भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1790, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1790

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १२३ बन्धनादिषु प्रत्यक्षमेवोभयसाधकं दृष्टमिति । 'अथो अमुष्यैव ममार्मकस्ये'ति च । तस्माच्छ्रुतिस्मृतिप्रत्यक्षैः सर्वविरुद्धधर्माश्रयत्वेन ब्रह्मप्रतीतेर्न विरोधः ॥ २१ ॥ भाष्यप्रकाशः । केवलब्रह्मबोधकश्रुतिषु तत्तद्धर्मदर्शनात् प्रत्यक्षेणापि भानात् स्मृतावपि सिद्धत्वात् ब्रह्म एवम्, यथा प्रतीयते तादृशम् । तत्र हेतुरुभयसामञ्जस्यमेव । तदेतत् हृदिकृत्य सूत्रोक्तं दर्शनं विवृण्वन्ति भगवतीत्यादि । तथाच वैश्वानरविद्यायां प्रादेशमात्रत्वाभिविमानत्वं द्युमूर्धत्वादिकं पुरुषत्वं पुरुषविधत्वं पुरुषेऽन्तःप्रतिष्ठितत्वम् । तैत्तिरीये 'यदेकमव्यक्तमनन्तरूपं विश्वं पुराणं तमसः परस्ता'दित्येकस्याव्यक्तस्यानन्तरूपत्वम् । एवं श्रुत्यन्तरेऽपि 'आसीनो दूरं व्रजती'त्यादीनि दृश्यन्ते । एवं मिथिलागमने श्रुतदेवजनकयोर्गृहे एककालावच्छेदेन प्रवेशादिकं स्मृतिसिद्धं दृश्यते । अवतारदशायां गोवर्धनोद्धरणादिकमवस्थासाधनविरुद्धं कार्यं च दृश्यते । तत्र प्रत्यक्ष- श्रुतिसिद्धे सर्वजनीनदर्शनसिद्धे तादृक्स्मृतिसिद्धे च ब्रह्मणो विरुद्धधर्माश्रयत्वेऽनुपपत्तेर्वक्तुम- शक्यत्वाद्वस्तुस्वभावमेवादाय दर्शनेच्छानुग्रहादिहेतुकत्वं चादाय तादृशनिश्चयस्य प्रामाणिकत्व- मवगन्तव्यमित्यर्थः । उभयसाधकमिति । स्वल्पत्वमहत्त्वयोः साधकम् । तत्र बहूनां दाम्नां सन्धानेपि न स्वरूपवेष्टकत्वम्, स्वरूपस्य च न प्रथमपरिमाणादाधिक्यम्, अन्यथा विस्मया- नापत्तेः । मृल्लाभक्षणव्यादानस्थले च स्पष्टमेव तथात्वम् । 'एवं विदिततत्त्वाया' इति तत्र कथनात् । मायामोहस्य तदुत्तरं कथनाच्चेति । तेन सिद्धमाहुः तस्मादित्यादि । वैश्वानरेऽर्थ- रश्मिः । इत्यर्थः । च दर्शनादिति सूत्रयोजनामाहुः तथा चेति । तत्तद्धर्मेति । सत्यत्वज्ञानत्वादिकधर्म- दर्शनात् । स्मृताविति । 'अथो अमुष्यैव ममार्मकस्य यः कश्चनौत्पत्तिक आत्मयोग' इतिस्मृतौ । तेन चकारात्सप्तम्या लुक् । एवं चकारार्थेषु मध्ये श्रुतिषु दर्शनादिति सूत्रं व्याख्यातं पञ्चम्यन्तेन । प्रत्यक्षे- णेति । उलूखलबन्धनादिषु प्रत्यक्षेण । बुद्धिस्थद्वितीयचकारार्थेन समं सूत्रार्थः । बुद्धिस्थतृतीयचकारार्थेन समं सूत्रार्थमाहुः स्मृतावपीति । भानेन सिद्धत्वात् भानात् । एवं सूत्रार्थमुक्त्वाऽनुवृत्तपदाना मर्थमाहुः ब्रह्म एवमिति । एवंशब्दार्थः यथेत्यादिः । न विरोधः । उभयेति । पञ्चम्यन्तमितिविशेषणं बोध्यम् । एवेति । अयं दर्शनादितिहेतुयोगव्यवच्छेदकः । तस्यानुवृत्तपदेन्वयो न सकलसूत्रेऽहेतुत्वात् । नापि पूर्वहेतुसमुच्चयेन हेतुत्वम् । अन्यचकारार्थोक्तेः । वैश्वानरेति । इयं प्रथमाध्याये 'वैश्वानरः साधारण- शब्दविशेषा'दित्यत्र समर्थिता । प्रवेशादिकमिति । आदिशब्देन स्थित्यादिकम् । दशमस्कन्धे स्पष्टम् । अवस्थेति । सप्तवार्षिकी । साधनं गोवर्धनोद्धरणम् । तदुभयविरुद्धं कार्यं गोष्ठरक्षणम् । एतावता दृश्यन्त इति भाष्यार्थ उक्तः । नहीत्यादिभाष्यार्थमाहुः तन्न प्रत्यक्षेति । प्रत्यक्षा श्रुतिः प्रत्यक्षश्रुतिः । तत्सिद्धे विषये सति सार्वजनीनप्रत्यक्षसिद्धे विषये सति । तादृगित्याद्यावप्येवम् । अनुपपत्तेर्विरुद्धधर्म- रूपानुपपन्नपदार्थनिष्ठाया वक्तुमशक्यत्वाद्दृष्टे दर्शनविषये सति हि निश्चयेन नानुपपन्नं विरुद्धधर्मादि नाम । व्याघातात् । चक्षुरादौ प्रामाण्यहिंसनात् । स स्वभाव इव दृश्यते इति तादृशं ब्रह्मरूपनिश्चय- रूपवस्तुस्वभावम् । एवेत्यन्ययोगव्यवच्छेदकः । तादृशेति । 'इति त्वव्यवसायः प्रामाणिक' इति भाष्यार्थः । भाष्ये । चकारादिति । बुद्धिस्थसमुच्चायकात् । भाष्यप्रकाशोक्तार्थकात् । आदिशब्देन मृत्स्नाभक्षणविश्वरूपदर्शने । प्रत्यक्षमेवेति । सूत्रोक्तत्वात्प्रत्यक्षम् । एवकारेण श्रुतिस्मृतिरूपान्य- योगव्यवच्छेदकेनोभयसाधकम् । प्रकृते । स्पष्टमेवेति । अस्पष्टत्वयोग्यव्यवच्छेदक एवेति । विरुद्ध- धर्माश्रयत्वं तथात्वमित्यर्थः । विरुद्धधर्माश्रयत्वं तत्त्वमिति वाक्येनाहुः एवं विदितेति । तत्र प्रमाणमाहुरित्यप्याभासः । कथनादिति । 'वैष्णवी व्यतनोन्माया'मित्येवम् । प्रत्यक्षमेवेति भाष्येण 1669