अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1803, कुल 2600 में से
संदर्भ में पढ़ें१४६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ९ सू० २८. णाभावात् स्वाभाविकत्वमात्रेण नित्यत्वकल्पनायां गौरवापत्तेः 'एकमेवाद्वितीय'- मिति श्रुतिविरोधाच्च धर्माः प्रपञ्चवत् कार्याः, तथा सति ब्रह्म सर्वकल्पनारहित- मेव सेत्स्यतीत्येवं प्राप्ते, इवमुच्यते। प्रकाशाश्रयवद्वा । वाशब्दः पक्षं व्यावर्त- यति । यथा प्रकाशाश्रयाः सूर्यादयः प्रकाशेन न भिन्नाः । पृथक्स्थित्यभावात् । समवेतत्वाच्च । मूलाविच्छेदरूपेण तदाधारतया स्थितत्वाच्च । नापि सूर्य एव । भाष्यप्रकाशः । लोके च कार्यस्यैव पटरूपादेस्तद्धर्मत्वात् तत्समवेतत्वाच्च धर्मत्वलिङ्गके दृष्टान्ताभावेन, नित्यव- स्तुसमवेतत्वलिङ्गके चानुमाने आकाशत्वस्य दृष्टान्तस्य सत्त्वेपि शब्दादिदृष्टान्तेन हेतोः साधारणतया तन्नित्यतायां प्रमाणाभावात् । स्वाभाविकत्वं हेतूकृत्याकाशत्वं दृष्टान्तीकृत्य तन्मात्रेण साधने यद्यपि तत् सिध्यति, तथापि तत्कल्पनायां नित्यवस्त्वन्तरसिद्ध्या गौरवापत्तेरद्वितीयश्रु- तिविरोधाच्च गौरवस्थाप्रामाणिकत्वात् तथेति । 'तद्व्यक्तमाह ही'त्यनेनोक्त एव पक्ष आदरणीय इत्यर्थः । समाधिं व्याकुर्वते इदमित्यादि । प्रकाशाश्रयवदिति । प्रकाशस्याश्रयाः प्रकाशा- श्रयास्तैस्तुल्यम् । प्रथमार्थे वतिः । सूत्रं व्याकुर्वन्ति वाशब्द इत्यादि । पूर्वाधिकरणेऽहि- कुण्डलदृष्टान्तेनैकस्य ब्रह्मणः सधर्मकत्वनिर्धर्मकत्वसिद्ध्या धर्मानामपि ब्रह्मरूपत्वमेव सिद्धम्, अत्र तु धर्मधर्मिणोर्भेदाभेदः साध्यते । अन्यथाैतत्सूत्रवैयर्थ्यमेव स्यात् । भिन्नाभिन्नत्वं कार्यकारण- भावेन पटतद्रूपयोर्धर्मधर्मिभावेन जातिव्यक्त्योर्दृष्टम् । तत्र वाशब्दः प्रथमं पक्षं व्यावर्तयति । ब्रह्मतद्धर्मो कार्यकारणभावेनैक्यरूपौ न भवतः, किन्तु यथा प्रकाशाश्रयाः सूर्यादयः प्रकाशेन सह न भिन्नाः, न विनाभूताः, नित्यसहचारिण इति यावत् । तत्र हेतुः । पृथक्स्थित्यभावात् । एवं प्रकाशोपि न सूर्यादिविनाभूत इत्यर्थबलाज्ज्ञातव्यम् । तदेतत् 'समवेतत्वाच्चे'ति चकारेण समुच्चिन्वन्ति । तत्र हेतुः । समवेतत्वादिति । अयुतसिद्धत्वात् । तज्जन्यधर्मेष्वप्यस्तीति तथा- त्ववारणाय हेत्वन्तरमाहुः मूलाविच्छेदेति । सर्वेपि भगवद्धर्मा भगवद्विनाभूता भगवदविभक्ता इत्यर्थः । अत्र यद्यपि पृथक्स्थित्यभावादित्यनेनैव तथात्वसिद्धावपि यद्धेतुद्वयमुक्तम्, तेन प्रपञ्च- स्याक्षरस्य च भिन्नाभिन्नत्वं निबन्धोक्तं स्मारितम् । एवमभेदे मानमुक्त्वा भेदे मानमाहुः नापी- त्यादि । प्रकाश इति शेषः । चकार आधाराधेयभावस्य 'परास्य शक्ति'रित्यादिषष्ठीनिर्देशस्य च रश्मिः । एवकारः कारणान्ययोगव्यवच्छेदकः । तद्धर्मत्वादिति । तन्तुमृदादिधर्मत्वात् । तावत्तन्तुकपालादि- समवेतत्वात् । यद्वा । धर्मी नित्यः धर्मत्वादित्यनुमाने दृष्टान्ताभावेन । धर्मी नित्यः नित्यवस्तुसमवेतत्वात् आकाशत्ववदित्यत्र । शब्दादीति । एकदेशिमतेन शब्दादि द्रष्टव्यम् । पक्षभिन्ननिश्चितसाध्यवत्त्वं दृष्टान्तत्वम् । तेन शब्दादिषु पक्षभिन्नेषु निश्चितसाध्यवत्सु । नित्यवस्तुसमवेतत्वरूपहेत्वभावः साध्य- व्यापकत्वसाधकः । तेनादिशब्दार्थवशे साध्याभाववति नित्यवस्तुसमवेतत्वरूपहेत्वभावात्साधारण्यं साध्या- भाववद्वृत्तित्वरूपम् । ननु नाकाशदृष्टान्तः निश्चितसाध्यवत्त्वाभावादिति चेन्न । न शब्दादिदृष्टान्ते हेतोः साधारणता, किन्तु शब्दशब्दस्मारिताकाशहेतोः साधारणता प्रसङ्गः पुरुष इति तथेत्यर्थात् । स्वाभा- विकत्वेति भाष्यं विवृण्वन्ति स्म स्वाभाविकत्वमिति । धर्मा नित्याः स्वाभाविकत्वात् आकाश- त्ववत् । नित्यवस्त्विति । जातिसिद्धा । एतादृशत्वम् । भेदे इति सतिसप्तम्यन्तम् । भेदसामानाधिकरण्य एतादृशत्वं भिन्ननिष्ठम् । तथेत्यग्रेतनभाष्योक्तम् । अत्रैवकारः विरुद्धधर्माधारत्वकल्प- 1682