भारतकोश
संग्रह पर लौटें

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

७६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० १ सू० २. श्रुतिरेव प्रमाणम् । किं पुनरनुभवसंवादिनी । तस्मात् स्वप्ने सृष्टिरस्ति ॥ १ ॥ निर्मातारं चैके पुत्रादयश्च ॥ २ ॥ काठके चतुर्थवल्ल्यां श्रूयते । 'य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मि- माणः । तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यत' इति निर्मातारमेके वदन्ति । यद्यपि 'सुषुप्त्युत्क्रान्त्योर्भेदेने'त्यत्र 'न तत्र रथा' इत्यपि ब्रह्मप्रकरणम्, तथापि नियतधर्मपक्षे जीव एव कर्तेति प्रतिभाति । तदर्थं निःसन्दिग्धं वचनमुदाहरन्ति । भगवन्निर्मितत्वात् स्वप्नस्यस्यापि सत्यत्वम् । न हि कर्तुः स्वापोऽस्ति, येन भ्रमः भाष्यप्रकाशः। युक्तिविरुद्धः श्रुतिविरुद्धश्चेत्याहुः नचेत्यादि । अन्यत् स्पष्टम् ॥ १ ॥ निर्मातारं चैके पुत्रादयश्च ॥ २ ॥ ननु पूर्वसूत्रविषयवाक्येनैव सृष्टौ सिद्धायां पुनरेतत्सूत्र- प्रणयनस्य किं प्रयोजनमित्यत आहुः यद्यपीत्यादि । ब्रह्मप्रकरणमिति । इति सिद्धमिति शेषः । नियतधर्मपक्ष इत्यादि । 'कतम आत्मे'ति प्रश्ने, 'योऽयं विज्ञानमयः पुरुषः प्राणेष्वि'- त्युपक्रम्याग्रे 'स्वयं विहत्य स्वयं निर्माये'ति कथनात्, तस्यैवाग्रे 'न तत्र रथा' इत्यादिना विवर- णात्तस्यैवायं धर्म इति पक्षे अदृष्टद्वारा जीव एव कर्तेति प्रतिभाति । तदर्थं तन्निवृत्तये । तथाच निःसन्दिग्धं भगवत्कृतत्वप्रतिपादनायास्य सूत्रस्य प्रणयनमित्यर्थः । एवं निर्बन्धेन प्रतिपादनस्य फलमाह भगवदित्यादि । तथाच पूर्वस्मिन् वाक्ये 'स्वयं निर्माये'त्यनन्तरं 'प्रस्वपिती'ति स्वाप- श्रावणादत्र तद्राहित्यश्रावणाद्भगवानेव कर्तेति लिङ्गबलात् प्रकरणात् 'तदेव शुक्र'मित्यादिवाक्य- रश्मिः। श्रुतीति । 'अत्रात्मे'ति श्रुतिविरुद्धः । स्वप्नविषयकज्ञानाधिकरणमात्मा स्वयंज्योतिरित्यार्थात् । स्वप्न- मिथ्यात्वे निर्विषयकज्ञानाभावान्न ज्ञानाधिकरणत्वमात्मनः स्यात् । अन्यदिति । सृष्टिरिति । पूर्व- पक्ष्युक्ता । एवमन्यत्स्पष्टम् ॥ १ ॥ निर्मातारं चैके पुत्रादयश्च ॥ २ ॥ प्राणेष्विति । प्राणा इन्द्रियाणि । सूक्ष्मदेहे । तस्यै- वेति । विहननस्वयंनिर्माणस्याग्रे । एवकारोऽन्ययोगव्यवच्छेदकः । तस्यैवेति । विहृत्य निर्मातुः । विवरणक्रियमाणसम्बन्धादेवकारः । अयमिति । 'न तत्र रथा' इत्युक्तः स्वप्नः । जीव एवेति । स्वयंशब्देनापि जीवपरामर्शात् पूर्वपक्षोक्तपुरुषयोगव्यवच्छेदक एवकारः । तदर्थमितिभाष्यं विवृ- ण्वन्ति स्म तदर्थमिति । व्याख्येयम् । भाष्ये । उदाहरन्तीति । तद्विदः । प्रकृते । पूर्वस्मि- न्निति । पूर्वसूत्रीयपूर्वस्मिन् ज्योतिर्ब्राह्मणे । प्रस्वपितीति । 'स्वेन भासा स्वेन ज्योतिषा प्रस्वपि- ती'ति । अग्रेति । बृहदारण्यकज्योतिर्ब्राह्मणे । तत्रेति । द्वितीयसूत्रीयोत्तरस्मिन् काठके स्वापरा- हित्यात् 'तदेवामृतमुच्यते'इत्यनन्तरं 'तदेव शुक्र'मित्यादिश्रुतेः । ननु राहित्यश्रावणं कुत्रेति चेत् । न । राहित्यस्य श्रावणादिति न विगृह्यसमासः, किन्तु स्वापराहित्येन 'तदेव शुक्र'मित्यादिश्रावणात् । तद्राहित्यपदं तद्राहित्यश्रावणे लाक्षणिकमिति समासः । तदेव 'अव्यक्तं तद्ब्रह्मे'त्याद्यपि पाठः । एवेति । जीवयोगव्यवच्छेदकः । कर्तेति । निर्माणकर्ता निर्माता । इति हेतोः स्वापराहित्यलिङ्गबलात् । प्रकर- णात् । 'सुषुप्त्युत्क्रान्त्योर्भेदेने'त्यत्र 'न तत्र रथा' इत्यत्र ब्रह्मप्रकरणात् । तदेव शुक्रमिति । बृह- दारण्यके जीवः, काठके 'पुरुषो ब्रह्मे'ति किं ब्राह्मं तत्र । यद्वा । पुरुषः जीवो ब्राह्मः, ब्रह्म वा । तत्र वाक्यशेषः । 'तदेव शुक्र'मित्यादिः । अत्र तद्ब्रह्मेतिपदाद्ब्रह्म ब्राह्ममित्येष वाक्यशेषः तस्मात् । नहि 1612

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ७७ स्यात् । 'जागर्त्ती'ति वचनात् । इच्छापूर्वकं च सर्वं सृजति । 'शतायुषः पुत्रपौत्रा'- निति कामविषयाः पुत्रादय उक्ताः । ते च निर्मिताः परलोकसाधका इति लो- कत्रयकल्पना । चकारद्वयेन कारणकार्यगताः सर्वे धर्मा उक्ताः । तस्माच्छ्रुत्यु- पपत्तिभ्यां स्वप्नप्रपञ्चस्य सिद्धत्वात् तत्कृतगुणदोषसम्बन्धे पूर्वोक्तदेहनिर्माणं व्यर्थमित्येवं प्राप्तम् ॥ २ ॥ भाष्यप्रकाशः । शेषाभावसीयते । अतो भ्रमाभावादपि स्वप्नसृष्टेः सत्यत्वम् । किञ्च । 'ये ये कामा दुर्लभा मर्त्य- लोके तांस्तान् कामान् छन्दतः प्रार्थयस्वे'ति पूर्वं कामशब्दस्य कामविषयेषु प्रयुक्तत्वात् 'कामं कामं पुरुषो निर्मिमाण' इत्यत्रापि कामपदेन तद्विषय एव लभ्यते । वीप्सया क्रियाविशेषणत्वेन वेच्छा- पूर्वकतेत्यतोपि भगवत्

७८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० २ अ० १ सू० ३. मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् ॥ ३ ॥ तुशब्दः पक्षं व्यावर्तयति । स्वप्नसृष्टिर्मायामात्रम् । तत्र हेतुः । कार्त्स्न्येना- नभिव्यक्तस्वरूपत्वात् । कृत्स्नत्वेन यस्य यादृशं स्वरूपं देशकालवस्तुसापेक्षं तथाभिव्यक्तिः कार्त्स्न्येनाभिव्यक्तिस्तदभावात् । भाष्यप्रकाशः । मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् ॥ ३ ॥ सिद्धान्तं व्याकुर्वन्ति तुशब्द इत्यादि । पक्षमिति । सत्यत्वपक्षम् । मायामात्रमिति । वैदिके निघण्टौ प्रज्ञानामसु 'माया, वयुनम्, अभिख्ये'ति पाठादर्थशून्यः प्रत्ययो माया, तदात्मकमिति भास्कराचार्याः । मायाशब्दो ह्याश्चर्यवाची । 'जनकस्य कुले जाता देवमायेव निर्मिते'त्यादिषु तथा दर्शनात् । 'न तत्र रथा' इत्यत्रापि सकलपुरुषानुभाव्यतया न भवन्ति । 'अथ रथान् सृजत' इत्यपि स्वप्नदृ- गनुभाव्यतया तत्कालमात्रावसानात् सृजत इत्याश्चर्यरूपत्वमुपपद्यते । न हीदृशी सृष्टिर्जीवेन कर्तुं शक्या । संसारदशायां जीवस्य कार्त्स्न्येन अनभिव्यक्तस्वरूपत्वात् तादृशसामर्थ्यायोगात् । अतः सा आश्चर्यात्मिकेति रामानुजाचार्याः । सिद्धान्ते तु सामर्थ्यविशेषो माया । अष्टमस्कन्धे 'नटवन्मूढ मायाभिर्मायेशान्नो जिगीष- सी'ति । प्रथमस्कन्धे च 'अपश्यत् पुरुषं पूर्णं मायां च तदपाश्रयाम् । यया सम्मो- हितो जीव आत्मानं त्रिगुणात्मकम् । परोपि मनुतेऽनर्थं तत्कृतं चाभिपद्यत' इति कथनात् । अत ईश्वरस्य या व्यामोहिका शक्तिः, सा माया प्रकृते ज्ञेया । तन्मात्रं तदेकोपादानकम् । तेन बाह्योपादानादिव्यावृत्तिः । कृत्स्नत्वेनेति । देशः कालो विषयसन्निधिरिन्द्रियव्यापारो बाधाभावश्चेति कार्त्स्न्यम्, तेन । तथा चैन्द्रजालिकेन नटेन यथा सामाजिकव्यामोहेन कौतुकार्थं मायामात्रसृष्टिः क्रियते, तथेश्वरेण जीवव्यामोहनाद्यर्थं स्वप्नसृष्टिः क्रियत इति न तस्याः सत्यत्वमित्यर्थः । अत्र बहूनि मतानि । तत्र भास्कराचार्याः । पूर्ववासनावासितं शुभाशुभकर्मप्रेरितं नाडीषु परिवर्तमानं मनः स्मृतिज्ञानहेतुर्भवति । स एव स्मर्यमाणोऽर्थः प्रत्ययालम्बनः । 'यान्येव जाग्रत् पश्यति, तानि सुप्त' इति श्रुतेः । इयं च जीवसृष्टिः । सुखदुःखप्रतिभासनात् । नेश्वरस्य । 'य एष स्वप्ने महीय- मानश्चरति एष आत्मो'ति श्रुतेरित्याहुः । तेन तन्मते जीवकर्तृका स्मर्यमाणार्थविषयप्रत्ययमात्रमेव स्वप्नसृष्टिरिति सिध्यति । रश्मिः । मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् ॥ ३ ॥ अर्थेति । अर्थो विषयः । विषयशून्यं ज्ञानम् । तदात्मकमिति । मात्रचोर्थः । सामाजिकेति । सामाजिकानां व्यामोहो येन नटेन । मोहनादीति । आदिनेष्टानिष्टसूचनम् । पूर्वेति । त्यक्तपूर्वापरानुसन्धानं यदादानं पदार्थस्य सा वासना । स्मृतीति । स्वाप्निकस्मृतिज्ञानयोर्हेतुः । स एवेति । पूर्ववासनावासितः । अन्यथाऽलौकिकं स्मर्यमाणं स्यादित्येवकारः । प्रत्ययेति । ज्ञानस्मृतिविषयः । जाग्रदिति । सप्तम्यालुक् । 1614

