अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1791, कुल 2600 में से
संदर्भ में पढ़ें१६४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ६ सू० २२] प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॥ २२ ॥ परमार्थतो विरोधं परिहृत्य युक्त्यापि प्रतिषेधति । ननु सर्वविशेषधर्माणा- मस्थूलादिवाक्यैर्निषेधात् कथमविरोधः प्रत्येय इति चेत् । तत्राह । प्रकृतैता- वत्त्वं हि प्रतिषेधति । प्रकृते यदेतावत् परिदृश्यमाना यावन्तः पदार्था लौकिकाः, भाष्यप्रकाशः । क्रमस्य बलीयस्त्वमुपगम्य विरोधस्य परिहर्तुं शक्यत्वेपि काठके तथा वक्तुमशक्यत्वात् । उलूखलबन्धने स्वल्पस्य यत्तावस्तु दामत्वमानं तस्य स्वरूपधर्मत्वे, मतान्तरेण शरीरधर्मत्वे वा तदाधारस्य विरुद्धधर्माश्रयतायाः प्रत्यक्षसिद्धतया स्मृतिसिद्धतया चापहोतुमशक्यत्वेन अभिन्ननि- मित्तोपादानत्वोपगमेन च विरुद्धधर्माश्रयत्वस्य प्रामाणिकत्वाच्छ्रुत्यादिभिस्तथात्वेन ब्रह्मप्रतीतेर्न विरोध इति प्रकृतानां सर्वकामत्वादीनामप्यौपचारिकत्वकल्पनं नैमित्तिकत्वेनानित्यत्वोद्भावनं चाप्रयोजकमित्यर्थः । एवमेताभ्यां सूत्राभ्यां 'अत एव चोपमे'तिमूत्रोक्तं सर्वं प्रत्युक्तं ज्ञेयम् ॥२१॥ प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॥ २२ ॥ सूत्रमवतारयन्ति परमार्थत इत्यादि । परमार्थत इति । वस्तुविचारात् । एवं सर्वैः प्रकारैः परिहृतेपि विरोधे पुनर्मुत्तया परिहारस्य किं प्रयोजनमित्याकाङ्क्षायां वस्तुनस्तादृक्स्वभावत्वममन्वानं प्रति युक्तिरवश्यं वक्तव्येत्यतः सूत्रांशमवतारयन्ति नन्वित्यादि । तथाच पूर्वसूत्रोक्तदर्शनस्य अवतीर्णं स्वेच्छया रश्मिः । सौत्रदर्शनस्य मुख्यत्वं श्रुतिस्मृत्योर्व्यवच्छेदेनोक्तं तयोरन्वयमत्र भाष्य उक्तं तत्स्पष्टयन्तिस्म वैश्वानर इति । प्रादेशमात्रेभिविमाने औपाधिकेऽभिविमानत्वासंभवादार्थक्रमेणाभिविमाने इति वक्तव्ये अर्थक्रमस्य बलीयस्त्वमुपगम्येत्यर्थः । काठक इति । 'आश्चर्यो वक्ता कुशलोऽस्य लब्धा, आश्चर्योस्य ज्ञाता कुशलोऽनुशिष्ट' इत्यत्राश्चर्ये वक्तव्ये औपाधिकोप्यभिविमान इत्यर्थक्रमेण तथा नामविरोधपरिहारस्य वक्तुमशक्यत्वात् । तस्येति । अमानस्य । मतान्तरेणेति । पुराणमतेन मायारूपशरीरधर्मत्वे वा । स्मृतेर्मुख्ये दर्शने उपष्टम्भकतयान्वयमाहुः स्मृतिसिद्धेति । प्रत्यक्षमुपष्टब्धमिति सप्रमाणम्, न तु शुक्तिरजतप्रत्यक्षवदप्रमाणमित्युक्तम् । अभिन्नेति । समन्वयाधिकरणेप्युपगमः । अत्र श्रुतेरन्वय- माहुः श्रुत्यादिभिरिति । श्रुतिस्मृतिप्रत्यक्षैः । तथात्वेन विरुद्धधर्माधारत्वेन । ब्रह्मप्रतीतेरिति । ब्रह्मदर्शनात् । अत्र श्रुत्यादिभिरित्यन्तेन श्रुतिस्मृतिप्रत्यक्षैरितिचकारार्थभाष्यर्थ उक्तः । तथात्वेने- त्यनेनानुवृत्तोभयसामञ्जस्यं पञ्चम्यन्तं तस्यार्थः सर्वविरुद्धधर्माश्रयत्वेनेति शक्यतावच्छेदक उक्तः । ब्रह्मप्रतीतेरित्यनेनावृत्तब्रह्मपदार्थः सौत्रदर्शनादितिपदार्थ उक्तः । न विरोध इत्यनेनावृत्तैवंशब्दार्थ उक्तः । नैमित्तिकत्वेनेति । जानातीच्छति यतत इति प्रवादात् निमित्तं ज्ञानं तत्सम्बन्धिविशेषत्वे च । अत एव चोपमेति । 'तस्माज्जडजीवधर्माणां भगवत्युपचारः, निषेधस्तु मुख्य' इति भाष्येण संगृहीतम् । प्रत्युक्तमिति । सर्वकामत्वादीनामौपचारिकत्वकल्पनस्यानित्यत्वोद्भावनस्य चाप्रयोजक- त्वोक्त्या प्रत्युक्तमित्यर्थः ॥ २१ ॥ प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॥ २२ ॥ निश्चिते इति । स्वाभाविकानां निषेधायोगात् । कथमिति । कथमविरोधः प्रत्येय इत्यर्थः । भाष्ये । प्रतीतस्यै- १. तथा च सर्वविशेषनिषेधेन तादृक्स्वभावाभावे निश्चिते कथं तथेत्यर्थः इति मूले पाठः । 1670