भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1804, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1804

भिन्नप्रतीतेर्विद्यमानत्वाच्च । तादृशमेव तद्वस्तूत्पत्तिसिद्धमिति मन्तव्यम् । कल्पनायामपि यथा सूर्यप्रकाशयोः कल्पना, एवं ब्रह्मधर्मयोरपि । न ह्यन्यथा वेदप्रवृत्तिर्निषेधशेषता सत्यज्ञानानन्तानन्दपदानां सामानाधिकरण्यं वा सम्भ- वति । लक्षणायां तु सुतरामेव धर्मापेक्षा । अतो विशिष्टपदार्थ एव तादृशो वेद- समुच्चयकः । तेन सिद्धमाहुः तादृशमित्यादि । प्रकाशरूपं वस्तु मूलाद्भिन्नमप्यभिन्नमेवोत्पत्ति- सिद्धमिति मन्तव्यम् । युक्तिभिरनुचिन्तनीयम् । यथा अमित्रो न मित्रम्, न मित्राभावः, किन्तु मित्रविरुद्धसम्पत् । यथा चाविद्या न विद्या, न विद्याभावः, किन्तु विद्याविरुद्धं भावरूपमज्ञानम्, एवं प्रकाशतदाश्रययोरभेदोपि न भेदः, न भेदाभावः, किन्तु भेदविरुद्धसम्पदेव भावरूप इति विभावनीयम् । सा च सम्पत्, भावरूपत्वे सति स्वाश्रयाविनाभूतत्वं तद्विहायावर्तमानत्वमिति यावत् । न चेतादृक्त्वमन्योन्याभावरूपे भेदेस्तीति । तथाच कल्पनायामपि यथा सूर्यप्रकाश- योस्तादात्म्यरूपस्य भेदविरुद्धसम्पदोऽभेदस्य कल्पना, एवं ब्रह्मधर्मयोरपि परबोधनाय कार्ये- त्यर्थः । नन्वत्र का वा उपपत्तिर्येन धर्माणां सदा सत्तामङ्गीकृत्य तादृशोऽभेदः कल्प्यत इत्यत आहुः न हीत्यादि । यदि हि स्वाभाविकधर्मसत्तानभ्युपगम्य सर्वविशेषशून्यमेव ब्रह्माङ्गीक्रियते, तदा केवलचिन्मात्रत्वेन प्रतिपिपादयिषितस्य ब्रह्मणः सकाशात् 'अस्य महतो भूतस्य निःश्वसि- तमेतद्यदृग्वेद' इत्यादिना श्राविता चेतनधर्मरूपा वेदप्रवृत्तिर्न सम्भवेत् । 'अथात आदेश' इत्यत्र पराभिमता निषेधशेषतापि न सम्भवेत् । तस्या अपि विशेषत्वात् । 'सत्यं ज्ञानमनन्तं ब्रह्मे'ति स्वरूपलक्षणश्रुतौ 'विज्ञानमानन्दं ब्रह्म'तिश्रुतौ चोक्तं सत्यादिपदानामेकवस्तुवाचकत्वमपि नायोगव्यवच्छेदकः । अभिन्नमेवेति । एवेत्यत्र तृतीयालुक् । अवधारणेनेत्यर्थः । नन्वभिन्नमेव भिन्नमिति कुतो न कल्प्यत इत्यत आहुः नहीति । अभेदे सिद्धं ब्रह्म विरुद्धधर्माश्रयमितिग्रहणात्पृथिवि- वीवदित्यनुमानेन एतादृशत्वे खण्डब्रह्मवादापत्याखण्डब्रह्मवादो हीयेत । एतां पृथिवीमिव तं पश्यन्ति भक्ता जनाः । एवमेवान्यस्तु पश्यति इति विवृद्धिकार्ये तादृशं तत्त्वम् । 'त्यदादिषु दृशोऽनालोचने कञ्चे'- तिसूत्रम् । पूर्वविग्रहास्तु सूत्रस्य सर्वतोमुखत्वाद्यथाकथञ्चिज्ज्ञेयाः । अनालोचनेऽविचारे इत्यर्थमादाय । नच वृत्तिविरोधः । श्यालखशोरित्यत्र 'पुमान् स्त्रिये'त्यस्य वृत्त्यनङ्गीकारात् । तथा मनोरमायां तादृशादयस्तु रूढिशब्दत्वादसत्तार्थावयवार्थेन व्युत्पाद्यन्ते । अतएवाज्ञानार्था दृशेरिति सङ्गच्छत इति । न हि स्वमते केवलरूढिरस्ति । महाभाष्योक्तयोगेन रूढिशब्दत्वादिति मनोरमाविरोधः । नन्वस्तु विरोध इति चेत् । न । 'लोके शब्दार्थसम्बन्धो रूपं तेषां च यादृशम्, न विचारस्तत्र कार्य' इति निषेधात् । तर्हि रूढौ यः कोपि योगो न भवेदिति चेत् । न । 'लोकसिद्धं प्रस्तुत्य वैदिको बोध्यते यथा,' वैदिकबोधार्थं रूढौ यथाकथञ्चित् योगोप्यस्तु । आचार्यरोक्तत्वात् । मा भून्महाभाष्योक्तयोग इति रूढ्यभावात् । नच माध्वानां भेदे एतादृशत्वमस्तीति वाच्यम् । उभयव्यपदेशाधिकरणे चतुःसूत्रे आनन्दादिरूपोपि श्रुतिबला- दानन्दगुणकोपीति सर्वत्र माहात्म्यमेवोच्यते मत्वर्थमित्यर्थात् । कल्पनायामिति भाष्यं विवृण्वन्ति स्म तथाचेति । वस्तुनस्तादृशत्वे विरुद्धधर्माश्रयत्वे उत्पत्तिसिद्धे सति । तादृश इति । तादात्म्यरूपः । एवेति । विरुद्धधर्माश्रयत्वरूपान्ययोगव्यवच्छेदकः । निषेधेति । मूर्त्तामूर्त्तस्य विवर्त्तत्वेन तथा । तस्या इति । निषेधशेषतायाः । विशेषत्वं विवर्तत्वं तस्मात् । सत्येत्यादिभाष्यं विवृण्वन्ति स्म सत्यमित्या- दिना । एकेति । भिन्नप्रवृत्तिनिमित्तत्वे सत्येकार्थबोधकत्वं सामानाधिकरण्यम् । भाष्ये तस्यार्थः ।