भिक्षुस्तु । सन्ध्यसूत्रे, 'न तत्र रथा' इति श्रुतेः 'स्वप्ने च जीवः सुखदुःखभोक्ता स्वमा- यया कल्पितविश्वलोकं' इति कैवल्योपनिषच्छ्रुतेश्चोदाहरणेन सृष्टिम्‌अङ्गीकृत्य, ततो निर्मातृसूत्रे स्वप्नसृष्टिमीश्वरकर्तृकामुक्त्वा, तर्हि 'स्वयं विहत्य स्वयं निर्माये'त्यन्यनिरपेक्षताबोधकस्य स्वयंपदस्य कथं सङ्गतिरित्याशङ्कायाम्, उपाधिद्वारकोपादानाभिप्रायेण स्वयंपदप्रयोग इति 'न तत्र रथा' इत्यत्रोक्तं जीवकर्तृत्वमपि 'पच्यन्ते तण्डुलः स्वयमेवे' तिवदुपाधिद्वारकपरिणामस्वातन्त्र्यविवक्षयोप- पन्नमित्युक्त्वा, ततो 'न तत्र रथा' इत्यत्रादृष्टद्वारा परम्परया गौणं कर्तृत्वं जीवस्योक्तम्, अतो न विरोध इति कस्यचिन्मतं चोक्त्वा, ततो ननु स्वप्ने ज्ञानमात्रमेवास्तु, किं तत्र सृष्टिकल्पनयेत्या- शङ्कायामाह, स्वप्ने जाग्रद्वदेव पुत्रादयः प्रतीयन्ते, ते चात्मचैतन्यमात्रा भवितुं नार्हन्ति, नित्य- त्वापत्तेः, स्वरूपचैतन्यस्य निराकारत्वाच्च, कर्मकर्तृविरोधेनैकस्य भास्यभासकतानुपपत्तेश्च, जाग्र- त्पदार्थानामपि तथात्वापत्त्या विज्ञानवादिबौद्धमताभ्युपगमापत्तेश्च । यदि च बुद्धेर्घटाकारः परि- णाम एव ज्ञानशब्देनोच्यते, तदा स एवास्माभिः स्वप्नसृष्टिरुच्यते । नैवमिष्यत इति विशेषः । स्वाप्नाः पदार्थाः बाह्या भवितुं न युक्ताः । बाधकं विना अन्तःस्थत्वांशे स्फुटप्रत्यक्षत्वांशे च बाधोत्तरमप्यनुभूयमाने भ्रमत्वकल्पनानौचित्यादित्याह । मायामात्रसूत्रे, स्वाप्ना विषया ऐन्द्रजा- लिकवत् परमेश्वरमायाकार्यतया मायामात्राः, न त्वभावस्वरूपास्तुच्छाः । 'नाभाव उपलब्धे'रिति सूत्रेणात्यन्तासत उपलब्धिप्रतिषेधात् । ऐन्द्रजालिकेश्वरयोर्विशेषस्त्वियान्, यदैन्द्रजालिकस्य मन्त्रादि, ईश्वरस्तु माययैव व्यामोहयतीति तयैव मनसः परिणाममात्रमर्थं कटककुण्डलादिवन्नि- र्म्मिमीते । स्वाप्नविषये बुद्धिवृत्यतिरिक्ताकारा बुद्धिवृत्तिरेव मोहो भ्रम इत्यतस्मिंस्तद्बुद्धिर्भ्रम इत्यादिरूपं लक्षणमपि तुल्यमित्याद्याह । तेन तन्मते बुद्धिग्राह्यो मनःपरिणामविशेषः स्वप्नसृष्टिरिति सिध्यति । माध्वास्तु । सन्ध्यं स्थानं मायामात्रम्, मनोगतान् पूर्वानुभूतवस्तुसंस्कारानुपदानीकृत्य निमित्तभूतया स्वेच्छयैवेश्वरेण निर्मितम् । 'मनोगतांस्तु संस्कारान् स्वेच्छया परमेश्वरः । प्रदर्श- यति जीवाय स स्वप्न इति गीयते' । 'यदन्यथात्वजाग्रत्त्वं सा भ्रान्तिस्तत्र तत्कृता । अनभिव्य- क्तरूपत्वान्नान्यसाधनजं भवे'दिति ब्रह्माण्डवाक्यात् । अत्र स्वशिरश्छेदनादीनामसत्त्वनिरासायाना- स्वयमिति । जीवः । अन्येति । ईश्वरनिरपेक्षतेत्यादिः । उपाधीति । अदृष्टमुपाधिः । उक्तेश्वरकर्तृत्वविरोधं परिहरन्ति स्म न तत्रेति । पच्यत इति । ईश्वरः जडजीवान् सृजति । यदा तु सौकर्यातिशयं द्योतयितुं कर्तृव्यापारो न विवक्ष्यते, कर्मणः कर्तृत्वं विवक्ष्यते, तदा सृज्यते जीवः स्वयमेवेति तन्मते उपाधिरणुत्वं तद्द्वारकपरिणामः सृष्टिरूपस्तस्मिन् स्वातन्त्र्यं कर्तृत्वं तस्य विवक्षयोपपन्नम् । आहेति । 'पुत्रादयश्चे'ति सूत्र आह कर्मकर्त्रीति । ज्ञानं कर्तृ तत्कथं कर्म आत्मचैतन्यमात्रं पुत्रादिरूपमिति विरोधः । कर्मकर्तृत्वसहानवस्थानलक्षणस्तेन । एकस्येति । ईश्वरस्य । तथात्वेति । आत्मचैतन्यत्वापत्त्या । परि- णाम एवेति । एवकारः पदार्थायोगव्यवच्छेदकः । स्फुटेति । अयमंशः स्वाप्नः । जाग्रतश्च बुद्धि- वृत्तिरेवेति । तामसी बुद्धिः, अतो गीतोक्तो मोहस्तस्या वृत्तिः । इत्यादीति । तदभाववति तत्प्रका- रकं ज्ञानमादिशब्दार्थः । यद्वा । विशेषदर्शननाश्यत्वमादिशब्दार्थः । इत्याद्याहेति । ग्रन्थगौरवभि- यैतावत्तैव निर्वाहः । मनःपरिणामेति । मनोपि द्वारमित्येवमुक्तम् । जीवस्योपाधिद्वारकपरिणाम- विशेष इत्यर्थः । माध्वाः स्वप्नं सत्यमाहुः । तद्विषयकं ज्ञानं तु मिथ्येत्याहुः । अतो विषयपदव्याख्या क्रियते अत्र स्वशिर इत्यादि । अनादीति । अनादीति 'मनोगता'नित्यत्र विशेषणं दत्त्वानादिमनो-

८० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० १ सू० ३. अयमाशयः । श्रुतिः सृष्टिमेवाह, न तस्य सत्यत्वमपि । यथा 'ऐतदात्म्यमिदं सर्वं तत् सत्य'मिति 'आत्मान५ स्वयमकुरुत' 'तत् सत्यमित्याचक्षते' 'कथमसतः सज्जायेत'त्यादिश्रुतिसहस्रेभ्योऽस्य सत्यत्वं प्रतीयते, नैवं स्वप्नप्रपञ्चस्य श्रुतिराह । सत्यप्रयोजनाभावाच्च । स्वमात्रविहारस्तु महामायावित्वान्माययापि सिध्यति । भाष्यप्रकाशः। दिमनोगतग्रहणम् । 'यदन्यथात्व'मित्यादिना च स्वप्नविषयाणां जाग्रत्पदार्थत्वमेव बाध्यत इति तत्प्रतीतिरेव भ्रान्ता, न स्वप्नप्रतीतिरित्याहुः । तेन तट्टीकाकारमते संस्काराणामुपादानत्वम्, भाष्यकारमते तु संस्काराणामेव विषय- त्वम् । मायापदं च मनसः संस्कारस्य वा वाचकमिति सिध्यति । तत्र सूत्राशयं स्फुटीकुर्वन्तः स्वप्नसृष्टेः सत्यत्वं प्रथमं निरस्यन्ति अयमाशय इत्यादि । अस्येति । बाह्यप्रपञ्चस्य । अत्र च सत्यत्वं जाग्रत्क्रियमाणा या तत्तत्प्रतिनियता यावदर्थक्रिया तत्कारित्वं विवक्षितम् । न तु साक्षात् परम्परया वा ब्रह्मोपादानकत्वमात्रम् । परम्परया ब्रह्मोपा- दानकत्वस्य मायामात्रेपि सत्त्वात् । नाप्यर्थक्रियाकारित्वमात्रम् । तस्य प्रतिबिम्बादिष्वपि दर्श- नात् । 'छायाप्रत्याह्वयाभासा असन्तोऽप्यर्थकारिण' इति भगवद्वाक्याच्च । नैवमिति । न सत्यत्वं ब्रह्मात्मकत्वं वा । तथाच तादृशश्रुत्यभावेपि भगवत्कर्तृकत्वादाश्चर्यरूपत्वाच्च यः सत्यत्वाग्रहः, सोऽसङ्गत इत्यर्थः । ननु सत्यत्वस्याभावितत्वेपि 'स वै नैव रेमे' इत्यत्र सृष्टेर्विहारार्थत्वस्य श्रावि- तत्वात्सङ्कल्पेन सत्यत्वं कल्प्यत इत्याशङ्कायामाहुः सत्येत्यादि । विभजन्ते स्वमात्रेत्यादि । रश्मिः । गतानां ग्रहणम् । तत्प्रतीतिरिति । जाग्रत्पदार्थत्वप्रतीतिः । एवकारेण स्वप्नप्रतीतियोगव्यवच्छेदः । तथाच यत्स्वप्नविषयाणां जाग्रत्वं जाग्रत्पदार्थत्वं अन्यथात्वं सा भ्रान्तिः । तन्न स्वप्ने । तत्कृता जाग्रत्पदार्थसादृश्यकृता । अनभिव्यक्तत्वादिति सौत्रांशार्थः । अनभिव्यक्तेति । अनभिव्यक्तरूपत्वा- त्स्वप्नस्य नान्येन जाग्रत्पदार्थसादृश्यान्येन साधनेन जन्यत इति भवेदित्यर्थः । तट्टीकेति । ब्रह्माण्ड- वाक्यातिरिक्ता टीका । ब्रह्माण्डवाक्यानि तु भाष्यमिति पूर्वं विवेचनीयम् । ब्रह्माण्डे 'संस्कारा'निति द्वितीया विषयार्थका । एवकारो ब्रह्माण्डवाक्यप्रामाण्यात् । मायापदमिति । 'मनोगतांस्तु संस्कारा'- नित्यत्र वाचकम् । मायामात्रपदं मनोमात्रं संस्कारमात्रं वेत्यर्थकम् । भाष्ये । देशकालवस्तुनानभि- व्यक्तस्वरूपत्वपदार्थः । अन्यलभ्यत्वात् । केनापि रूपेणानभिव्यक्तम् । स्वरूपं तु स्वप्नदेशकालपरीक्षा- बोधकशब्दलभ्यं पुराणे प्रसिद्धम् । तथा च हेतुतावच्छेदकगौरवापत्त्यानभिव्यक्तेरिति हेतुः । तदाहुः तथाभिव्यक्तिरिति । तथेति । कात्स्न्र्येन । तथाच कार्त्स्न्येनानभिव्यक्त्यभावत्वं हेतुतावच्छेदकम् । अत्राग्रे सहस्रशब्दाद्बहुवचनम् । संख्येयवाचकत्वात् । संख्यावाचकत्वे त्वेकत्वम् । 'विंशत्याद्याः सदैकत्व' इति कोशात् । प्रकृते । सत्यत्वं च त्रैकालिकाबाध्यविषयत्वम् । तच्च बाधित्वान्यलक्षणमाहुः अत्र चेति । जाग्रदिति । जाग्रति क्रियमाणा । 'सहसुपे'ति समासः । तत्तदिति । घटादिप्रतिनियता जलाहरणादिरूपा, भोजनप्रयोजकत्वादिरूपा च । यावदर्थक्रिया यावदर्थाः यावद्धटादिवर्तमानकालं अर्था घटादयः तेषां क्रियार्थक्रिया । सत्त्वादिति । माया ब्रह्मोपादानिकेति । प्रतिबिम्बेति । आदिना छायाप्रत्याह्वयादिः । माययेति । 'विष्णुर्नाम महायोगी महामायो महातपा' इति योगतत्त्वो- पनिषच्छ्रुतेः । स वा इति । पुरुषविधब्राह्मणे । सृष्टेरिति । 'स द्वितीयमैच्छदि'त्यादिना । 1616

