अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1795, कुल 2600 में से
संदर्भ में पढ़ें११८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० २ अ० ७ सू० २४. कुतः । आह हि । श्रुतिप्रत्यक्षाभ्याम् । 'नेति नेत्यात्मा अग्राह्यो न हि गृह्यत' इति । 'न हि गृह्यत' इत्यनुभवसाक्षिकं प्रमाणं श्रुतिराह । न हि केनचिदपि चक्षुषा मनसा वा ब्रह्म दृष्टमस्ति । सर्वरूपत्वे तु सर्वैरेव द्रष्टुं शक्येत । तस्मात् सर्वधर्मवत्त्वेन प्रतिपादकान्युपचरितार्थान्येव । अनुभवविरोधादित्येवं प्राप्तम् ॥ २३ ॥ अपि संराधने प्रत्यक्षानुमानाभ्याम् ॥ २४ ॥ अपीति पूर्वपक्षगर्हायाम् । सर्वथा मूर्खः पूर्वपक्षवादी । यतः संराधने सम्यक् सेवायां भगवत्तोषे जाते दृश्यते । 'श्रद्धाभक्तिज्ञानयोगादवैहि' 'यमे- भाष्यप्रकाशः । पूर्वपक्षमाहेत्यर्थः । हेतुं व्याकुर्वन्ति आह हीति । हि श्रुतिप्रत्यक्षाभ्यां हेतुभ्यां श्रुतिराह । अतस्तदव्यक्तमिति योजना । श्रुतिप्रत्यक्षाभ्यामिति यदुक्तम्, तत्र का श्रुतिः, किं प्रत्यक्ष- मित्याकाङ्क्षायां तदेव विभजन्ते नेतीत्यादि । अस्यां श्रुतौ कथं प्रत्यक्षप्राप्तिरित्यत आहुः नही- त्यादि । तदेव विवृण्वन्ति न हि केनचिदित्यादि ॥ २३ ॥ अपि संराधने प्रत्यक्षानुमानाभ्याम् ॥ २४॥ सूत्रं व्याकुर्वन्ति अपीत्यादि । अत्र दर्श- नसूत्रोक्तो दृशिर्व्यवहितोऽप्यर्थबलात् परामृश्यते । तथाच केवलस्य प्रत्यक्षादेः प्रमाणस्य लौकिकत्वेन नैर्बल्येपि साधनबलसिद्धस्य तस्यालौकिकत्वेन प्रबलत्वात् केवलानुभवविरोधोऽप्रयोजक इति साधनसिद्धेन प्रत्यक्षेण निर्णय इत्यर्थः । हेतुं व्याकर्तुं श्रुतिस्मृती उपन्यस्यन्ति श्रद्धेत्यादि । इयं रश्मिः । चारको बादरि'रिति उक्तसूत्रभाष्यात् । नहि केनचिदित्यादीति । सर्वैरेवेति । योग्यत्वादेवकारः । उपचरितेति । उपचारो व्याख्यातः । एवकारः सर्वेषां दर्शनाभावात् ॥ २३ ॥ अपि संराधने प्रत्यक्षानुमानाभ्याम् ॥ २४ ॥ केवलस्येति । श्रुतिरहितस्य । पूर्वं 'श्रुतिप्रत्यक्षाभ्या'मित्युक्तत्वात् । प्रत्यक्षादेरित्यत्रादिशब्देनानुमानादि । भाष्ये प्रत्यक्षस्योपलक्षकत्वात् । तथा च 'सर्वैरेव द्रष्टुं शक्येते'तिभाष्याद्वह्निरूपत्वे धूमरूपेणानुमातुं शक्येत । गवरूपत्वे उपमातुं शक्येत । घटादिरूपत्वे शब्दितुं शक्येतेति बोध्यम् । केवलानुभवेति । केवलस्य धर्मशून्यस्य नीरूपत्वादनुभवो विरुद्धयते, तद्विषयको न भवतीत्यर्थः । नीरूपत्वसमानाधिकरणो न भवति । तथाच 'मूर्खो देहाद्यहं- बुद्धि'रिति वाक्यात् अग्राह्यत्वेन प्रकारेण प्रत्यक्षशून्यो देहाद्यहंवादी । अग्राह्यत्वस्योपचरितत्वात् । 'कश्चिद्धीरः प्रत्यगात्मानमैक्ष'दित्युक्तप्रकारेण प्रत्यक्षशून्यो देहाद्यहंबुद्धिः । ताम्बूलमदशक्तिवदप्यद- र्शनम् । व्यापकत्वेनाप्यदर्शनम् । किञ्च । आत्मोपनिषदूक्तरीत्यात्मत्वेन देहप्रत्यक्षशून्यः आत्मत्वेनान्त- रात्मप्रत्यक्षशून्यः । इति भाष्ये सर्वथाशब्दः । एवं देहाध्यासे 'अहं स्थूल' इत्यादौ ह्यस्मच्छब्दः प्रत्यगात्मवाचको व्याख्यातः । अहङ्कारेऽस्मच्छन्दप्रयोगं कृत्वा भाष्यं यत इत्यादि । देहगेहादि- ष्वहममेत्यभिमानवता भगवान्न दृश्यते । अभिमानस्य तामसत्वेनाज्ञानकार्यत्वादज्ञानस्य च दर्शनावर- कत्वात् । यतो यथाकथञ्चिदप्यमूर्खत्वमवलम्ब्य सम्यक्संराधने । करणल्युडन्तं पदम् । सम्यक्संसि- द्धिर्येन पुष्टिसैवनेन मोक्षावान्तरकालनिर्गमाय तत्संराधनं त्वस्मिन्संराधने तदाहुः, सम्यक्सेवाया- मिति । ननु सिद्धिजनकोऽन्योपि पदार्थोऽस्तीत्यत आहुः भगवत्तोष इति । 'यद्भक्त्या तुष्यते हरि'- रिति वाक्यान्नान्यपदार्थो भगवत्तोषजनक इति सिद्धमुपस्थापिका सेवैवात्र व्यासाशयीयेति भावः । नन्वधोक्षजत्वात्सेवायामप्यदर्शनमस्त्विति चेत्, तत्राहुः दृश्यत इति । स्वेच्छया दृश्यो भवति । अथवा 1674