अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1768, कुल 2600 में से
संदर्भ में पढ़ेंप्रकाराणां भेदनिषेधात्। तस्मान्न भेदाङ्गीकारेण श्रुतयो योजयितुं शक्याः ॥ १२ ॥ भाष्यप्रकाशः। स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्व'मित्येकं वाक्यम् । एवमग्रेऽपि, अब्व्याकाशवाय्वादित्यचन्द्र- दिग्विद्युत्स्तनयित्नुधर्मसत्यमानुषात्मवाक्यानि । एवं चतुर्दश । तत्रायमर्थः । इयं प्रसिद्धा पृथिवी सर्वेषां भूतानां ब्रह्मादितृणस्तम्बान्तानां मधु मध्विव । उपकारकं कार्यम्, भूतादृष्टजन्यत्वात् । तथा, अस्यै पृथिव्यै अस्याः पृथिव्याः सर्वाणि भूतानि पूर्वो- क्तानि मधु मध्विव उपकारकाणि, कारणत्वात् । किञ्च । यश्चायमस्यां पृथिव्यां तेजोमयश्चिन्मात्र- प्रकाशमयः अमृतमयः अमरणधर्मा पुरुषः, सोऽपि 'तदभिध्यानादेव त्वि'ति न्यायेन पृथिवी- रूपतया तदुपकारकत्वात् तस्यै मध्विति चकारेण समुच्चीयते । यश्चायमध्यात्मम्, 'अधिशरीरं शारीरः शरीराभिमानी' त्यन्ये । वस्तुतस्तु 'यः पृथिव्यां तिष्ठ'न्नित्यादिनोक्तोऽन्तर्यामी तेजोमयो- ऽमृतमयः पुरुषः सोऽपि तेनाभिमानेन प्रकारेण भूतोपकारकत्वाद्भूतानां मध्वित्यपि चकारान्तरेण समुच्चीयते । अयमेव सः । अयं तेजोमयादिरूपः पुरुष एव सः । मैत्रेयीब्राह्मणान्ते पूर्वग्रन्थ उक्तो योऽयमात्मा उक्तविधपुरुषरूप इदममृतमानन्दः । इदं ब्रह्माक्षरम् । इदं सर्वं पूर्वोक्तकार्यकार- णरूपप्रकारात्मकमिति । एवमग्रिमेष्वपि वाक्येषु बोध्यम् । सिद्धमाहुः तस्मादित्यादि । एतेषां कार्यादीनां भगवदात्मकत्वनिगमनेन प्रतिवा- रश्मिः। एवेति । अन्यत्रादानां द्वितीयाध्यायपादयोर्निराकरणादेवकारः । कार्यकारणरूपभेदात् । छान्दसी षष्ठीस्थाने चतुर्थीत्याहुः अस्याः पृथिव्या इति । पूर्वोक्तानीति । ब्रह्मादितृणस्तम्बान्तानि । कारणत्वादिति। ब्रह्मणः कारणत्वं तृतीयस्कन्धे । तृणस्तम्बान्तानां सत्तारूपाणां कारणत्वमवयवत्वात्। तदभिध्यानादिति । अयं न्यायः द्वितीयाध्यायतृतीयपादे गतः । पृथिवीति । तस्य तस्य कार्यस्यो- त्पादनार्थं तदभिध्यानं तत्तदात्मकत्वं तत्तत्कार्यकारणात्मकत्वं तेन तत्कारणवाचकत्वमिति 'तदभि- ध्यानादेव तु तल्लिङ्गात्स' इति सूत्रांशार्थात् पृथिवीरूपतया तदुपकारकत्वात् तस्य 'तस्माद्वा एतस्मा'दिति श्रुतिप्रसिद्धस्योषध्यादेः उपकारकत्वात् कारणत्वात् । तस्यै तस्याः पृथिव्या मधु कार्यम् । चकारेण 'यश्चाय'मिति चकारेण । अधुना 'इयं पृथिवी सर्वेषां भूतानां मध्वस्यै पृथिव्यै सर्वाणि भूतानि मधु यश्चायमस्यां पृथिव्यां तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्म१शरीरस्तेजोमयोऽमृतमयः पुरुषोयमेव स योयमात्मेदममृतमिदं ब्रह्मेद५सर्व'मिति पूर्वकण्डिकां पुरुपान्तां व्याकृत्य भाष्य 'मयमेव स' इत्यंशवि- वरणेन विवरिष्यन्त आहुः यश्चायमिति । अधिशरीरमित्यव्ययीभावः । आत्मनीत्यध्यात्ममिति । भूतोपेति । शरीररूपभूतसोपकारकत्वात्कारणत्वात् । भूतानां मधु कारणम् । भाष्यं विवृण्वन्तिस्म अयमेवेति । उक्त इति । विज्ञाता । 'विज्ञातारमरे केन विजानीया' दिति श्रुतेः । 'इदममृत'मि- त्यादित्रयं व्याकुर्वन्तिस्म इदममृतमिति । पूर्वोक्तेति । एतेन कार्यकारणेति भाष्यं व्याकृतम् । कार्यादिरूपमग्रे वक्तव्यम् । एवमिति । कार्यकारणरूपप्रकाराणां भेदनिषेध इति बोध्यम् । एतेषामिति । कार्यकारणरूपप्रकाराणाम् । भगवदात्मेति । इदं निगमनं मधुब्राह्मणसमाप्तौ 'तदेतद्ब्रह्मापूर्वमनपरम- नन्तरमबाह्यमयमात्मा ब्रह्म सर्वानुभूरित्यनुशासन'मिति श्रुतौ तच्छब्दान्निगमनेन । यद्यपि यदेतादृशं ब्रह्म तदेवैतत्समस्तं जगदिति व्याख्यानम्, तथाप्यारम्भेऽथवैतैर्हेतुभिः साधित'मिदं सर्वं यदयमात्मे'त्यस्यैव पूर्वप्रतिज्ञातस्य निगमनार्थमिदमिति ग्रन्थान्निगमनं बोध्यम् । प्रतिवाक्यमिति । चतुर्दशवाक्येषु । 1647