भाष्यप्रकाश-रश्मि-परिवृंहितम्। ८१ नापि भिन्नः प्रपञ्चः। जीवस्यैकत्वात्। 'अविद्यया मन्यते' इति वचनान्न तत्सुख- भाष्यप्रकाशः। तथाच नटवन्माययापि विहारसम्भवान्न तद्वलेन सत्यत्वं कल्पयितुं शक्यमित्यर्थः । ननु यत्र स्वप्नसृष्टिस्थले 'तस्य वा एतस्य पुरुषस्ये'ति जीव एवोपक्रान्तः, 'प्रस्वपिती'ति स्वापलिङ्गाच्च बोधितः, अतस्तत्कृता सा मिथ्यास्तु, तत्र विहारोपि जीवस्यैव, नेश्वरस्य, काठके तु प्रकरणलिङ्गवाक्य- शेषैः परमात्मैव प्रतीयत इति तत्कृतः प्रपञ्चो भिन्नोऽस्तु, तस्य सत्यत्व आश्रयरूपत्वे च को दोष इत्यत आहुः नापीत्यादि । यो हि प्रपञ्चो भिन्न आपाद्यते, स न सर्वसाधारणः, कात्स्न्ये॑नाभि- व्यक्तस्वरूपो वा, येन भिन्नत्वं कल्पयितुं शक्येत, किन्तु यदेकेन दृश्यते, तन्नेतरेणेति प्रतिनि- यतो द्रष्टुर्जीवस्यैकत्वात्, अतो न भिन्नः । किञ्च । स यदि भिन्नः सत्यः स्यात्, तदा तद्भोगोपि भिन्नः सत्योऽनुभूयेत, श्रुत्या वोच्येत । श्रुत्या तु जीवस्य भोगस्तत्राज्ञानिक एव बोध्यते । हितारूपा नाडीरुपक्रम्य 'अथ यत्रैनं घ्नन्तीव जिनन्तीव हस्तीव विच्छायायति गर्तमिव पतति यदेव जाग्रद्भयं पश्यति तदत्राविद्यया भयं मन्यत' इति वचनात् । एवमेव 'अथ यत्र राजेव देव इवे'त्यादिनोक्तं सुखमप्याज्ञानिकम् । 'अविद्यया मन्यत' इत्यस्य देहलीदीपन्यायेनोभयत्र सम्बन्धात् । काठके तु न भोगवचनम् । अतः परं भेदसाधकत्वेन कर्तृभेदोऽवशिष्यते । सोऽप्ययुक्तः । स्वप्नसृष्टिवाक्येपि जीवकर्तृ- त्वावबोधनेन तदभावात् । तत्र हि 'आत्मज्योतिरेवायं पुरुष' इति कथनोत्तरं 'कतम आत्मे'ति प्रश्ने, रश्मिः। जीव एवेति। एवकारः 'कतम आत्मेति, योयं विज्ञानमयः प्राणेष्वि'त्युपक्रमे विज्ञानमयपदात्। जीवस्यै- वेति । एवकार उपक्रमादीश्वरयोगव्यवच्छेदकः । काठके त्विति । तुना ज्योतिर्ब्राह्मणं व्यावृत्य॑ते । प्रकरणं ब्रह्मणः । 'हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातन'मित्युपक्रमात् । 'सुप्तेषु जागर्ती'ति लिङ्गम् । शब्दस्य सामर्थ्यम् । स्वप्नो जीवावस्था, जागर्तीति ब्रह्मलिङ्गम् । 'तदेवं शुक्रं तद्ब्रह्मे'ति वाक्यशेषः । उपक्रमः यथा 'मरणं प्राप्य आत्मा भवति गौतम' इति जीवलिङ्गं च सन्देहबीजम् । तेन स्वप्नकर्ता जीवः परमात्मा वेति संशय उक्तवाक्यशेषः प्रवर्त्तते । तैः । परमात्मैवेत्येवकारः 'यस्मिंल्लोकाः श्रिताः सर्वे' इति श्रुतेः । जीवस्येतिभाष्यं विवृण्वन्ति स्म यो हीति । काठकोक्तो हि । भिन्नः ज्योति- र्ब्राह्मणोक्ताद्भिन्नः । आपाद्यत इति । यदि प्रपञ्चो भिन्नो न स्यात्, प्रकरणलिङ्गवाक्यशेषाः परमा- त्मनो न स्युरिति । अतः काठके ज्योतिर्ब्राह्मणे प्रपञ्चो भिन्न इत्यापाद्यते । स इति । स्वाप्निकः प्रपञ्चः । न भिन्न इति । ज्योतिर्ब्राह्मणोक्तात्काठकोक्तः प्रपञ्चो न भिन्नः । अविद्ययेति भाष्यं विवृण्वन्ति स्म किञ्चेति । तत्राज्ञानिक एवेति । तत्र स्वप्ने । आज्ञानिक आविद्यकः । एवेति । बाधात् । हिताख्येति । ज्योतिर्ब्राह्मणे । अर्थस्तु उक्तसुषुप्तावस्थाकामभगवत्तोरविद्यायाः स्वाप्निकायाः सम्बन्धो न स्वाभाविक इति दर्शयितुम् । 'ता वा अस्यैता हिता नाम नाड्यः' इत्यादिना नाडीनिरूपणम् । अस्येति । अकामभगवतो भेदे षष्ठी । अतोऽविद्यानाडीभिन्नाः स्वाप्निक्यः । ता उपक्रम्य 'अथ यत्रैन'मित्यादिग्रन्थः । पूर्वं 'न कश्चन स्वप्नं पश्यती'त्युक्तम्, तत्र प्रतियोगी स्वप्नं निरूपयन्ति स्म । यत्र स्वप्ने एनं स्वप्नसदृशं घ्नन्तीव तस्करादयो ये केचन जिनन्तीव वशीकुर्वन्तीव दासरूपेण । कदा- चिद्धस्तीव विच्छायायति विच्छादयति, विद्रावयति । तथा गर्तं जीर्णकूपादिकं प्रति पततीव, न वस्तुतः । किं तत इत्यत आह यदि॑ति । यदेव जाग्रत् जाग्रतः सम्बन्धि भयं पश्यति । षष्ठ्या लुक् । अन्ये तु जाग्रत् जागरिति इति सप्तम्यालुक् सूचयन्ति । तदत्र स्वप्ने र्मेति । अग्रे स्पष्टम् । कर्तृभेद इति । ब्र० सू० २ ० ११ 1617

