत्यस्य सत्य'मिति । तेन प्रपञ्चातिरिक्तब्रह्मणो भाष्यप्रकाशः। किन्त्वन्यत् परमस्तीति । तथाच द्वितीयेन नेतीत्यनेन एतावन्मात्रनिषेधोपसंहारः । तथाचात्र न सर्वन्निषेधः, नापि रूपद्वयनिषेधः, नापि भूतवासनाराश्योर्निषेधः, न वा तत्स्थापनमात्रम्, निषेध- पक्षेषु व्युत्पादनपूर्वकप्रतिपादनवैयर्थ्यापातात्, स्थापनमात्रपक्षे निषेधस्य प्रक्रमान्तरस्य च वैयर्थ्य- प्रसङ्गात्, अतः प्रकारैतावत्त्वयोरेव निषेध इत्यर्थः । एतदेव निगमयितुमाहुः इतीत्यादि । इत्येवं अरूपत्ववारणाय रूपं निरूप्यानामत्ववार- णाय नाम निरूपयति 'सत्यस्य सत्य'मिति । तत्र व्याख्येयवाक्य इव व्याख्यानवाक्येपि एवं शङ्का स्यात् । हि निश्चयेन । न एतस्मात् किन्त्वाविद्यकमिति हेतोर्नेति इति, इदं ब्रह्म न भवती- त्युच्यते, किन्त्वन्यत् परं ब्रह्मास्तीति । यद्वा । हि यस्माद्धेतोर्नेति नेतीति वीप्सया मूर्तामूर्ते तद्वा- सनात्मिकामविद्यां तत्कार्यादि च सर्वं निषिध्य सर्वन्निषेधावधित्वेन तत्साक्षित्वेन च ब्रह्मैव निर्दिष्टं इति, कृत्वा, नेति नेतीत्येतस्मात् परं उत्कृष्टं ब्रह्मणो निर्देशनं अन्यन्नास्तीति । अथवा । न ह्येतस्माद्ब्रह्मणो व्यतिरिक्तमस्तीति नेतीत्युच्यते, न पुनः स्वयमेव नास्तीत्यर्थः । तच्च दर्श- यति, अन्यत् परमनिषिद्धं ब्रह्मास्तीति त्रिधापि अक्षरयोजना सम्भाव्यते । अतः को वा व्याख्यान- वाक्यार्थ इति, तत्सन्देहं निराकर्तुं नाम निर्वक्ति । 'प्राणा वै सत्यं तेषामेष सत्य'मिति । प्राण- न्तीति प्राणाः पूर्वोक्ता अपरब्रह्मरूपाः तत्कार्यत्वात् । सत्यम् । नाविद्यकाः ब्रह्मविवर्तभूताः । तत्र रश्मिः। वरणेनैव विवृण्वन्तोऽन्यमाहुः भिन्नेति । एतावत्तेति । पञ्चमहाभूतमात्रतानिषेधोपसंहारः । तथाच इति नाम पञ्चमहाभूतप्रकारेण ब्रह्म नेति द्वितीयेनेतीत्यस्यार्थः, किन्त्वन्यत्तत्समवायि परमस्ति तत इति भावः । नचेति । नन्द्वयेन मूर्तामूर्तस्थापनमात्रम् । व्युत्पादनेति । निषेधस्य व्युत्पादनेत्यादिः । व्युत्पादनं व्युत्पत्तिः । सा च नश्यतीति नञ् । नच भावे वा डभू डौ । प्रतिपादनं 'किं द्वौ नञा'- वित्यादिनोक्तपक्षाणाम् । मूर्तामूर्ते नेति न, किन्तु इति उक्तप्रकारेण । नैयायिकानां प्रसिद्धमिति । निषेधवीप्सया निषेधादरात्सर्वं निषिद्धम् । नो चेदुपसंहारे न भवेत् । किंवा रूपद्वयनिषेधद्वयमिति यथासंख्यमन्वयः । व्याकरणात् । पूर्वप्रतिषेधो भूतराशिं आध्यात्मिकं निषेधति । द्वितीयो वासनाराशिं आधिदैवतम् । स्वयमेवेति । एवकारः स्मृत्यादियोगव्यवच्छेदकः । एवेति । प्रतिपादनादन्ययो- गव्यवच्छेदकैवकारः । इत्येवमिति । इतिहैतावित्यनुक्त्वेत्येवमिति यदुक्तम्, तेन निगमनमेवं प्रकारेणेत्येवं तृतीयान्तोक्तहेतुघटितमिति बोध्यम् । तत्रेति । रूपनिरूपणे । एतस्मादित्यस्मादित्यत्र भाष्यानुरोधात् । आबिद्यकमिति । मूर्तामूर्तरूपं इति हेतोः नेति । इमौ शब्दौ व्याकुर्वन्ति स्म इतीति । इत्येवं प्रकारं इदं मूर्तामूर्तरूपं ब्रह्म न भवत्याविद्यकत्वात् इत्युच्यते । प्रथमं द्वयोः स्थापनमात्रं क्रियत इत्युक्त्वा द्वितीय आहुः यद्वेति । तत्कार्यादीत्यादिनाकार्यकार्यग्रहणम् । सर्वन्निषेधेति । यथा नेदं रजतमिति निषेधे निषेधावधित्वेन शुक्तिस्तद्वत् । ब्रह्मैवेति । एवकारेण मूर्तामूर्तयोगव्यवच्छेदः क्रियते । नेतीत्येतस्मादत्यन्तेन ह्यस्मादिति नेतीलन्तं व्याख्यानं व्याकृतम् । परमित्यारभ्यान्य- त्परमस्तीति व्याकृतम् । नहीति नञोत्रास्तिनान्वयः कृतः । उत रूपद्वयमिति तृतीयपक्ष आहुः अथवेति । अत इति । व्याख्यानवाक्यस्यार्थः । पूर्वोक्ता इति । 'प्राणन्नेव प्राणो भवती'ति श्रुत्युपन्यासेन पूर्वसूत्रकारोक्ताः । यद्वा 'अथामूर्तम् । प्राणश्च यश्चायमन्तरात्मन्नाकाशः । एतदमृतमेतद्य- देतस्य'मिति मूर्तामूर्तब्राह्मणस्थाः प्राणाः । तत्कार्यत्वादिति । ब्रह्मकार्यत्वात् । सत्यमिति । प्राणाः १६ ब्र० सू० २० 1657
१२२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ५ सू० १७. विद्यमानत्वात् प्रपञ्चधर्मवचनं तस्मिन्नौपचारिकमेव युक्तम् । श्रुत्यैव तथा प्रति- पादनात् । चकारः पूर्वयुक्त्यनुसन्धानार्थः । अथो इति प्रक्रमभेदोपि । ‘अथात आदेश' इति भिन्नप्रक्रमेणाह । श्रुतेरन्यार्थतानिरकरणायाह । अपि स्मर्यते । ‘अनादि मत्परं ब्रह्म न सत् तन्नासदुच्यते' इति । सदसतोः क्षेत्रत्वात् । ज्ञेयनि- रूपणे निषेधः । प्रपञ्चधर्मा भगवति उच्यन्ते वेदादौ, न तु तद्धर्मा भवन्तीति ज्ञापयति । तस्माच्छ्रुतिस्मृतिभ्यामेव तथा निर्णयः ॥ १७ ॥ भाष्यप्रकाशः। हेतुः । तेषां प्राणानां एष परमात्मैव सत्यं स्वरूपभूत इति । यद्वा । सद्द्रूपत्वात् त्यद्रूपत्वाच्च सत्यं प्राणास्तेषामेष स्वरूपभूत इति । तथाच व्याख्यानवाक्यमपि न निषेधस्य प्रपञ्चे पर्यवसानं गम- यति, न वा ब्रह्मणः सर्वविशेषशून्यत्वे, किन्तु ब्रह्मणः प्रपञ्चप्रकारकत्वे प्रपञ्चसमवायिमात्रत्वे चेत्येतदर्थं रूपनामवत्त्वार्थं च नामनिर्वचनम् । तदेतदुक्तं इतीत्यादिना । तेन यत् सिद्धं तदाहुः तेनेत्यादि । नामव्याख्यानपूर्वकं ब्रह्मणोतिरिक्तत्वस्थापनेन ब्रह्मणस्तथात्वात् तथेत्यर्थः । प्रक्रम- भेदोपीति । प्रकारभेदेनब्रह्मातिरेकयोरुपोद्वलक इत्यर्थः । स्मृतौ ब्रह्मणः सदसत्त्वं निषिध्यते इति कथं तेन विवक्षितव्यतिरिक्तार्थवारणमित्यतो व्याकुर्वन्ति सदसतोरित्यादि ॥ १७ ॥ रश्मिः। सत्यमित्यन्वयः । सत्यं नाम नाविद्यकाः, किन्तु ब्रह्मविवर्तभूताः ब्रह्मणो विशेषेण वर्तनभूताः । ब्रह्मावैवर्तपुराणमपि भवति । परमात्मैवेति । तदन्याभावादेवकारोऽन्ययोगव्यवच्छेदकः । अन्यत्पर- मस्तीत्यत्रान्यत्त्वमिति पुस्तकान्तरपाठात्तत्प्रतमर्थमाहुः यद्वेति । प्रपञ्च इति । मूर्त्तामूर्त्तरूपे । किंवा वीप्सेत्युक्तद्वितीयपक्षे आहुः न वा ब्रह्मण इति । प्रपञ्चेति । पञ्चमहाभूतप्रकारकत्वे । प्रपञ्चेति । ब्रह्मणोऽभिन्ननिमित्तोपादानत्वादिति भावः । इतीतीति । इति रूपमित्यादिना । अतिरिक्तत्वेति । पञ्चमहाभूतातिरिक्तत्वस्थापनेन । तथेति । प्रपञ्चधर्मस्य पञ्चमहाभूतत्वस्य वचनं तस्मिन् ब्रह्मणि औपचारिकत्वं लाक्षणिकत्वं स्वसमवायिकारणत्वं सम्बन्धः । एवकार आरोपापवादसङ्गतिसत्त्वात् । श्रुत्यै- वेति अस्थूलादिश्रुत्यैव । तथेति । औपचारिकत्वम् । स्वमावतो निषेधायोगात् । प्रकारेति । प्रक्रमो मूर्त्तामूर्त्तयोः । तस्य भेदं सौत्रोथोशब्द आहेति । निषेधो हि विधिरूपप्रकारस्य भेदेन निषेधरूपप्रकारेण भवति । अतः पूर्वस्मात्प्रकारभेदः । अभावरूपनिषेधे ब्रह्मणोऽतिरेकोऽभावः । नहि खपुष्पे ब्रह्मास्ति । प्रतीत्यभावेन तस्यैवाभावात् । खपुष्पं तु ब्रह्मास्ति । ‘यदस्ति यन्नास्ति स एव विष्णु'रिति विष्णुपुरा- णात् । तयोः सतोः । उपोद्वेति । नहि घटो नास्तीत्यादिस्थले प्रक्रमभेदेनाभावनिरूपणमस्ति सत्यपि प्रक्रमभेदे । अथो इति शब्दप्रमाणेन तु सतोऽपोद्बलनात्पृथग्रूपनिरूपणमस्ति । ‘अथातो ब्रह्मजिज्ञासा' ‘अथातो धर्मजिज्ञासे'ति ब्रह्मधर्मयोः ब्रह्मकर्मणोर्वैक्यात् । 'कर्मके तत्र दर्शना'दिति जैमिनिसूत्रे धर्मस्थले कर्मोक्तिः । भाष्ये । अथो इति विषयवाक्यघटकथशब्दपर्याय इत्याहुः अथात इति । यतोतः सूत्रेपि भिन्नप्रक्रम इति भावः । मत्परमिति । अहं परो यस्येति मत्परम् । कथं तेनेत्यादि । सदसन्निषेधेन कथं विवक्षितोर्थः अस्थूलादिरूपः तद्व्यतिरिक्तो जडजीवधर्मो औपचारिका ब्रह्मणीति तद्व्यतिरिक्तार्थः वैदिकधर्मवद्ब्रह्म तस्य वारणमित्यर्थः । सदसतोरित्यादीति । निरूपण इति । गीतायाम् । निषेधः ज्ञापयतीत्यन्वयः । किं ज्ञापयतीत्यत आहुः प्रपञ्चेति । उच्यन्त इति । उपचारेणोच्यन्ते, न तु 1658
भाष्यप्रकाश-रश्मि-परिवृंहितम् । १९३ अत एव चोपमा सूर्यकादिवत् ॥ १८ ॥ प्रपञ्चधर्मा भगवत्युपचारादुच्यन्त इत्यत्र निदर्शनान्तरमाह । अतएव इममेव निर्णयमाश्रित्य, 'समः पुषिणा समो नागेन समो मशकेन सम एभिस्त्रिभि- र्लोकैः समोऽनेन सर्वेणे'ति निरुपमस्य भगवतो यदुपमानं तत् तद्धर्मसम्बन्धात् । न चात्र स्वतस्तादृशधर्मवत्त्वं ब्रह्मणो वक्तुं युक्तम् । नन्विदमपि विरुद्धमित्या- शङ्क्य दृष्टान्तमाह । सूर्यकादिवत् । सूर्येण सहितं जलं सूर्यकम् । 'यथा ह्ययं ज्योतिरात्मा विवस्वान् अपो भिन्ना बहुधैकोऽनुगच्छन्', 'एकधा बहुधा चैव दृश्यते जलचन्द्रव'दिति । यथेतरसंश्लिष्टस्योपमानत्वम्, एवं 'समः पुषिणे'त्यपि । भाष्यप्रकाशः। अत एव चोपमा सूर्यकादिवत् ॥१८॥ सूत्रमवतारयन्ति प्रपञ्चेत्यादि । व्याकुर्वन्ति अत एवेत्यादि । निरुपमस्येति । 