भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 178, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 178

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ९१ भाष्यप्रकाशः। श्रुतेर्बलिष्ठत्वात् । 'ऋतं सत्यं परं ब्रह्म' इतिवाक्यस्यापि संदिग्धत्वात् । शिवेशादिपदानां च भगवद्वाचकत्वमेवेत्यादिकमस्माभिः प्रहस्ते निपुणतरमुपपादितम् । पुनरग्रेऽपि तत्र तत्रोपपादयिष्यते । माध्वास्तु शास्त्रे प्रवर्तनीया ब्रह्मजिज्ञासा विषयः, कर्तव्या न वेति संदेहः । तत्र प्रमाणा- भावेन जीवव्यतिरिक्तस्य ब्रह्मणोऽभावाज्जीवस्य स्वप्रकाशत्वादहंवित्तौ प्रकाशमानन्वात् तस्यापि ज्ञायमानत्वेनानुभवान्तरान्वेषणेऽनवस्थाप्रसङ्गात् क्वचित् विश्रान्त्यङ्गीकारे आत्मन्येव तथात्वौचि- त्यात् । न च स्वप्रकाशसंविदाश्रयतयाऽऽत्मा भासत इति युक्तम् । औत्तरिकानुस्मृतिसिद्धसौषुप्तिका- नुभवाभावप्रसङ्गात् । तत्र संविदाश्रयत्वेनात्मप्रतीतेरभावात् । अतः स्वप्रकाशात्मानतिरिक्तस्य ब्रह्मणः संदिग्धत्वाभावेनाविषयतया नजिज्ञासाया अपि तथात्वान्न कर्तव्येति पूर्वः पक्षः । सिद्धान्तस्तु, भवेदेतदेवं, यदि स्वप्रकाशजीवाभिन्नं ब्रह्म स्यान् । न त्वेवम् । जिज्ञास्ये ब्रह्मपदप्रयोगात्, तद्वि- जिज्ञासस्व, तद् ब्रह्मेति ब्रह्मशब्दस्य गुणपूर्णतां वक्ति । 'अथ कस्मादुच्यते ब्रह्मेति, बृहन्तो ह्यस्मिन् गुणाः' इति श्रुतेः । तथाच कथं तस्य जीवाभेदः । जीवस्याल्पगुणत्वेनानुभवात् । न च ब्रह्मणि गुणाध्यासः । परमार्थतोऽब्रह्मत्वप्रसङ्गात् । न च देशाद्यपरिच्छिन्नत्वं ब्रह्मत्वम्, उक्तश्रुतिविरोधात् । देशाद्यपरिच्छेदेनापि जीवभेदसिद्धेः । जीवाणुत्वस्य वक्ष्यमाणत्वात् । जीवस्य स्वप्रकाशत्वेपि तद्भिन्नब्रह्मणः संदिग्धत्वाद्विषयत्वम् । अतस्तज्जिज्ञासा कर्तव्येत्याहुः । ब्रह्मशब्दश्च विष्णावेव रूढः । 'यमन्तःसमुद्रे कवयोऽवयन्ति, यदक्षरे परमे प्रजाः, यतः प्रसूता जगतः प्रसूती तोयेन जीवान् व्यचसर्ज भूम्याम्' इत्युक्त्वा, 'तदेवान्तं तदु सत्यमाहुस्तदेव ब्रह्म परमं कवीनाम्' इति श्रुतौ समुद्रान्तःस्थत्वलिङ्गिते जगत्कर्तरि परब्रह्मत्वविधानात् । 'यो देवानां नामधा एक एव' इति श्रुतावेवकारेणैकस्य सर्वनामधारकत्वमुक्तवाऽग्रे, 'अजस्य नाभावध्येकमर्पितं यस्मिन् विश्वानि भुवनानि तस्थुः' इति विश्वाधारपद्मस्य नाभ्यर्पितत्वश्रवणात् । रश्मिः । बलिष्ठत्वादिति । एतच्च तृतीयस्य तृतीयपादे 'श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पार- दौर्बल्यमर्थविप्रकर्षात्' इत्यधिकरणे चिन्तितम् । 'ऐन्द्र्या गार्हपत्यमुपतिष्ठते' इत्युदाहरणम् । ननु परब्रह्म- पदोपनिबन्धः शिवपरेपि वाच्ये दृश्यत इत्यत आहुः ऋतं सत्यमिति । कथं तर्हि ज्ञात्वा शिवमिस्यादि तत्राहुः शिवेशेत्यादीत्यादि । द्वितीये वादे वस्तुतः सर्वेषां शब्दानां सर्वार्थत्वस्य महाभाष्याद्यभि- मतत्वेन ब्रह्मवाचकत्वस्यैवाभिप्रेतत्वात् । प्रतिनियतावन्मात्रकार्यकरणेन भगवदनुकारितया व्यवहारा- र्थमेव शक्तिसंकोचेन शिवादिषु रुद्रवाचकत्वदर्शनेपि ब्रह्मवाचकत्वस्यापर्यवस्येयत्वात् । इत्येवं निपुण- तरमुपपादितमित्यर्थः । महाभाष्ये पस्पशाह्निके । आदिपदोक्ते वाक्यपदीये तु 'संबन्धिभेदात्सत्तैव भिद्यमाना गवादिषु । जातिरित्युच्यते तस्यां सर्वे शब्दा व्यवस्थिताः ॥ तां प्रातिपदिकार्थं च धात्वर्थं च प्रचक्षते । सा नित्या सा महानात्मा तामाहुस्त्वतलादयः' ॥ इति स्फुटम् । इति तट्टीकायाम् । माध्वास्त्विति एते भेदवादिनः । नन्वहंवित्तौ विषयत्वेन प्रकाशमानस्य कथं स्वप्रकाशत्वं तत्राहुः तस्यापीत्यादि । तथात्वौचित्यादिति स्वप्रकाशत्वौचित्यादित्यर्थः । औत्तरिकेत्यादि सुषुप्त्योत्तरिकेत्यर्थः । तादृशानुस्मृतिः न किंचिदवेदिषमित्याकारिका तया कार्यभूतया सिद्धो यः कारणात्मा । 'सुखमहमस्वाप्सम्' इत्याकारकः सौषुप्तिकानुभवः तस्याभावप्रसङ्गात् । तत्रेति सुखमह- मस्वाप्सं न किंचिदवेदिषमित्यौत्तरिकानुस्मृतावित्यर्थः । तथात्वादिति अविषयत्वादित्यर्थः । 91