दुःखभोगार्थमपि सत्यत्वमङ्गीकर्तव्यम् । स्थानद्वयप्रतिज्ञा च विरुध्येत । 'जीवतो मृताँश्च पश्यती'ति लोकद्वयदर्शनम् । अतो लोकद्वयप्रतिच्छायरूपत्वान्मायया क्रीडायामन्यानुरोधाभावेनातिसुखत्वात् भगवत्कृतमात्रवाचकत्वाच्च श्रुतेरतिरि- भाष्यप्रकाशः । 'योऽयं विज्ञानमयः पुरुषः प्राणेषु हृद्यन्तर्ज्योति'रिति प्रतिवचनं दत्वा, तादृशत्वं जीवस्याप्यस्तीति तन्निराकरणार्थं 'स समानः सन्नुभौ लोकौ सञ्चरती'त्यादिना जीवतुल्यतया क्रीडितुरन्यस्य कथ- नेन तस्मिन्नेव तत्कर्तृत्वस्य 'सुषुप्त्युत्क्रान्त्योर्भेदेने'ति सूत्रे व्यवस्थापितत्वात् । जीवस्य स्वदुःख- भयादिजनकसृष्टिकरणायोगाच्च । कार्त्स्न्येनानभिव्यक्तस्वरूपतया सत्यसङ्कल्पत्वाद्यभावाच्च । अत- स्तत्र भगवान्नेव कर्ता । जीवस्त्वविद्यया दुःखादिकमिव कर्तृत्वमपि मन्यते । अतो न तत्सुखदुः- खभोगार्थमपि स्वप्नप्रपञ्चस्य सत्यत्वमङ्गीकर्तव्यम् । किञ्च । यदि स्वाप्नप्रपञ्चस्य सत्यत्वं स्यात्, तदा 'तस्य वा एतस्य पुरुषस्य द्वे एव स्थाने भवत इदं च परलोकस्थानं चे'ति श्रुत्युक्ता स्थान- द्वयप्रतिज्ञा च विरुध्येत । ननु तत्रैव 'सन्ध्यं च तृतीयं स्थानं तस्मिन् सन्ध्ये स्थाने तिष्ठन्नुभे स्थाने पश्यतीदं च पर- लोकस्थानं चे'ति तृतीयमप्युक्तम् । सत्यमुक्तम्, परं तूभयविलक्षणतया, तत्र च लोकद्वयदर्शनं जीवतां मृतानां च दर्शनेन । न हि ते तत्र सन्तीति प्रागेवोक्तम् । अतस्तृतीयत्वेऽपि लोकद्वयप्रतिच्छायारूपत्वान्न तेन प्रतिज्ञा- विरोधः । सत्यत्वे स स्यादेव । नच किमीदृशसृष्ट्या क्रीडयेति शङ्क्यम् । मायया क्रीडायामन्यानु- रोधाभावेनातिसुखत्वात् । अतो भगवत्कृतमात्रवाचकत्वात् काठकश्रुतेस्तन्मूलेनातिरिक्तसत्यसृष्टि- कल्पनायां प्रमाणाभावान्नातिरिक्तः स्वाप्नः प्रपञ्च इत्यर्थः । ननु कार्त्स्न्येनानभिव्यक्तत्वस्य जीवविशेषणत्वे 'न तत्र रथा' इति श्रुतेराश्चर्यपरत्वे सति जीवदर्शनस्य भ्रान्तित्वात् किं वा स्वप्नस्य भवदभिमतमायामात्रत्वगमकम्, येन तत्कृतगुणदोष- रश्मिः । ब्रह्मजीवरूपस्वप्नकर्तृभेदः । प्राणेष्विति । सामीप्यसप्तमीति केचित् । सूक्ष्मदेह इति व्याख्यातम् । तादृशत्वं विज्ञानमयत्वम् । स समान इति । स ईश्वरः समानो जीवसमानः । अन्यस्येति । ईश्वरस्य । तस्मिन्नेवेति । ब्रह्मण्येव, नतु जीवे । बलवदनिष्टाननुबन्धीष्टसाधनज्ञानप्रवर्तकं तत्कृष्ण- सम्बन्धीत्याहुः जीवस्य स्वेति । तत्रेति । स्वप्ने । भगवान्नेव, नतु जीव इति जीवयोग्यव्यवच्छेदक एवकारः । मन्यत इति । अहं कर्तेत्यभिमन्यते । 'परात्तु तच्छ्रुते'रिति सूत्रात् । स्थानद्वयेतिभाष्यं विवृण्वन्ति स्म किञ्चेति । जीवत इत्यादिभाष्यं विवृण्वन्ति स्म ननु तत्रैवेति । बृहदारण्यक एव । काठकव्यवच्छेदक एवकारः । इदंलोकपरलोकस्थाने उभे स्थाने । नहि ते तत्रेति । सन्ध्ये स्थाने मृताः सन्ति । मुक्तानामैक्येऽमुक्तानां संकर्मत्वेऽपि पृथग्दर्शनानर्हत्वेन परलोके सत्त्वात् । प्रागेवेति । 'सन्ध्यं तृतीय'२स्वप्नस्थानमिति, तस्मिन्सन्ध्ये स्थाने तिष्ठन्नुभे स्थाने पश्यतीदं परलोकस्थानं चे'त्यस्याः प्रागेवोक्तम् । उभयविलक्षणतयेत्युक्तं विशदयन्तो लोकेतिभाष्यं विवृण्वन्ति स्म अतस्तृतीयत्त्व इति । 'जीवतो मृताँश्च पश्यती'ति लोकद्वयप्रतिच्छायरूपत्वात् लोकद्वयसूक्ष्मरूपत्वात् । न तेनेति । न तृतीयेन द्वयप्रतिज्ञाविरोध इत्यर्थः । स इति । प्रतिज्ञाविरोधः । माययेतिभाष्यं विवरीतुं शङ्कते नचेति । अन्येति । विषयानुरोधाभावेन मिथ्यात्वादिति भावः । भगवत्कृतेतिभाष्यं विवृण्वन्ति स्म 1618

रुत्कल्पनायां प्रमाणाभावाज्ज्योतिःशास्त्रनियमाभावाच्च मायामात्रमेव स्वप्न इति न तत्कृतगुणदोषसम्बन्धः। दीक्षितस्यान्नभोजनादिप्रायश्चित्तं तु भगवत्क्रीडाया- मपि प्रतिच्छायत्वात् क्रियते । तदानीं कर्तृत्वस्यारोपात् । अन्यदा कर्तृत्वस्याशा- स्त्रत्वान्न धर्माधर्मजनकत्वम् । देवताज्ञादिस्तु जीवब्रह्मणोर्विद्यमानत्वादुक्ता । भाष्यप्रकाशः । सम्बन्धो नाङ्गीक्रियते इत्याशङ्कायामाहुः ज्योतिरित्यादि । मेषादिराशिगे सूर्ये एतावद्दिनम्, एतावती रात्रिः, अस्मिन् देशे चेत्यादिनियमस्य तत्राभावात् तथेति न तत्कृतगुणदोषसम्बन्ध इत्यर्थः । ननु यदि स्वप्नप्रपञ्चो मिथ्या, तदा दीक्षितेन स्वप्नेऽन्नभोजनादौ कृते यद्दीक्षितस्य प्रायश्चि- त्तविधानं तद्विरुध्येत, मिथ्याभूते भोजनादौ तदयोगादित्यत आहुः दीक्षितस्येत्यादि । यद्यपि तन्न भोजनम्, तथापि स्वाप्निक्यां भगवत्क्रीडायां भोजनसदृशत्वात् तदानीं जीवेऽपि कर्तृत्वस्या- विध्यनारोपात् प्रायश्चित्तं क्रियते । यथा व्रीह्यभावेपि नीवारेण कार्यसिद्धिः, तद्वदत्रारोपितकर्तृत्व- मादायाप्यपराधसिद्धेः । शास्त्रेण यज्ञकर्मण्येव कर्तृत्वे नियमिते निषिद्धेष्वभिमानिककर्तृत्वस्यापि दोषत्वादिति । अतो न तेन तस्य सत्यत्वसिद्धिरित्यर्थः । एतदुपष्टम्भाय युक्त्यन्तरमाहुः अन्यदे- त्यादि । तथाच यदि सा सत्या स्यात्, तदा तेनान्यदापि धर्माधर्मौ स्याताम् । तथा सति 'स्वप्ने- ऽवगम्यागमनं च धन्य'मित्यादिकं न स्मर्येतेति सा मिथ्यैवेत्यर्थः । ननु यदि स्वप्नः सर्वोपि मिथ्या स्यात्, तदा तत्र देवतादर्शनाज्ञादिकं न स्यात्, भवद्भा- तुम्र्त्वाादिविसंवादि स्यादित्यत आहुः देवतेत्यादि । जीवा इन्द्रादयो योगोत्थसामर्थ्याः, ब्रह्म स्वत एवातिसमर्थम् । अतः समाधाविव स्वप्नेऽप्यन्तर्हृदि प्रविश्य विद्यमानत्वाद्दर्शनाज्ञादिकं ददाति, तदानीं बुद्धिजार्गतीति स्वप्नदृशा जीवोप्यनुभवति । तेन तस्य तदानीं रथादिवत् करणाभावेन स्वप्नत्वाभावान्नतत्सत्यता युक्ता । किञ्च । तत्र यज्ज्ञानं जायते, तन्न लौकिकम्, तत्तदि- रश्मिः । अतो भगवदिति । तद्बलेनेति । भगवत्कृतमात्रवाचकशब्दबलेन । सूर्ये इति । सप्तम्यन्तम् । एतावत् त्रिंशद्धटिकापलचतुःपञ्चाशद्दिनम्, एतावती एकोनत्रिंशद्धटिकापलषट् [रात्रिः] । आदिना वृषेर्के द्वात्रिंशद्धटिकापलचतुर्विंशद्दिनम् । एकोनत्रिंशद्धटिकापलषट्त्रिंशद्रात्रिरनया । देश इति । ब्रह्मावर्तादौ । तत्रेति । स्वप्ने । तथेति । मायामात्रत्वम् । अन्नेति । आदिना रेतःस्रावः । आरोपादिति । ग्राह्यस्य कर्तृत्वस्य । यज्ञकर्मण्येवेति । एवकारेण स्वप्नयोग्यव्यवच्छेद(कः) क्रियते । निषिद्धेष्विति । स्वप्नाचार्याज्ञाविस्वासादिषु । तेनेति । आरोपितकर्तृत्वेन । तस्य स्वप्नस्य । सेति । स्वप्नसृष्टिः । अन्यदेति । दीक्षान्यकाले । भोजनकर्तृत्वेऽस्य न विद्यते शास्त्रं यस्मिन् तादृशत्वात् । धर्माधर्म- जनकत्वं गुणदोषजनकत्वम् । देवतेति । आदिना बाहुना मेलनम् । अनुभवादीति । आदि- नाप्तवाक्यम् । स्वत एवेति । उपाधिव्यवच्छेदकैवकारः । बुद्धिरिति । स्वप्नग्राहिका । तस्येति । दर्शनाज्ञादिकस्य । रथादिवदिति । आदिनाऽविद्य । करणाभावे हेतुरनुभवतीत्यनुभव उक्तः । अत उक्तं करणाभावेन । तत्सत्यता दर्शनाज्ञादेः सत्यता । अलौकिकेतिभाष्यं विवृण्वन्ति स्म किञ्चेति । १. अष्टाविंश । 1619

Line 1: त, Line 2: सा, Line 3: क्षी... no, there's no vertical 'सा'! Wait, let's look at the third character: it has an i-matra (ि)! The fourth character is ति! The second character has an i-matra? Let's look closely at the word: "॥४॥ तत्तदिति ।" Wait, is it "तत्र तदिति"? Look: त followed by त्त (double ta) with no matra? Or त् + त? Then दि (da with i-matra). Then ति (ta with i-matra). "तत्तदिति ।" Wait, let's look at: "तत्र तदिति" - no, no र. What about "तद्विदिति ।"? In "तद्विदः", the 'द्वि' has i-matra. Here, does the second letter have an i-matra? No, the third letter has the i-matra: दि! Wait, could the word be "तत्तदिति"? Why would it say "तत्तदिति"? Wait! In the Bhashya, after "सूचकः शुभा-": What is the full Bhashya text of Sutra 4? "सूचकश्च हि श्रुतेराचक्षते च तद्विदः ॥ ४ ॥ ननु

' - it's 'भा': तद्भानप्रसङ्गेन. Wait, wait, look at 'मा' vs 'भा': in 'भान', 'भ' has the open top with left loop. Here it has a stroke on top, but wait, look at 'मान': in line 15: "तदमानप्रसङ्गेन"? No, look at the letter: it has a loop on the left, but the top bar doesn't cover the left part: that's 'भा'! "तद्भानप्रसङ्गेन".

