अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1793, कुल 2600 में से
संदर्भ में पढ़ें११५ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ६ सू० २२. हीति । सर्वत्र लौकिकं प्रतिषेधति, अलौकिकं विधत्ते इति युक्त्या निर्णयः । तस्मात् युक्त्याप्यविरोधः ॥ २२ ॥ इति तृतीयाध्याये द्वितीयपादे षष्ठमम्बुवदग्रहणादित्यधिकरणम् ॥ ६ ॥ भाष्यप्रकाशः । व्यक्तिभेदेन षोडशिग्रहणाग्रहणवन्नित्य एकस्मिन् ब्रह्मणि ज्ञेयत्वाज्ञेयत्वप्रशासितृत्वप्रशासितृत्वादीनां विकल्पस्याशक्यवचनतया वाक्यस्याबोधकतायां तन्निवृत्त्यर्थं लौकिकं निषेधति, अलौकिकं तं धर्मं विधत्ते इति व्यवस्था मन्तव्या। स्थूलत्वादीनां लौकिकानामेव निषेधदर्शनात् । ईदृशप्रशासितृत्वादी- नामलौकिकानामेव विधानदर्शनात् । अतो ये वस्तुस्वभावतो विरुद्धधर्माश्रयत्वं न मन्वते, तान् प्रत्येवं लौकिकालौकिकविभागरूपया युक्त्या निर्णयः । तेन श्रुत्या बोध्यमाना ये सर्वकामत्वाद- यः, तेऽप्यलौकिका एव। मन्दधियामविचारकाणां परं नामतौल्येन भ्रमः। नचानाप्तकामत्वापत्तिः। अमिश्रारूपत्वेन, स्वयमेव तत्पूर्तिकरणेन चादोषात् । एतेन जीवतुल्यतापत्तिरपि परिहृता बोध्या । तस्माच्छ्रुत्यक्षराण्याननुसन्दधानानां बोधार्थं युक्त्याप्यविरोध आचार्येणोक्त इत्यर्थः । एतेनैव यावद्धर्मशून्यत्वं ब्रह्मणो वदन्तोपि प्रत्युक्ता वेदितव्याः । अन्ये त्वस्मिन् सूत्रे 'द्वे वा व ब्रह्मण' इति वाक्यं विषयत्वेनाहुः । तदर्थं विद्वन्मण्डने एतद्वाक्यार्थोपि विचारितः । तथाहि । 'नेति नेती'त्यत्र इतिशब्दः प्रकारवाची । तथाच पूर्वं मूर्त्तामूर्त्तब्रह्मणो विभूतिरूपं 'य एवं वेदे'त्यन्तेन निरूप्य यत्सैतद्रूपद्वयं पूर्वमेव षष्ठ्यन्तेन पदेन निरूपितमेदस्य तन्निभिरूप्यमाणेष्वपि सर्वतःपाणिपादान्तत्वादिक्ष्वेवं लौकिकत्वेन वेदनं मा भूदिति भिन्नप्रक्रमेणैतत्प्रकारकं वेदनं ब्रह्मणो निषेधति 'अथात' इत्यादिना । अयमर्थः । ब्रह्मण्यपि मूर्त्तामूर्त्तरूपे सर्वतःपाणिपादान्तेत्यादिश्रुत्युक्ते वेदितव्ये । परन्त्वित्यनेन प्रकारेण न वेदितव्ये ब्रह्मग एते रूपे इति, किन्तु ब्रह्मैवेति वेदितव्ये इत्यर्थः । अत्र विनिगमकमाह सूत्रकारः 'ततो ब्रवीति च भूय' इति । शेषं स्फुटम् । यत्तु प्रकृतशब्देन 'द्वे वा व ब्रह्मण' इत्यादिनोक्तं मूर्तामूर्तलक्षणं रूपद्वयं परामृश्यत इति मतम्, तत्र प्रकृतत्वं प्रतिषेधतीत्येतावत्तैव चारितार्थ्ये सत्येतावत्पदं व्यर्थम् । नच प्रकृतस्य ब्रह्मणः प्रकृते वा ब्रह्मणि एतावत्त्वं प्रतिषेधतीति व्याख्यानान्न दोष इति वाच्यम् । तथा सति 'ततो ब्रवीति च भूय' इत्यस्य वैयर्थ्यापातात् । प्रकृतपदेनैव ब्रह्मप्रमितौ तदभावशङ्कानुदयेन तत्सत्चायां मानाकाङ्क्षार्थं तत्कथनप्रयोजनाभावात् । तस्मादसदुक्त एवार्थ इति ॥ २२ ॥ इति षष्ठमम्बुवद- ग्रहणादित्यधिकरणम् ॥ ६ ॥ रश्मिः । देनेकैकेन। अतिरात्रे षोडशिनं गृह्णाति, नातिरात्रे षोडशिनं गृह्णातीति षोडशिग्रहणाग्रहणयोर्विकल्पस्येव । षष्ठ्यान्ताद्वतिः । अशक्येति । व्यक्तिभेदाभावादितिभावः । अबोधकेति । दृष्टान्ताभावान्नथा । एवेति । प्रक्षालनपङ्कन्यायेनैवकारः । विद्वन्मण्डनेयं विषयः स्पष्टः । सर्वत्रेतिभाष्यं विवृण्वन्ति स्म लौकिकं निषेधती। एवेति । नित्यानां निषेधायोगात् । एवेति । 'लौकिकं नैव मनुत' इत्याचार्यव- चसः। नित्यानित्यसंयोगापत्तेश्च । अलौकिका एवेति। एवकारार्थ उक्तः। नामेति। स्थूलसर्वकामादि- नाम्नां तौल्येनालौकिकानामवति लौकिकानामवत्त्वेन ज्ञानमितिभ्रमः । तस्मादितिभाष्यं विवृण्वन्तिस्म तस्मादिति । अनन्विति । युक्तीर्विनाननुसन्दधानानाम् । युक्त्यापीति । अपिशब्देन परमार्थतः । आचार्येण व्यासेन ॥ २२ ॥ इति षष्ठमम्बुवदग्रहणादित्यधिकरणम् ॥ ६ ॥ 1672