अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1758, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । २०१ मुग्धे मुग्धभावे अर्धसम्पत्तिरेव, न सर्वा । नहि मुग्धस्य यज्ञादावधिका- रोऽस्ति । पूर्वप्रवृत्तानि तु जीवनाधिकारात् क्रियन्ते । लौकिकव्यवहारोपि नापूर्वः सिध्यति । पूर्वोक्तहेतुसद्भावे तु न कोपि दोषः । अतो मुग्धे अर्धसम्पत्तिः पूर्वैव, नोत्तरा । कुत एतत् । परिशेषात् । स एव वा, न वेति निश्चयप्रमाणानामभा- भाष्यप्रकाशः । कथमर्धेत्याकाङ्क्षायामेतदेव व्युत्पादयन्ति न हीत्यादि । मुग्धस्येति । मूर्च्छोपरतावपि निवृत्त- पूर्वसंस्कारस्य । अयमर्थः । शास्त्रार्थवत्त्वाधिकरणे कर्तृत्वं जीवगतमेव, न तूपाधिगतमिति स्थितम् । अतः शब्दा विषयश्च जीवमेव विषयीकुर्वन्ति । तत्र 'अर्थी समर्थो विद्वा' नित्यादिनोक्तो यो यज्ञादाव- धिकारः, स मुग्धस्य तस्यापि नास्ति, अर्थित्वाद्यभावात्, अतोऽपूर्वाणि न क्रियन्ते । पूर्वप्रवृत्तानि त्वग्निहोत्रादीनि जीवनाधिकारात् क्रियन्ते । एवं लौकिकव्यवहारोपि पूर्व एव निर्वहति, नापूर्वः कोपि सिध्यति । असिद्धे च तंस्तित्त्र स वा, अन्यो वेति निर्णतुं न शक्यते । लोके अमरुशरीरे अन्यस्येव, ब्रह्मवैवर्तेब्रह्मखण्ड उपबर्हणगन्धर्वशरीरे तस्यैव प्रवेशस्मरणात् । वसिष्ठोपदिष्टविस्मृत- मन्त्रपूजादेस्तत्पल्या बोधनेनातिमुग्धताया अपि स्मरणाच्च । अतो यत्र मुग्धभावानन्तरं कर्मानु- स्मृत्यादिहेतूनां सद्भावः, तदा तु स एव तत्र जीव इति न कोपि शब्दादिविरोधदोषः । यत्र पुनरनुस्मृत्याद्यभावः, तत्र, अत उक्तदोषात् हेतूनां पूर्वैव संपत्तिः, नोत्तरेत्यर्धेव विचारकस बुद्धिरित्यर्थः । अत्र पृच्छति कुत इत्यादि । एतत् अर्धमपि कुत इत्यर्थः । तत्रार्धसत्तायां हेतुं विवृण्वन्ति स एव वा न वेत्यादि । प्रसक्तप्रतिषेधे यः प्रसक्तस्तदप्रतियोगी स परिशेषः । रश्मिः । च्यते । शास्त्रार्थेति । गताध्यायेऽस्ति । एवेति । उपाधिव्यवच्छेदकः । तदेवाहुः नत्विति । जीव- मेवेति । न तूपाधिम् । उक्त इति । कचिच्छास्त्रे उक्तः । तस्यापीति । विचारकस्यापि । पूर्वे- तिभाष्यं विवृण्वन्ति स्म पूर्वप्रवृत्तानीति । जीवनेति । 'यावज्जीवमग्निहोत्रं जुहोती'ति श्रुत्या । लौकिकेतिभाष्यं विवृण्वन्ति एवं लौकिकेति । पूर्व एवेति । अपूर्वयोग्यव्यवच्छेदकः । सिध्य- तीति । पूर्वकर्मवदपूर्वकर्मणि विद्यमानान्न सिध्यति । तस्यैवेति । गन्धर्वस्य । एवकारेण नान्यस्य । वसिष्ठेति । गन्धर्वस्य । पूर्वोक्तेतिभाष्यं विवृण्वन्ति स्म अतो यत्रेति । स एवेति । हेतुसत्त्वे साध्यसत्त्वनियमादेवकारः । न कोपीति । साधारण्यविदेहत्वाभासरूपोपि । शब्दादिसहानवस्थानल- क्षणविरोधरूपो दोषः । अत इतिभाष्यं विवृण्वन्ति स्म यत्र पुनरिति । गन्धर्वे । उक्तेति । शब्दादिविरोधदोषात् । पूर्वैवेति । कर्मरूपा । एवकारः उत्तरानुस्मृत्यादियोगव्यवच्छेदकः । तेनार्था कर्मसम्पत्तिः । नोत्तरेति । अनुस्मृतिसम्बन्धविधिरूपा । नेत्येवमेवकारव्यवच्छेदोत्तरा सम्पत्तिरुक्ता । तेनार्धसम्पत्तिरंशसंपत्तिः । अर्धसम्पत्तिलेनार्धसम्पत्तिस्वीकारः । अर्धमपीति । अविनाश्वरूपं गौणार्थम् । अर्धसत्तायामिति । गौणमुख्यार्धसत्तायाम् । हेतुं विशेषम् । स वान्यो वेत्युक्ते संशय एवकारघ- टितत्वे प्रत्यभिज्ञेत्याशयेन विवृण्वन्ति स्म प्रस्तुते ति । प्रस्तुतं पूर्वसूत्र ऐ