Line 16: मशक्यत्वादिति ॥ ४ ॥

Divider line: रश्मिः ।

Text block 3 (रश्मिः): Line 18: श्रुतेः तत्तज्जीवसाक्षिकम् । पदार्था तयोरेकदेशेन शब्देन ज्योतिषा द्रव्यशून्यधर्मः ज्योतिर्मात्रं तेन । तस्येति । Wait, "पदार्था तयोरेकदेशेन" or "पदार्थौ"? Look at line 18: "पदार्थौ तयोरेकदेशेन" - wait, does it have two matras on top? Let's look at "पदार्थौ": 'र्थौ' has two diagonal strokes on top! Yes, "पदार्थौ तयोरेकदेशेन". Wait, after "तस्येति ।": is there a hyphen or dash? There is a dot or dash

८६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० १ सू० ५. पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॥ ५ ॥ किञ्चिदाशङ्क्य परिहरति । ननु जीवाय भगवान् सृष्टिं करोति, प्रदर्शयति च स्वस्य सर्वलीलाम्, अंशाभ्यायम्, कथमस्य दुःखित्वमित्याशङ्क्य, परिहरति तुशब्दः । अस्य जीवस्यैश्वर्यादि तिरोहितम् । तत्र हेतुः पराभिध्यानात् । परस्य भगवतोऽभितो ध्यानं स्वस्यैतस्य च सर्वतो भोगेच्छा, तस्मात् । ईश्वरेच्छया जीवस्य भगवद्धर्मतिरोभावः । ऐश्वर्यतिरोभावादीनत्वं पराधीनत्वम्, वीर्यतिरोभावात् सर्वदुःखसहनम्, यशस्तिरोभावात् सर्वहीनत्वम्, श्रीतिरोभावाज्जन्मादिसर्वाप- द्विषयत्वम्, ज्ञानतिरोभावाद्देहादिष्वहंबुद्धिः सर्वविपरीतज्ञानं चापस्मारसहित- स्येव, वैराग्यतिरोभावाद्विषयासक्तिः । बन्धश्चतुर्णां कार्यः, विपर्ययो द्वयोः, तिरोभावादेवैवम्, नान्यथा । युक्तोऽयमर्थः । एकस्यैकांशप्राकट्येपि तथाभावात् । भाष्यप्रकाशः । पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॥५॥ सूत्रमवतारयन्ति किञ्चि- दित्यादि । तुशब्दार्थकथनमुखेन तद्विभजन्ते नन्वित्यादि । परिहारं व्याकुर्वन्ति अस्य जीवस्ये- त्यादि । चतुर्णामिति । ऐश्वर्यादिचतुष्टयतिरोभावानाम् । विपर्ययो द्वयोरिति । अन्यथाज्ञानं ज्ञानवैराग्यतिरोभावयोः कार्यमित्यर्थः । तत इत्यादिकं व्याकुर्वन्ति तिरोभावादेवैवम्, नान्य- थेति । ऐश्वर्यादितिरोभावादेव बन्धविपर्ययौ, न तु स्वत इत्यर्थः । युक्तत्वं विवृण्वन्ति एकस्ये- त्यादि । 'युक्तं भगैः खै'रित्यादिवाक्यात् पूर्णा ऐश्वर्यादयो भगवत्येव । तन्मध्ये एकस्यैश्वर्यादे- रेकांशप्राकट्येपि 'यत्पादपङ्कजे'त्यादिवाक्यैस्तथानिश्चयेन बन्धाभावात् । तदभावादेव बन्धविप- र्ययाविति युक्तमित्यर्थः । नन्वानन्दांशतिरोभावादेवैतद्द्वयं कुतो न स्वीक्रियत इत्यत आहुः रश्मिः । पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॥ ५ ॥ तुशब्दार्थेति । आशङ्कापरिहारस्तुशब्दार्थः । तत्कथनोपायेनेत्यर्थः । नन्वित्यादि । जीबायेति । भक्ताय साधार- णाय च । लीलांशब्देन स्वप्रदर्शने यया तथेत्युक्तम् । स्वस्यैतस्येति । यया गोकुलाष्टके तथा । शृङ्गाररसमण्डने च । अमुक्तत्वदशायाम् । स्वस्योत्कर्षेण जीवस्य निकृष्टत्वेन च सर्वतो भोगेच्छा । 'भगवद्धर्मेति । उच्चनीचभावाय । समत्वे लीला न स्युः । दीनत्वमित्यादि । अन्यानुरक्षणाभावात् । पराधीनत्वं परोक्तकरणात् । सर्वदुःखेति । अनुभवसिद्धम् । सर्वहीनत्वमिति । 'यथा वृक्षस्य संपुष्पितस्य दूराद्गन्धो वात्येवं पुण्यस्य कर्मणो दूराद्गन्धो वाति, यथासिधारां कर्तेव हि तामवक्रामेद्यद्युवे- युवे ह वा विह्वयिष्यामि कर्तं पतिष्यामीत्येवममृतादात्मानं जुगुप्सेत्' । अत्र कर्मगन्धो यशः । स्वधर्मा- भावात्सर्वहीनत्वम् । जन्मादीति । लक्ष्यमभावं श्र्यभावो ज्ञापयति । लक्ष्म्यभावात्सत्कर्माभावेन जन्मादि । आदिना स्वार्थाल्पव्ययः । अहंबुद्धिरविद्यारूपा । एवेति । स्वतो योगव्यवच्छेदकः । बन्धेति । दीनत्वादिर्बन्धोऽहंबुद्ध्यादिः स्वरूपविपर्ययः तौ । युक्तत्वमिति । सौत्रहिशब्दार्थम् । 'भगवत्येवेति । एवकारेण जीवयोगव्यवच्छेदः । यत्पादपेति । आदिना 'वञ्चितोऽहं महाराज हरिणा बन्धुरूपिणा । येन मेऽपहृतं तेजो देवविस्मापनं मह'दिति प्रथमस्कन्धोक्तम् । तथेति । अस्यार्थो निश्चयेन बन्धः तस्याभावात् । तद्भावादिति । बन्धाभावाद्बाध्यरूपत्वात् । एवेति । इतरयोग- व्यवच्छेदकः । नच बन्धाद्वन्धविपर्ययौ न स्यातामिति चेत् । न । बन्धविपर्ययौ न बन्ध इति प्रयोगात् 1622

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ८७ आनन्दांशस्तु पूर्वमेव तिरोहितः, येन जीवभावः । अत एव काममयः । अकाम- रूपत्वादानन्दस्य । निद्रा च सुतरां तिरोभावकर्त्री भगवच्छक्तिः । अतोऽस्मिन् प्रस्तावे जीवस्य धर्मतिरोभाव उक्तः । अन्यथा भगवत ऐश्वर्यादिलीला निर्विषया स्यात् । तस्मान्न जीवस्वरूपपर्यालोचनया किञ्चिदाशङ्कनीयम् ॥ ५ ॥ देहयोगाद्वा सोपि ॥ ६ ॥ ईश्वरेच्छयैश्वर्यादितिरोभावं स्वमते निरूप्य, मतान्तरेणापि नियतधर्मवादेन निरूपयति । देहयोगाद्वा । देहसम्बन्धादेवास्य सर्वतिरोभावः । विपर्ययो वा । अपिशब्दान्वयत् । अस्मिन् पक्षे देहवियोग एव पुनरैश्वर्यादिप्राप्तिः । पूर्वस्मिन् भाष्यप्रकाशः । आनन्देत्यादि । पूर्वमिति । व्युच्चरणकाले । द्विविधा हि जीवाः, सदा मुक्ताः, बन्धयोग्याश्च । [L

कल्पे विद्यमानेपीति विशेषः । न त्वीश्वरेच्छया विकल्पः । कश्चित् परशब्देन देहादिमाह । तदा अभिध्यानयोगयोराकस्मिकता स्यात् । 'सर्वस्य वशी सर्वस्येशान' इति विरोधश्च । कश्चित्तु तस्याभिध्यानात् 'तृतीयं देहभेद' इति श्रुत्यनुरोधेन जीवकर्तृका-

भाष्यप्रकाशः ।

स्फुटीकुर्वन्ति अस्मिन्नित्यादि । नत्वित्यादि । क्वचिदीश्वरेच्छया क्वचिद्देहयोगेनेति विकल्पो नात्राभिप्रेत इत्यर्थः । उक्तव्याख्यानदार्ढ्यार्थं व्याख्यानान्तरं दूषयितुमनुवदन्ति कश्चित् परशब्देन देहादि- माहेति । देहारम्भकं कर्माहेत्यर्थः । इदं च न प्रसिद्धब्रह्मभाष्यस्थम् । मध्वरामानुजशैवभिक्षुभिः पराभिध्यानपदे ब्रह्मकर्तृकाभिध्यानस्यैव व्याख्यानात् । अत इदानीमुत्सन्नस्यैव कस्यचिन्मतस्यो- ल्लेखः । दूषयन्ति तदेत्यादि । आकस्मिकतेति । निर्हेतुकता । तथाच देहारम्भकेन कर्मणा बन्धे विपरीतज्ञाने चाभ्युपगम्यमानेऽभिध्यानयोगयोर्निर्हेतुकतया तत्पदप्रयोगवैयर्थ्यं स्यात् । बन्धादेः कर्माधीनत्वे ईश्वरस्य सर्वनियन्तृत्वभङ्गेन 'सर्वस्ये'त्यादिश्रुतिश्च विरुध्येतेत्यत उपेक्ष्यमित्यर्थः । शङ्करभास्कराचार्ययोर्मतमाहुः कश्चित्त्वित्यादि । ऐकमत्यादेकवचनेनोल्लेखः । श्रुतिस्तु श्वेताश्वतरस्था । 'ज्ञात्वा देवं सर्वपाशापहानिः क्षीणैः क्लेशैर्जन्ममृत्युप्रहाणिः, तस्याभिध्यानात्तृतीयं देहभेदे विश्वैश्वर्यं केवल आत्मकाम' इति । अर्थस्तु, देवं ज्ञात्वा देवज्ञानेन सर्वेषां पाशानां बन्ध- कानां पुण्यपापादीनामपहानिर्दाहः, क्षीणैर्दग्धैः क्लेशैरविद्यास्मितादिभिर्जन्ममृत्युप्रहाणिः पुनः पुनर्जन्ममरणप्रवाहान्निरुत्तिः, तस्याभिध्यानात् परमेश्वरविषयकाच्चिन्तनात् देहभेदे देहनिवृत्तौ, 'देह- भेदै'रितिपाठे नानादेहैः, तृतीयं विश्वैश्वर्यम्, ऐहिकाचान्द्रादिलोकसम्बन्धिनश्चैश्वर्यादतिरिक्तं ब्रह्म- लोकसम्बन्ध्यैश्वर्यं भवेदिति शेषः । ततः केवलो ब्रह्मभूत आत्मकामो भवतीति । 'तृतीयंदेहभेदे' इति पाठे तु ऐहिकात् पारलौकिकाच्च तृतीयो ज्ञानिदेहस्तस्य निवृत्तौ सत्यां विश्वैश्वर्यं प्राप्य ब्रह्म-

