सामग्री पर जाएँ
भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1759, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1759

१०२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ३ सू० १०. बादर्थात् सन्देहोऽवशिष्यते । तस्मात् सन्देहान्मुग्धे अर्धप्रतिपत्तिः । भाष्यप्रकाशः। प्रकृते च स एवायं न वेति सन्देहे एकतरनिश्चयजनकप्रमाणानामभावात् सन्देह एवार्थाभिषेधा- प्रतियोगित्वेनावशिष्यते। अतः स एव परिशेष इत्यर्थः । सिद्धमाहुः तस्मादित्यादि । उक्तविधात् परिशेषरूपात्सन्देहान्मुग्धेऽर्धप्रतिपत्तिरर्ध ज्ञानं विचारकस्य, तस्मादेव पूर्वा संपत्तिः, न तु निश्चयात्। अतो मुग्धदृष्टान्तेन न सौषुप्तिकसिद्धान्तभङ्ग इत्यर्थः । किञ्च, अत्र प्रतिपत्त्यादिपदमनुक्त्वा यत् संपत्तिपदमुक्तम्, तेन मुग्धे मूर्च्छितेऽर्धसंपत्तिः। यथा नाडीषु सतो नैक्याद् दुःखाभावमात्ररूपार्ध- संपत्तिः, तथेति बोध्यते । तेन कालीयदमनस्थले मूर्च्छितस्यार्धसंपत्त्या इन्द्रियाणां प्राणानां च पुनरागमनं यदुक्तम्, तदपि न विरुध्यत इति बोधितम् । अनुस्मृत्या च स एव जीव इत्यपि । अविचारस्तु जीवावस्थाभावत्वादेवेति च। एवमत्र प्रासङ्गिकपरिहारेण सुषुप्तेः प्रबुद्धः स एव, न त्वन्य इति निर्णीतम् । अन्ये तु । अस्मिन् सूत्रे मुसलाद्यभिघातजन्यां मूर्च्छा विचारयन्तो, 'जाग्रत्स्वप्नः सुषुप्त'मिति तिस्रोऽवस्था बृहदारण्यके जीवस्योक्ताः, ताः पूर्वं विचारिताः, उत्क्रान्तिश्चतुर्थी, साऽग्रे विचार- यिष्यते, इयं तु न जाग्रत्स्वप्नयोरन्तर्भवति, ज्ञानाभावात्, नापि सुषुप्तौ, निमित्तभेदादाकारभेदाच्च, नापि मरणे, प्राणोष्मणोरुपलम्भात्, अतः परिशेषादियं पञ्चमीत्याहुः । रश्मिः। स एव वा नवेति सन्देहः स परिशेष इत्यर्थः । सन्देह इति । प्रत्यभिज्ञाविषयविषयके सन्देहे द्वितीय- कोटिसहिते । कोट्योरेकतरनिश्चये प्रमाणानां शब्दयोगिप्रत्यक्षानुमानानामभावात् । सन्देह एवेति । एकतरयोगव्यवच्छेदकैवकारः । स एवेति । सन्देहः । एवकारः पूर्ववत् । अर्धं ज्ञानमिति । सन्देहार्धं स एवेति ज्ञानम् । तस्मादेव अर्धज्ञानात् । एवेति । कर्मयोग्यव्यवच्छेदकः । गौणत्वात् । किञ्च, नतु स एवेत्येकविषयकान्निश्चयात् । पूर्वोत्तरीयभावाभावात् । अत इति । आभ्यां सन्देहात् परिशेषरूपात् निश्चयाभावाच्चेत्यर्थः । मुग्धेति । सुषुप्तिः स एवेत्यैक्यवती कर्मानुस्मृतिशब्दविधिभ्यः सैवेयं दीपमालिके- तिवत् । अस्य सौषुप्तिकसिद्धान्तस्य । मुग्धदृष्टान्तेन सुषुप्तिः न स एवेत्यैक्यवती। परिशेषात् । मुग्धवदिति सत्प्रतिपक्षाद्भङ्गो नेत्यर्थः । किञ्च, अत्रेति । सूत्रे । तेनेति । सत्स्मारकेण सम्पत्तिशब्देन । 'सता सौम्य तदा संपन्नो भवती'त्यत्र सत्सम्पत्तिरित्यत्र च सम्बन्धायधारणादेकसम्बन्धिज्ञानमपरसम्ब- न्धिस्मारकमिति सत्स्मारकत्वम् । हेतुचतुष्टये कर्मरूपार्थसम्पत्तिः स एवेत्यर्थसम्पत्तिः सन्देहे । मोक्षे- र्धसम्पत्तिं दृष्टान्तेनाहुः यथेति । दुःखेति । 'दुःखाभावः सुखं चैव पुरुषार्थद्वयं मत'मिति मोक्षेर्ध- सम्पत्तिर्दुःखाभावरूपा । असौत्री नात्र दार्ष्टान्तिके सन्दिग्धव्या । मूर्च्छितस्येति । नन्दादिषु यस्स- कस्यचिन्मुग्धस्य त्रिविधार्थसम्पत्तिः । यदुक्तमिति । श्रीभागवते यदुक्तम् । ननु नन्दादीनां गर्गोप- दिष्टानां कुतो न 'नारायणसमो गुणै'रित्यस्य विचारो मोहजनक इत्याशङ्क्याहुः अविचार इति । विचारस्य न जीवावस्थात्वम् । प्रकरणं तु जीवावस्थानामिति भावः । एवकारो मोहयोगव्यवच्छेदकः । अत्रेति । सूत्रद्वये । प्रासङ्गिक आशङ्काविषयस्तस्य परिहारेण । स एवेति । उक्तद्वितीयकोटिकः । नत्वन्य इति । प्रथमकोटिकोन्यर्थः । निमित्तेति । मूर्च्छाया मुशलाद्यभिघातो निमित्तम् । सुषुप्तौ तु तमः । 'न किञ्चिदवेदिष'मिति तमःकार्याज्ञानकथनात् । इति भेदात् । उपेति । मूर्च्छायां 1638