अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1767, कुल 2600 में से
संदर्भ में पढ़ें११० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० २ अ० ४ सू० १२. द्वितीय'मिति वचनात् । अल्पकल्पनायामपि श्रुतिविरोधः सिद्धः । श्रुत्यविरो- धार्थमेव हि प्रवृत्तेः । तस्मान्न मतान्तरानुसारेण जडजीवधर्माणां सत्त्वासत्त्वे परिहर्तुं शक्ये ॥ ११ ॥ न भेदादिति चेन्न प्रत्येकमतद्वचनात् ॥ १२ ॥ प्रकारान्तरेण समाधानमाशङ्क्य परिहरति । न भवदुक्तो विरोधः सम्भ- वति । भेदात् । कारणकार्येषु सर्वत्र भेदाङ्गीकारात् । प्रपञ्चविलक्षणं ब्रह्म भिन्नम् । प्रपञ्चधर्मवत् ब्रह्म भिन्नम् । तथा अज्ञातं ज्ञातं च । एकस्य भेदस्याङ्गीकारे सर्वमुपपद्यत इति चेत् । न । प्रत्येकमतद्वचनात् । अभेदवचनात् । 'इयं पृथिवी सर्वेषां भूतानां मध्वि'ति ब्राह्मणे 'अयमेव स योऽय'मिति सर्वत्राभेदवचनात्, कार्यकारणरूप- भाष्यप्रकाशः। मनर्थकमेव स्यात् । अतोल्पकल्पनायामपि श्रुतिविरोधः सिद्धः । न च सोल्पत्वान्न दुष्ट इति युक्तम् । श्रुत्यविरोधार्थमेव भगवतो व्यासस्य प्रवृत्तेः । तस्मान्न मतान्तरोक्तरीत्या जडजीवधर्माणां सत्त्वा- सत्त्वरूपस्योभयलिङ्गविरोधस्य परिहारसिद्धिरित्यर्थः । विद्वन्मण्डने तु प्रकरणसिद्धार्थविचारेणैतस्य सिद्धान्तसूत्रत्वमेव सेत्स्यतीत्याशयेन वक्ष्य- माणरीत्यैतदधिकं व्याख्यातम् । सोपाधिकं ब्रह्म सविशेषश्रुतिविषयः, निरुपाधिकं तन्निर्विशेष- श्रुतेरित्यपि मतमर्थाद्भिरस्तम् ।