रश्मिः ।

शब्दादिति । बन्धदुःखादीति । आदिना षड्गुणतिरोभावः । अस्मिन्नित्यादीति । एवकारो विद्य- मानदेहयोगव्यवच्छेदकः । विद्यमाने इति । भगवान् व्यासः भगवान्नारद इति प्रयोगात् । कर्माहेति । देहस्यादिः कर्म देहादिस्तम् । आदिशब्दो 'न नपुंसक'मिति पुंस्त्वम् । ब्रह्मकर्तृकेति । 'परस्य ब्रह्मणो- ऽभितो ध्यानं सर्वतो रमणेच्छे'त्यत्र परस्येति कर्तरि षष्ठीति भावः । तत्तद्भाष्यादेवकारः । रामानुज- भाष्यं यथा (पराभिध्यानात्परमपुरुषसंकल्पादिति) । उत्सन्नस्यैवेति । उत्सन्नप्रच्छन्नशाखामूलत्वस्य स्मृतिषु प्रसिद्धेः । एवकारः प्रच्छन्नयोगव्यवच्छेदकः । जैमिनिबादरिकाशकृत्स्नौडुलोम्यादिमतानां भाष्येऽप्रच्छन्नत्वात् । एकदेशिमतं च 'अरूपवदेव हि तत्प्रधानत्वादि'तिसूत्रोक्तम् । अत आहुः कस्यचि- न्मतस्येति । कर्मपदोक्त्या जैमिनिमतमिति भवेदेवाबधृतिः । निर्हेतुकतयेति । बन्धविपरीतज्ञाने उत्सन्न क्षीणशक्ति कर्म नामिध्यानयोगयोर्हेतुतामर्हत्यतो निर्हेतुकतया । प्रयोगेति । सूत्रद्वये प्रयोग- द्वयस्य वैयर्थ्यं स्यादित्यर्थः । सर्वस्येतिभाष्यं विवृण्वन्ति स्म बन्धादेरिति । आदिना विपर्ययः । देहयोगश्च । कर्मादीत्यादिना इच्छा विद्या पूर्वप्रज्ञा चेति । 'ईश्वरेच्छयैवैश्वर्यादितिरोभाव'मित्यायुक्त- भाष्यात् । 'तं विद्याकर्मणी समन्वारेभेते पूर्वप्रज्ञा चे'ति श्रुतेश्च । उल्लेख इति । शङ्करभास्कराचार्य- योरुल्लेखः कश्चिदितिशब्देन । अविद्यास्मितेति । 'अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशा' इति योग- सूत्रम् । तृतीयत्वं समर्थयन्ति स्म ऐहिकादिति । चान्द्रादीति । आदिनादित्यविद्युल्लोकौ । छान्दोग्य

  • "क्ष" (or whatever it is)
  • "व"
  • "स्था" Wait! Is it "अवान्तरेऽस्मिक्स्वस्थाप्रकरणे"? No! Wait, look at the image between 'स्मि' and 'प्रकरणे': Let's list the glyphs:
  1. 'स्मि'
  2. a glyph that looks like: 'क्ष' or 'न्स्व'?
  3. a glyph: it has a vertical line with aa-matra: wait, it is 'व' with 'स्था'? Wait! Look at: "अवान्तरेऽस्मि" then: a character with 'न्' + 'स्व'? Wait, look at L29: "जीवेश्वेरानन्यत्वं" -> look at 'श्वे': it has 'श्' and 'वे'. Look at L29: "तस्याशङ्का". Let's look at line 13: "अवान्तरेऽस्मिक्षव्यवस्था-" Wait, is it "अस्मिन्र्स्वप्नावस्था-"? No, there is no repha. Wait, let's look at: "अवान्तरेऽस्मिक्षव्यवस्था-" Wait, could it be "अवान्तरेऽस्मिन्र्..."? No. Let's search Google Books or known texts for: "अवान्तरेऽस्मिन्र्स्वप्नावस्थाप्रकरणे" or "अवान्तरेऽस्मिक्ष
५०                                    श्रीमद्ब्रह्मसूत्राणुभाष्यम् ।             [ अ० ३ पा० २ अ० २ सू० ७.
तदभावो नाडीषु तच्छ्रुतेरात्मनि च ॥ ७ ॥ ( ३-२-२ )
प्रसङ्गाज्जीवस्याज्ञानं निरूप्य सुषुप्तौ केवलमज्ञानं निरूपयितुं स्थानखभावावौ
निरूपयति । एवं श्रूयते । नाडीरनुक्रम्य 'तासु तदा भवति, यदा सुप्तः स्वप्नं न
कञ्चन पश्यति । अथास्मिन् प्राण एवैकधा भवती'ति । तथा 'प्राज्ञेनात्मना सम्प-
रिष्वक्तो न बाह्यं किञ्चन वेद नान्तर'मिति ।
तत्र संशयः । स्वप्नवत् प्रपञ्चसृष्टिं मायिकीमपि भगवान् करोति, न वेति
संशयः ।
तत्र 'य एष सुप्तेषु जागर्ती'त्यत्र जीवस्वापमात्रे भगवत्सृष्टेरुक्तत्वात्, 'स्वप्नं
न कञ्चन पश्यती'त्यत्रापि दर्शनमात्रनिषेधात्, 'न बाह्यं किञ्चन वेद नान्तर'

। तथाच हेतुमति साध्यसत्त्वान्न साधारण्यमित्यनुमानपक्षेपि भाष्यार्थः सुष्ठु । प्रकृते । मायिकेति । इयं ज्ञानात्मिका ग्राह्या । 'स्वप्नः सुप्तस्य विज्ञान' इति कोशात्स्वप्नस्य ज्ञान- त्वात् । जीवस्येति । ननु 'सुषुप्तिस्त्वकामरूपो भगवा'निति 'सुषुप्त्युत्क्रान्ति'सूत्रभाष्यविरोध इति चेत् । न । 'अकामरूपत्वादानन्दस्ये'त्युभयरूपत्वात् । प्राकरणिक इति । ज्योतिर्मय प्राकरणिकः हेतुश्चरणाभिधानादिति । एवं व्याख्यान इति । ब्रह्मजीवसाधारण्येन व्युत्पादनसापेक्षतच्छ्रुतिरूप- हेतुव्याख्याने । अयमर्थः । अन्यत्र तदभावपदेन स्वप्नदर्शनाभावो व्याख्यातः । 'तद्वा अस्यैत'दिति श्रुतिर्नोक्तेति । लाक्षणिकेति । स्वप्नदर्शने लाक्षणिकता । दर्शनमनुव्यवसाय इत्यपि गौरवग्रस्तः पक्षः । हृदयदेशादिति भाष्ये ल्यब्लोपे पञ्चमीत्याहुः हृदयेति । 16

जीवस्य। इन्द्रियाणां च स एव देशः। तत्र निद्रया भगवच्छक्त्या बहिर्दृष्ट्याच्छादने भगवल्लीलायां तां पश्यति । तत्राप्याच्छादने गाढसुप्तो ज्ञानरहितः क्रियाशक्त्या अन्तर्भगवन्तं वा प्रविशति । बहिर्नाडीषु वा समायाति । अत एव बृहदारण्यकषष्ठे 'यत्र सुप्तो न कञ्चन कामं कामयत' इति वारद्वयमाह । 'ता वा अस्यैता हिता प्राप्य स्थिताः । आभ्यन्तर इति । हृदयदेशादाभ्यन्तरः । तामिति । स्वामिकीं भगवल्लीलाम् । द्वैविध्ये प्रमाणमाहुः अत एवेत्यादि । तदेव स्फुटीकुर्वन्ति ता वा इत्यादि । तथाच बृहदा- रण्यके 'यत्र सुप्त' इत्याद्युक्त्वा, किं तत् स्वापस्थानमित्याकाङ्क्षायां 'ता वा अस्यैता हिता नाम नाड्य' इति पूर्वमुक्त्वा, पुनरपि तथैवोक्त्वा, 'तद्वा अस्यैत'दित्यादिना आत्मरूपं स्थानान्तरमुक्तम् । तस्मात् सुषुप्तेर्द्वैविध्यम् । उभयत्रापि कामनाभावाच्च न सृष्टिः, अत एव च न मुक्तावपीत्यर्थः । यत्तु, 'तद्यत्रैतत्सुप्तः समस्तः सम्प्रसन्नः स्वप्नं न विजानात्यासु तदा नाडीषु सुप्तो भवती'ति, 'ताभिः प्रत्यवसृप्य पुरीतति शेत' इति, 'तासु तदा भवती'ति च, 'य एषोऽन्तर्हृदय आकाशस्त- स्मिञ्छेते' इति, 'सता सोम्य तदा सम्पन्न' इत्यादीनि दहरदृप्तबालाकीयबालाकीयानि विषयवा- क्यान्युपन्यस्य, किमेतेषां नाडीपुरीतत्परमात्मनां परस्परनिरपेक्षाणां सुषुप्तिस्थानत्वम्, उत परस्परसापेक्षतयैकस्येति संशये, परस्परनैरपेक्ष्यमयुक्तम् । तथा सति व्रीहियवद्विकल्पापत्त्या पक्षे बाधापत्तेः । नच नाडीषु सुप्तो भवति, पुरीतति शेते, य एषोऽन्तर्हृदय आकाशस्तस्मिञ्छेते इत्येकविभक्तिनिर्देशेनैकार्थत्वात् विकल्पसोचितत्वं शङ्क्यम् । प्रासादे शेते, पर्यङ्के शेते, इत्यादौ नानार्थत्वसमुच्चयोरप्येकविभक्तिदर्शनेन हेतोः साधारणत्वात् । 'तासु तदा भवति, यदा सुप्तः स्वप्नं भाष्ये । इन्द्रियाणां चेति । 'मन इन्द्रियनायक'स्तत्रेति तथा । यद्वा । हृदयब्राह्मणे 'एष प्रजापतिर्यद्धृदयम्, एतद्ब्रह्मैतत्सर्वं तदेतत्त्र्यक्षरं 'हृदय'मित्युक्त्वा 'एतत्सर्व'मिति सर्वपदार्थमाह । 'हृ इत्येकमक्षरमभिहरन्त्यस्मै स्वाश्चान्ये च य एवं वेद, द इत्येकमक्षरं ददत्यस्मै स्वाश्चान्ये च य एवं वेद, यमित्येकमक्षरमेति स्वर्गलोकं य एवं वेदे'ति । अर्थस्तु, अस्मै ब्रह्मणे स्वाश्चा जीवेन्द्रियाणि अन्ये विषयाः । मर्यादामार्गीयसर्वात्मभाव उक्तः, अम्बरीषस्येव । निरोधलक्षणग्रन्थोक्तः । 'इन्द्रियाणि जुह्वती'ति साम्श्रुतेः । अत एवैतत्कारः । भगवच्छक्त्येति । त्रिष्वननन्तरूपभगवच्छक्त्या । अनन्त- स्यानानन्तानन्दरूपत्वेनानन्दस्य तमःशक्तित्वात् । 'आनन्दाच्च तम' इति सुबोधिन्या द्वितीयनवमाध्याये सहस्रम् । बहिरिति । सतिसप्तम्यन्तम् । तत्रापीति । खप्नेपि सम्यग्दृष्ट्याच्छादने सति । गाढत्वं सम्यक्त्वम् । 'प्राज्ञेनात्मना सम्परिष्वक्त' इत्युक्तश्रुतेः । ज्ञानरहित इति । 'न बाह्यं किञ्चन वेद न चान्तर'मिति श्रुतेः । क्रियाशक्त्येति । 'सम्परिष्वक्त' इतिश्रुतेः । भगवन्तमिति । अकामरूपं भगवन्तम् । प्रकृते । स्थानान्तरमिति । नाडीस्थानम् । अन्यत्स्थानं स्थानान्तरम् । उभयत्रेति । सुषुप्त्योः । सुषुप्तिस्त्वित्यादिभाष्यर्थः स्फुटः । यस्त्वित्यादि । तदेतत्त्सामीपतरवर्ति यत्र यस्मिन्काले सम्यक् अस्तः । ताभिरिति । नाडीभिः । तास्विति । नाडीषु । दहरेति । जलीयाः परमाणव इत्यत्रेव छः । पक्ष इति । नाड्यः तदभाववत्यः तच्छ्रुतेः । आत्मवत् । 'आत्मा तदभाववान् तच्छ्रुतेः नाडीव'दित्यत्र हृदये स्वप्नदर्शनाभावरूपसाध्ये पक्षे नाडीषु बाधः । पक्षे साध्याभावस्य बाधत्वात् । नानार्थत्वेति ।

