भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1794, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1794

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ११७ तदव्यक्तमाह हि ॥ २३ ॥ ( ३-२-७. ) शाब्दबलविचारेण विरोधं परिहृत्यार्थबलविचारेणाविरोधप्रतिपादनायाधिक- रणमारभते । सर्वाणि विरुद्धवाक्यान्युदाहृत्य चिन्त्यन्ते । 'न चक्षुषा गृह्यते' 'कश्चि- द्धीरः प्रत्यगात्मानमैक्षत्,' 'नापि वाचा' 'सर्वे वेदा यत् पदमामनन्ति' 'अप्राप्य मनसा सह' 'मनसैवैतदाप्तव्यम्,' 'अस्पर्शमगन्धमरसम्' 'सर्वरूपः सर्वगन्धः सर्वरसः', 'अपाणिपाद' इत्यादि 'विश्वतश्चक्षु'रित्यादि, 'निर्गुणञ्च' 'यः सर्वज्ञः सर्वशक्ति'रित्यादिविरुद्धवाक्यानि । न हि वस्तु द्विरूपं सम्भवति । वाक्यद्वय- मपि प्रमाणम् । तथा सति प्रमाणान्तरानुरोधेनैकस्य स्वार्थे प्रामाण्यम्, अन्यस्यो- पचरितार्थत्वमिति युक्तम् । तत्र प्रत्यक्षानुरोधेन निर्णयो विचार्यते । तत्र पूर्वपक्षमाह । तदव्यक्तम् । तत् ब्रह्म अव्यक्तमेव भवितुमर्हति । भाष्यप्रकाशः। तदव्यक्तमाह हि ॥ २३ ॥ अधिकरणप्रयोजनमाहुः शाब्दबलेत्यादि । तथाच यद्यपि स्वविचारे तस्यानावश्यकत्वम्, तथाप्यन्यैः ऋषिभिरर्थबलेन विचारस्याङ्गीकृतत्वात् तेनाविचारे तेषां निर्विशेषपक्षपातात् सविशेषश्रुतिः पीड्येत, विचारिते त्वर्थसामर्थ्ये वस्तुस्वभावादेवोभय- सम्भवाच्च श्रुतिपीड्येतस्तन्निवारणार्थं तदारभत इत्यर्थः । ननु विरुद्धवाक्येषु चिन्तितेषु किमवशिष्टं येनार्थबलाद्विरोधोत्थानमित्यत आहुः सर्वाणीत्यादि । सर्वाणीति । प्रमाणाग्राह्य- त्वतद्ग्राह्यत्वयोर्धर्मराहित्यतद्वत्त्वयोराकारराहित्यतद्वत्त्वयोर्गुणराहित्यतद्वत्त्वयोर्बोधकानि । 'सर्वरूप' इत्यनेन 'यथामाहारजनं वास' इत्यादिश्रुतिस्तद्विरुद्धा 'अरूपमव्यय'मिति श्रुतिश्च स्मार्यत इति बोध्यम् । सन्देहमाहुः न हीत्यादि । तथाच लौकिकालौकिकभेदेन व्यवस्थायां कृतायां मास्तु शब्दे संशयः, तथाप्यर्थे संशयो दुर्वार इत्यर्थः । सन्देहबीजमाहुः वाक्येत्यादि । तत्रं पूर्वपक्षमुत्थाप- यितुमापाततो निर्णयप्रकारं वदन्ति तथा सतीत्यादि, विचार्यत इत्यन्तम् । पूर्वपक्षमाहुः तत्रेत्यादि । यद्यपि पूर्वं सर्वप्रमाणापेक्षया शब्दस्यैव प्राबल्यं निर्णीतम्, तथापि शब्दस्यार्थसापेक्षत्वादर्थबलेनैव विचारो मुख्य इति श्रुत्यर्थनिश्चयानायार्थबले विचार्ये रश्मिः। तदव्यक्तमाह हि ॥ २३ ॥ तस्येति । अर्थबलविचारस्यास्मिन्भगवद्व्याससते शब्दबलसिद्धे- नावश्यकत्वम् । अन्यैरिति । अत्रैव बादरिप्रभृतिभिः । यथेति । आमाहारेण जनं जननम् । वर्णलोपः । वासः शरीरे इत्यनव्ययम् । संशय इति । चक्षुर्ग्राह्यो ग्राह्यो वेत्यादिः । सन्देहबीजमिति । प्रमाणं विकल्पोत्पादकं बीजमित्यर्थः । 'श्रुतोर्विरोधे विकल्प' इति मनुस्मरणात् । आपातत इति । अविचार आपातस्तस्मात् । एकदेशिनिर्णयप्रकारम् । पूर्वमिति । प्रथमाध्यायद्वितीयचरणे वैश्वानराधिकरणे । शाब्द- स्यैवेति । एवकारस्तु 'केवलं शब्दबलविचारका आचार्या' इति 'साक्षादप्यविरोधं जैमिनि' रितिसूत्र- भाष्यात् । शब्दस्यार्थेति । घटं दृष्ट्वा घटशब्द इति तथा । यद्यप्यर्थस्य शब्दसापेक्षत्वं 'शब्द इति चे'- दितिसूत्रात्, तथापि पूर्वपक्षग्रन्थस्यानुक्तम् । एवेति । 'अर्थबलविचारको बादरि'रिति तथा । 'केवलार्थवि- १. तत्रापाततो निर्णयप्रकारं बदन्तः पूर्वपक्षमुत्थापयन्तीति पाठः मूले। ब्र० सू० २० १८ 1673