अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 177, कुल 2600 में से
संदर्भ में पढ़ें९० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १ भाष्यप्रकाशः। तस्मान्न विचार्यमिति पूर्वपक्षमुक्त्वा, विचारयोग्यं ब्रह्म, 'अयमात्मा ब्रह्म' इति श्रुत्याऽहंकारबद्धस्य संसारिण आत्मनो ब्रह्मत्वाभिधानादेव संदेहसंभवात् । निरस्तसमस्तप्रपञ्चकलङ्कस्य निरतिशयज्ञाना- नन्दादिशक्तिमहिमतिशयवत्त्वं हि ब्रह्मत्वम्, अनाद्यज्ञानवासनावष्टम्भविवृम्भितविचित्रकर्मफल- भोगानुगुणबहुशरीरप्रवेशनिर्गमव्यापारपरवशनिःसीमतापसहिष्णुत्वं जीवत्वमिति तयोर्लक्षणेनेतरे- तरभेदनिश्चये तयोरैक्यदार्ढ्याऽस्फूर्तेः । किंच । अन्नं ब्रह्म, मनो ब्रह्म, विज्ञानं ब्रह्म, आदित्यो ब्रह्म, नारायणं परं ब्रह्म इत्यादयोऽन्यमन्यमर्थं ब्रह्म इत्याहुः । तत्र किं ब्रह्मेत्येवं संदेहादपि विचारार्हं ब्रह्म । नचापरिच्छिन्नत्वाद् ब्रह्मणस्तद्विषयं ज्ञानं न संभवतीति शङ्क्यम् । ईदृगिदमिति ब्रह्मणः परिच्छेदासम्भवेऽपि लक्षणमुखेनेतरव्यावृत्ततामात्रेण परिच्छेदसंभवात् लक्षणेन परिच्छेदो हि सर्वत्र लक्ष्यविषयकेतरव्यावृत्तताज्ञानरूप एव दृष्ट इत्यदुष्टः । अत उपदिष्टस्य ब्रह्मणो लक्षणे वेदा- न्तवाक्यैर्निरूपिते परीक्षते च सति तल्लक्षणशून्येभ्यः सजातीयविजातीयेभ्यः सर्वेभ्यो व्यावृत्तं ब्रह्म विज्ञायत इति तदर्थं युक्तः शास्त्रारम्भ इत्याह । एतन्मतेऽपि तेषां वाक्यानां विरोधः पूर्ववदेव । जीवलक्षणं तु जीवप्रकरणे दूषयिष्यामः । किंच । 'ज्ञात्वा शिवं शान्तिमत्यन्तमेति,' 'ईशं तं ज्ञात्वा अमृता भवन्ति,' 'तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमीशम्,' 'आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् । ध्याननिर्मथनादेव पाशं दहति पण्डितः' ॥ 'ज्ञात्वा देवं मुच्यते सर्वपाशैः' इतिश्रुत्युक्तमोक्षप्राप्तिलिङ्गेन शिवस्य परब्रह्मत्वं यत्तेनोपगतं, तदप्यसंगतम् । 'ब्रह्मविदाप्नोति परम्' इति तदुपन्यस्ते फलवाक्ये, नारायणं परं ब्रह्मेति श्रुत्यु- क्तनारायणरूपग्रहणस्यैव युक्तत्वात् । उभयत्रापि परब्रह्मपदोपबन्धसाम्यात् । लिङ्गापेक्षया रश्मिः। मेति नान्यः पन्था अयनाय विद्यते' 'पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति' इति वाक्येष्वित्यर्थः । अहंकारबद्धस्येत्यादि अयमित्यस्य तात्पर्यकथनमिदम् । निरस्तसमस्तेति आकाराभिधानमिदम् । अनादीति अनादिरज्ञानवासना सैवावष्टम्भः प्रारम्भः तेन विजृम्भितं उज्जृम्भितं चेष्टितमुत्फलं वा यद्विचित्रकर्मफलं तस्य भोगः साक्षात्कारः तस्यानुगुणानि बहूनि शरीराणि तेषु प्रवेशनिर्गमौ तावेव व्यापारौ ताभ्यां परवशस्य निःसीमतापः निरवधितापः तस्य सहिष्णुत्वम् । लक्ष्यविषयकेत्यादि । यथाकाशमितरव्यावृत्तमित्याकाशलक्षणेन ज्ञायते इति परिच्छेदो हीतर- व्यावृत्तताप्रकारक लक्ष्यविषयकज्ञानरूप एवेति । जीवप्रकरण इति द्वितीयाध्याये तृतीयपाद इत्यर्थः । आत्मानमित्यादि मनसि प्रणवस्य भावनं देवं ज्ञात्वा मुच्यत इति फलितोर्थः । मोक्षप्रा- प्तीत्यादि । यदि शिवः परं ब्रह्म न स्यात्तर्हि तज्ज्ञानेन मोक्षो न स्यादिति मोक्षप्राप्तेर्लिङ्गं सामर्थ्यं तेनेत्यर्थः । नारायणमित्यादि नारा आपस्ता एवायनं यस्येति जलशायिनमित्यर्थः । दृष्टं यथा- वर्षजलशायिसूर्यमण्डलस्थं ब्रह्म यथा वा वर्षजलशायिमेघो१ गर्जति तथा ब्रह्म । अत उक्तं युक्तत्वा- दिति । हेत्वन्तरमाहुः उभयत्रेत्यादि । ननु लिङ्गस्य का गतिरत्राहः लिङ्गापेक्षयेत्यादि । १. विद्युतः । 90