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ९३

भाष्यप्रकाशः। न कञ्चन पश्यति, अथास्मिन् प्राण एवैकधा भवती'ति कौषीतकिश्रुतौ प्राणाख्यस्य परमात्मनो नाडीसमुच्चयावधारणात् । यत्र पुनः केवलनाडीनामेव सुषुप्तिस्थानत्वेन श्रवणम्, तत्रापि ब्रह्मणः प्रतिषेधाभावान्नाडीद्वारेण ब्रह्मण एव स्थानत्वस्य युक्तत्वात् । नच द्वारत्वे 'नाडीषु सुप्तो भवती'ति सप्तमीविरोधः । सञ्चारस्थानत्वेन तदविरोधात् । गङ्गाया सागरं गच्छतो गङ्गायां स्थितिवत् तदुपपत्तेः । तस्मान्नाडीब्रह्मणोः समुच्चयः । एवं पुरीतद्ब्रह्मणोरपि । पुरीततोपि ब्रह्मप्रक्रियायां सङ्कीर्तनात् । 'योऽन्तर्हृदय आकाशस्तस्मिञ्छेते' इति प्रकृत्य, 'पुरीतति शेते' इति कथनात् । हृदयाकाशस्य ब्रह्मत्वं तु दहराधिकरणे सिद्धम् । पुरीतत्तु हृदयवेष्टनम् । एवञ्च तद्वेष्टितो हृदया- काशः प्राकारपरिक्षिप्तपुरमिव भवतीति हृदयाकाशे शयने पुरीततोपि समुच्चयो जात एवेति । एवञ्च श्रुतिषु स्थानत्रयकथनेपि नाडीपुरीततोर्द्वारमात्रत्वम् । ब्रह्मैव तु सुषुप्तिस्थानमित्युक्तम् । तत्र पुरीतत्समुच्चयं त्वनुमन्यामहे । एकवाक्यगतत्वात् । नाडीनां समुच्चयं तु न मृष्यामः । बृहदारण्यके ज्योतिर्ब्राह्मणे 'यत्र सुप्तो न कञ्चन कामं कामयते, न कञ्चन स्वप्नं पश्यति, ता वा अस्यैता हिता नाम नाड्य इति, अथ यत्र सुप्तो न कञ्चन कामं कामयते, न कञ्चन स्वप्नं पश्यति, तद्वा अस्यैतदात्मकाममाप्तकाममकाम ५ रूपं तद्यथा प्रियया स्त्रिये'ति नाडीपरमात्मभेदेन अथशब्दात् प्रकृतच्छेदेन च श्रुतस्य 'यत्र सुप्त'वाक्याभ्यासस्य विरोधात् । अभ्यासप्रकृतच्छे- दाभ्यां सिद्धे सुषुप्तिस्थानभेदे विकल्पस्यापि प्राप्ततया दुष्टत्वाभावात् । 'ताभिः प्रत्यवसृप्ये'त्युक्ते नाडीषु सर्पण इवार्थादपि तत्प्राप्तेश्च । एवं सति कौषीतकीये 'अथास्मिन् प्राण एवे'ति वाक्येपि विकल्पार्थक एवाथशब्दो ग्राह्यः । आनन्तर्यार्थकत्वेपि पूर्वापरकालभेदस्य प्राप्तत्वेन पूर्वकालिकस्य नाडीषु सुष्वापस्याबाधात् । अपरकालिकस्य प्राण एकीभावस्यापि भगवदिच्छाकृतप्रत्यवसर्पणतः रश्मिः। समुच्चयस्तु प्रासादे शेते, ततः प्रत्यवसृत्य पर्यङ्के शेत इति । एकविभक्तिः सप्तमी । हेतोः तच्छ्रुतिरूपस्य साध्याभाववत्यात्मनि सत्त्वेन साधारणत्वात् । नाडीति । तास्वितिषदोक्तनाडीसमुच्चयावधारणात् । अथेत्यस्यानन्तर्यार्थत्वात् । यत्रेति । 'आसु तदा नाडीषु सुप्तो भवती'त्यादौ । प्रकरणाभावादे- वकार आत्मव्यवच्छेदकः । ब्रह्मण एवेति । एकवाक्यतासम्भवादेवकारः साक्षान्नाडीव्यवच्छेदकः । सप्तमीति । किन्तु नाडीभिः सुप्तो भवतीति तृतीयापत्तिरित्यर्थः । सञ्चारेति । समस्तो जीवो नाडीषु सञ्चरतीति तथा । तद्विरोधात् सप्तम्यविरोधात् । गच्छत इति । काष्ठादेः । समुद्रे गच्छतः काष्ठादेः गङ्गायां समुद्रधारायां काष्ठादिर्गच्छतीति प्रयोगात् । तदुपपत्तेः । सप्तम्युपपत्तेः । नाडीब्रह्म- णोरिति । नाड्यात्मनोः । कथनादिति । दहरस्य परमात्मत्वनिर्णयात् । अन्तर्हृदय आकाशो दहरः । हृदयेऽन्तराकाश इत्यन्वयः । हृदयवेष्टनमिति । भास्करभाष्येप्येवम् । हृदयाकाश इति । ब्रह्मपुरम् । तदाहुः प्राकारेति । प्राकारो हर्म्यं परिक्षिप्तः यत्र पुरे तद्वत् । जात एवेति । उक्तदृष्टान्तादेवकारः । ब्रह्मैवेति । नाडीपुरीततोर्व्यवच्छेदकैवकारः । सुषुप्तिस्थानभेद इति । नाड्याकामजीवरूपसुषुप्ति- स्थानभेद इत्यर्थः । दुष्टत्वेति । अयमग्रे विचारयिष्यते । ताभिरिति । नाडीभिः सह जीवः । प्रत्यवसृप्येत्युक्ते नाडीषु सर्पणम् । पुत्रेण सह तृणं स्पृष्ट्वा गतः पितेत्यत्र पुत्रे तृणस्पर्शवत् । अर्थादा- क्षेपादपि तत्प्राप्तेर्विकल्पप्राप्तेः । विकल्पस्तु नाडीपुरीततोः । विकल्पार्थक एवेति । कोशादेवकारः । नन्वष्टदोषदुष्टविकल्पार्थं विकल्पार्थत्वं न युक्तमत आहुः आनन्तर्येति । पूर्वेति । अनन्तरस्य काल-