'न तत्सम' इति श्रुत्या तथा प्रतिपादितस्य । तद्धर्मसम्बन्धा- दित्यादि । यदि प्रपञ्चधर्मवत्त्वं ब्रह्मणः स्यात्, तदा 'पुषिर्नाग' इत्यादि प्रथमान्तमेव निर्दिशेत्, समपदं च न निर्दिशेत्, अतस्तथा निर्देशाभावात् प्रपञ्चधर्मसम्बन्धादेव तद्धर्मवत्त्वम्, न स्वतस्तथा- त्वमित्यर्थः । दृष्टान्तोक्तिप्रयोजनमाहुः नन्वित्यादि । इदं निदर्शनमपि समत्वासमत्वयोरुभयोरपि भावितत्वेन विरुद्धम्, अथवा तद्धर्मसम्बन्धेन तद्धर्मवत्त्वे ब्रह्मणोऽङ्गीक्रियमाणे दृष्टसम्बन्धे दृष्टत्व- मपि स्यात्, अतोपि विरुद्धम्, अतो निर्णायकत्वाभावमाशङ्क्य श्रौतं दृष्टान्तमाहेत्यर्थः । सिद्धमाहुः यथेत्यादि । यथा किरणद्वारा जलादिसंश्लिष्टस्य सूर्यादेर्ब्रह्मोपमानत्वम्, 'यथा ह्ययं ज्योतिरात्मा विवस्वानपो भिन्ना बहुधैकोनुगच्छन्, उपाधिना क्रियते भेदरूपो देवः क्षेत्रेष्वेवमजोयमात्मे'- त्यादिवाक्येषूच्यते, एवं 'समः पुषिणे'तिवाक्येपि प्लुष्यादिसंश्लिष्टस्य तदुपमेयत्वमप्युच्यत रश्मिः । प्रपञ्चधर्मा भगवति भवन्तीति । एव तथेति । प्रसिद्धप्रमाणान्तरव्यवच्छेदकैवकारः । अस्थूलत्वादि- प्रकारेणेति तथेत्यस्यार्थः ॥ १७ ॥ अत एव चोपमा सूर्यकादिवत् ॥ १८ ॥ प्रपञ्चेत्यादि । निदर्शनेति । 'दर्शयति चे'ति निदर्शनमुक्तम्, अन्यन्निदर्शनं 'समः पुषिणे'त्यादि, तदाह । निदर्शनं दृष्टान्तः यथा ब्रह्मास्थूलत्वादिश्रुतौ तथात्रारूपवत् यथा सम इत्यादिश्रुतौ तथात्रारूपवत् । प्लुष्यादिविशेषविलक्षणम् । अतएवेत्या- द्रीति । अतः ल्यब्लोपे पञ्चमी । इमं निर्णयमाश्रित्यैवेत्यन्वयः । उपमानमिति । एतेन भाष्येण सूत्रे उपमाशब्द उपमीयतेऽनेनेत्युपमा । करणे घञन्त इत्युक्तम् । उपमेयधर्मलुप्तम् । उपमानं पुष्यादि । समपदं वाचकं श्रुतावस्ति । उपमेयं लुप्तम्, धर्मो लुप्तः । 'हंसीव कृष्ण ते कीर्तिः स्वर्गङ्गा- मवगाहत' इत्यत्र चतुष्टयमस्ति । तद्धर्मेति । प्रपञ्चधर्मीणां उपचारेण सम्बन्धात् । स्वतश्चेति । यथा पञ्चमहाभूतत्वं पञ्चमहाभूते स्वातन्त्र्येण घट इत्युक्ते घटवत्त्ववदुच्यते । युक्तमिति । ब्रह्मत्वेन ब्रह्मस्वतन्त्रधर्मेण तिरस्कारात् । ब्रह्म पञ्चमहाभूतानीत्येवं सदा पञ्चमहाभूतपदसन्निध्यभावात् । अतो न युक्तमित्यर्थः । दृष्टान्तेति । सौत्रदृष्टान्तेत्यादिः । इदमिति । समत्वनिदर्शनम् । असमत्वं 'न तत्सम- श्चाभ्यधिकश्च दृश्यत' इति श्रुत्युक्तम् । निर्णायकेति । निदर्शनान्तरस्य तथा । सिद्धमाहुरिति । श्रौतदृष्टान्तसिद्धं निदर्शनान्तरेऽविरोधमाहुरित्यर्थः । विवस्वानिति । सूर्यः । भाष्ये । दृष्टान्तप्रसङ्गात् दार्ष्टान्तिकेन समं दृष्टान्तवाक्यमप्याहुः उपाधिनेति । जलाद्युपाधिना । भेदेन रूप्यते व्यवह्रियत इति भेदरूपः । क्षेत्रेषु योन्यादिषु । इत्यादीति । आदिना सौत्रादिशब्दार्यैकधाबहुधेति भाष्यीयवाक्यम् । 1659