1629

९४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० २ अ० २ सू० ७. सुखेन सिद्धेश्र । न च नाडीस्वापवाक्ये ब्रह्मणोऽप्रतिषेधात् प्राप्तिरिति वाच्यम् । आभ्यासिकभेदा- देवार्थात् तत्प्रतिषेधसिद्धेः । अन्यथा तद्वैय्यर्थ्यप्रसङ्गस्य दुर्निवारत्वादिति । एवञ्च सुप्तापोत्तर- कालीनस्मरणेपि कदाचित् सुखस्य स्वापविशेषणतया भानं कदाचिच्च नेत्यपि युज्यते । न च नाडीषु स्वापे प्रपञ्चदर्शनप्रसङ्गः । सुषुप्तौ कामाभावश्रावणेन मनसो लयावगमात् करणाभावेन मायिक- प्रपञ्चानुत्पत्त्या बाह्यस्य च विप्रकृष्टतया करणलयेन च तदप्रसङ्गात् । अतो न दर्शनाभावार्थमपि सत्सम्पत्त्यपेक्षा । किञ्च । सूत्रकारस्यापि सुषुप्तिद्वैविध्यमेवाभिप्रेतम् । अन्यथा 'तदभाव आत्मनि तच्छ्रुते'रित्येव सूत्रयेत् । तावतैव द्वैतदर्शनाभावपाप्मसंसर्गाभावयोः सिद्ध्या नाडीचकारयो- र्निर्देशस्य वैयर्थ्यात् । तेनैतत् सिद्धम् । नाडीपरिवर्तने स्वप्नदर्शनम् । तासां प्रान्तभागे पुरीत- त्निकटे सुषुप्तिः । पुरीतदन्तर्हृदये आकाशे सत्सम्पत्तिरिति । ननु भवत्वेवम्, तथापि विकल्पस्य कथमदुष्टत्वमितिचेत् । उच्यते । विकल्पे हि प्राप्तप्रामा- ण्यपरित्यागः, अप्राप्तप्रामाण्यस्वीकारः, परित्यक्तप्रामाण्यस्वीकारः, स्वीकृतप्रामाण्यपरित्यागश्चेति विशेषणत्वादिति भावः । आभ्यासिकेति । 'यत्र सुप्तो न कञ्चन कामं कामयत' इति वारद्वयमाह, अतो 'यत्र सुप्त' इति वाक्याभ्यासिकभेदात् । अभ्यासस्य भेदकत्वं पूर्वतन्त्रेस्ति । एवकारेण प्रकृत- च्छेदयोगव्यवच्छेदः क्रियते । तत्प्रतीति । ब्रह्मणः 'योन्तर्हृदयआकाशस्तस्मिञ्छेते' इति श्रुत्युक्तस्य प्रतिषेधसिद्धेः । ननु नञाभावात्कुतस्तत्प्रतिषेधसिद्धिः, अत उक्तं अर्थादिति । आक्षेपात् । ननु किमर्थं नञार्थप्रतिषेधाक्षेप इत्यतो युक्तिमाहुः अन्यथेति । तद्वैय्यर्थ्यप्रसङ्गस्याभ्यासिकभेदवैय्यर्थ्य- प्रसङ्गस्य । तथाचाभ्यासिकभेदवैय्यर्थ्यप्रसङ्गन्निवारणार्थमित्यर्थः । सुषुप्तापेति । 'सुखमहमस्वाप्सं न किञ्चिदवेदिष'मिति स्मरणे । कदाचिच्चेति । सुखसहचरितदुःखाभावकालो यदि । चिन्नद्यर्थकम् । मनस इति । कामरूपवृत्तिमतो मनसः । करणाभावेनेति । 'यथा शयानः पुरुषो मनसैवात्म- मायया । सृष्ट्वा लोकं परं स्वाप्नमनुविश्यावभासत' इत्युक्तश्रीभागवतवाक्यात् । तदप्रसङ्गात् प्रप- ञ्चदर्शनाप्रसङ्गात् । अपीति । पूर्वं सुषुप्तौ प्रपञ्चसतार्थं सत्सम्पत्तिः स्वाप्ययसम्पत्तिसूत्रोपन्यासे- नोक्ता । तथाच सत्सम्पत्तिश्रुत्युपन्यासो विषयश्रुत्युपन्यासे समाप्तपुनरात्तत्वदोषग्रस्त इति भावः । एवेति । नाडीषुपदस्य चशब्दस्य चोपादानादेवकारः । द्वैतदर्शनेति । तथाच भाष्यं 'नाडीषु सुप्तो भवती'त्युक्त्वा 'तन्न कश्चन पाप्मा स्पृशती'ति । ब्रह्मसम्पत्तिश्च पाप्मसंसर्गाभावे हेतुः समधि- गतः । 'सर्वे पाप्मानो निवर्तन्ते अपहतपाप्मा ह्येष ब्रह्मलोक' इत्यादिश्रुतिभ्यः । ब्रह्मसम्पत्त्या द्वैतदर्शना- भावोपि । पाप्मसंसर्गाभावोपि विवृतः । स्वप्नदर्शनसुषुप्तिद्वयविवेकमाहुः तेनैतदिति । प्रान्तभाग इति । 'ताभिः प्रत्यवसृप्य पुरीतति शेत' इति श्रुतेः । पुरीतन्निकट इति । तेन 'पुरीतति शेते' इत्यत्र सामीप्ये सप्तम्युक्ता । सति सम्पत्तिरिति । 'आत्मनि चे'त्युक्ता सुषुप्तिरपीयम् । कथमिति । शाङ्करप्रश्नः । श्रुतीनां विरोधे विकल्प इति मन्वङ्गीकारात्तत्समादधतिस्म विकल्पे हीति । 'नाडीषु सुप्तो भवतीति,' 'पुरीतति शेते,' 'य एषोन्तर्हृदय आकाशस्तस्मिञ्छेते' इति । 'एतदेकवाक्यतापन्ने नाडी- परिवर्तन' इत्याद्युक्ते वाक्ये । विकल्पे हि अष्टौ दोषाः । 'तस्मादात्मैव सुषुप्तिस्थान'मिति शाङ्करभाष्ये समुच्चयोज्झीकृतः, तत्र नैकोपीति तान् गणयन्तिस्मानुवादरूपात् । प्राप्तेति । 'इषेत्वेति शाखां छिनत्ती'- त्यनेन क्षशयन्नस प्राप्तत्वात् । शाखा क्षशय्येति व्याख्यानात् । अप्राप्तेति । वैदिकत्वेनाप्राप्तमप्रामाण्यं तस्य स्वीकारः । परित्यक्तेति । अर्थबोधार्थं तया । गौणं प्रामाण्यम् । स्वीकृतेति । तदर्थमेव १. सबिस्वत्र रश्मौ सतीति पाठः । २. मीमांसक । 1630

यहाँ प्रस्तुत पृष्ठ का देवनागरी में पंक्ति-दर-पंक्ति लिप्यन्तरण दिया गया है:

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ९५ नाम नाड्यः', 'तद्वा अस्यैतदात्मकाम' मिति भेदेन । सुषुप्तिस्तृभयत्र । ज्ञानशक्तेः सर्वथा तिरोधानात् । तस्मात् सुषुप्तौ न प्रपञ्चसृष्टिः ॥ ७ ॥ इति तृतीयाध्याये द्वितीयपादे द्वितीयं तदभावो नाडीष्वित्यधिकरणम् ॥ २ ॥ अतः प्रबोधोऽस्मात् ॥ ८ ॥ ( ३-२-३ ) प्रबोधे सन्देहः । 'प्रतियोन्याद्रवति बुद्धान्तायैवे'ति जीवसमानधर्मब्रह्म- भाष्यप्रकाशः। ब्रह्मवाक्यकोटौ दोषचतुष्टयम् । एवं नाडीवाक्यकोटौ दोषचतुष्टये व्रीहियववाक्यद्वयोजितेऽष्टौ दोषा इति हि भवतां मतम् । तत्र प्रामाण्याप्रामाण्ययोः स्वरूपं विचारणीयम् । किं सदर्थबोधकत्वं प्रामाण्यम्, असदर्थबोधकत्वमप्रामाण्यम्, उत बोधकत्वं प्रामाण्यम्, अबोधकत्वमप्रामाण्यम्, अथवा अनुष्ठापकत्वं प्रामाण्यम्, अननुष्ठापकत्वमप्रामाण्यमिति । तत्र नाद्येन । वाक्यद्वयेनापि सदर्थबोधस्य जायमानतया तत्यागास्याभावेनासदर्धबोधकत्वस्य काप्यनङ्गीकारेण तत्कृतदोषाणा- मत्राभावात् । अत एव न द्वितीयेन । नापि तृतीयेन । वाक्यद्वयस्यापि सिद्धार्थपरतया अनुष्ठाप- कत्वस्याभावेन त्याज्यत्वस्य तत्रायोगात् । अननुष्ठापकत्वस्य सर्वसम्मतत्वेन विकल्पानङ्गीकर्तृमतेपि तुल्यतया तत्र पर्यनुयोगानवकाशात् । तस्मात् पूर्वोक्तमनवद्यम् ॥७॥ इति द्वितीयं तदभावो नाडीष्वित्यधिकरणम् ॥ २ ॥ अतः प्रबोधोऽस्मात् ॥ ८ ॥ अधिकरणप्रयोजनमाहुः प्रबोधे सन्देह इति । तथाच तन्निरासायेदमधिकरणमित्यर्थः । विषयवाक्यमाहुः प्रतियोनीत्यादि । इदं बृहदारण्यकीयज्योतिर्ब्राह्मणस्थम् । 'स वा एष एतस्मिन् सम्प्रसादे रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तायैवे'ति । अर्थस्तु, स प्रकृतो जीवात्मा रश्मिः। वेदान्ताधिकरणमालायां तु 'यदा जीवो नाडीषु शेते, तदा पुरीत्तद्ब्रह्मवाक्ययोः प्राप्तं प्रामाण्यं परित्यक्तं स्यात् । अप्राप्तं प्रामाण्यं चाङ्गीक्रियेत । यदा पुनः पुरीत्तद्ब्रह्मणोः शेते, तदा पुरीत्तद्ब्रह्मवाक्ययोः पूर्वत्यक्तं प्रामाण्यं स्वीक्रियेत । पूर्वस्वीकृतं चाप्रामाण्यं परित्यज्येतेति प्राप्तपरित्यागोऽप्राप्तस्वीकारस्त्यक्त- स्वीकारः स्वीकृतत्यागश्चेति दोषचतुष्टयं पुरीत्तद्ब्रह्मवाक्यकोटौ । तथा नाडीवाक्यकोट्यामपि दोषचतुष्टये योजिते सत्यष्टौ दोषाः सम्पद्यन्त' इति । एवमिति । ब्रह्मवाक्योक्तप्रकारेण । व्रीहीति । एकपुरोडा- शार्थत्वं व्रीहियवयोर्दृष्टम्, तद्वाक्ये तु 'व्रीहिभिर्यजेत यवैर्यजेते'ति च । तद्वत्सुषुप्त्यर्थत्वं ब्रह्मवाक्यनाडी- वाक्ययोरिति ब्रह्मवाक्य इव नाडीवाक्ये दोषचतुष्टये योजिते भवतां शाङ्कराणां मतम् । अत्र वितण्डा- माहुः सदर्थेति । प्रमाकरणं सदर्थबोधकं तत्त्वं प्रामाण्यमित्यर्थः । बोधकत्वमिति । अनधिगतार्थ- गन्तृत्वम् । वाक्यद्वयेनेति । विकल्पसङ्ग्राहकेण 'तासां प्रान्तभागे'त्याद्युक्तेन समुच्चयकसङ्ग्राहकेण । 'तस्मादात्मैव सुषुप्तिस्थान'मिति शङ्करभाष्यवाक्येन च । कापीति । प्रमाणलक्षणत्वेनोक्तव्याख्या- कत्वेन च क्वापि । अत्रेति । प्रामाणिकविकल्पे । अतएव काप्यनङ्गीकारादेव । सिद्धार्थेति । नतु साध्यार्थामिष्टोमवत्साध्यार्थपरतया । तत्रेति । अनुष्ठापकत्वाभावे । तत्रेति । विकल्पे । 'यत्रोभयोः समो दोषः परिहारश्च तत्समः । नैकः पर्यनुयोक्तव्यस्तादृगर्थविचारण' इत्युक्तेः ॥ ७ ॥ इति द्वितीयं तद्भावो नाडीष्वित्यधिकरणम् ॥ २ ॥ अतः प्रबोधोऽस्मात् ॥ ८ ॥ प्रतियोनीत्यादीति । जीवसमानधर्मं ब्रह्म तस्य प्रकरणे । 1631