भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1814, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1814

त्वेन ततो निर्बलत्वादिति व्याख्यातवन्तः। ततो, ननु तर्हि आकारवद्विषयाणां का गतिरित्या- शङ्कायां पञ्चमं 'प्रकाशवच्चावैयर्थ्या'दिति सूत्रमवतार्य, यथा सौर्यश्चान्द्रो वा प्रकाशो वियद् व्याप्या- वतिष्ठमानोङ्गुल्याद्युपाधिसंसर्गादृजुवक्रादिभावं प्रतिपद्यमानेषु संसर्गिषु तदाकारतामिव प्रतिपद्यते, तथा ब्रह्मापि पृथिव्याद्युपाधिसम्बन्धात् तदाकारतामिव प्रतिपद्यते, तदालम्बनं ब्रह्मण आकार- विशेषोपदेश उपासनाय ना विरुध्यते, एवमाकारवद्ब्रह्मविषयाणामवैयर्थ्यात्। नच नोपाधियो- गादप्युभयलिङ्गमिवि प्रतिज्ञाहानिः। उपाधिनिमित्तस्य वस्तुधर्मत्वानुपपत्तेः। उपाधीनामाविद्य- कत्वाद्वेति व्याख्याय, 'आह च तन्मात्र'मिति सूत्रं च यथावद्व्याख्याय, 'दर्शयति' सूत्रे च 'अथात आदेशो नेति नेति', 'अन्यदेव तद्विदितादथो अविदितात्', 'यतो वाचो निवर्तन्ते, 'अवचनेनैवोवाचे'ति श्रुतीः, 'ज्ञेयं यत् तत् प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते। अनादिमत्परं ब्रह्म' न सत्तन्नासदुच्यत' इति गीतावाक्यम्, 'माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद। सर्वभूत- गुणैर्युक्तं नैवं मां द्रष्टुमर्हसी'ति स्मृती उपन्यस्य परप्रतिषेधेनैव निर्विशेषं ब्रह्म प्रतिपाद्यत इत्युक्त्वा, 'अत एवे' 'त्यम्बुव'दिति सूत्रद्वयं च यथावद्व्याख्याय, 'वृद्धिह्रास'सूत्रे जलसूर्यकादिदृष्टान्तं साधितुं जलगतं सूर्यप्रतिबिम्बं जलवृद्धौ वर्धते, तद्ध्रासे ह्रसति, तच्चलने चलति, तद्भेदे भिद्यत इत्येवं जल- धर्मानुविधायि भवति, न तु सूर्यस्य तथात्वमस्ति, एवं परमार्थतोऽविकृतमेकरूपमपि सद्रह्म देहा- द्युपाध्यन्तर्भावाद्बुद्धिह्रासादीनुपाधिधर्मान् भजत इत्येवमुक्त्वा, 'दर्शनाच्चे'ति सूत्रे, 'पुरश्चक्रे द्विपदः,' 'अनेन जीवेनात्मनानुप्रविश्ये'ति श्रुतिभ्यामुपाधिप्रवेशं ब्रह्मणो दर्शयित्वा, युक्त एवातः सूर्यकादिदृ- ष्टान्त इत्युक्त्वा, तस्मान्निर्विकल्पकलिङ्गमेव ब्रह्म,नोभयलिङ्गम्, न विपरीतलिङ्गं चेति सिद्धान्तमाहुः। तत्र प्रथमसूत्रव्याख्यानमयुक्तम्। 'सर्वत्र ही'ति हेतुबोधके पदे निर्विशेषस्यैवोपदेशादित्य- स्यार्थस्यासौत्रत्वेन तृतीयाध्याये वा शास्त्रे वा ईदृशस्य शब्दस्यार्थस्य च काप्यनुक्ततया अनुवृत्तेरपि कर्तुमशक्यत्वेनाभ्युपगमैकशरणत्वात्। 'अशब्दमस्पर्श'मिति विषयवाक्योत्तरार्धेऽपि, 'अनाद्यनन्तं महतः परं ध्रुवं निचाय्य त'मित्यनेन 'महतः पर'मित्यादिना पूर्वोक्तस्य ध्रुवस्य पुरुषस्य परामर्शन प्राप्तायाः सविशेषताया अनादरेण तद्विरुद्धत्वात्। निर्विशेषमेव ब्रह्मेति सिद्धान्तस्तत्रैव सिद्धाव-

निर्बलत्वादिति । उपासनायाः कल्पिताकारपरत्वादिति भावः। संसर्गिषु प्रकाशेषु। इति प्रतिज्ञेति। 'न स्थानत उभयलिङ्ग'मितिसूत्रभाष्ये इति प्रतिज्ञा। यथावदिति । निराकारपरत्वेपि सिद्धान्तानुसारि- त्वाद्यथावत् । तेषां सिद्धान्ते यथावदिति वा। परप्रतीति। चिन्मात्रतापरप्रतिषेधेन। नेतिनेती- त्यादिना । 'मत् परं ब्रह्मे'त्यत्र मत् मत्तः ब्रह्म परमित्यर्थायोगव्यवच्छेदक एवकारः । यथावदिति। व्याख्यातम् । वृद्धिह्रासादीनिति । आदिनोक्तचलनादयः। एवकारव्यावर्त्यमाहुः नोभयेति। विपरीतेति। साकारलिङ्गमेव, न तु निराकारमित्येवम्। निर्विशेषस्यैवेति। परसोभयलिङ्गमिवि प्रतियोगिनिर्वचनेन सर्वत्र प्रतियोगिस्फूर्तेर्नेतिनेतीत्यादौ नञा निषेध इति तथा। ईदृशस्येति । निर्विशेषमात्रस्य । अनुक्ततयेति । किन्तु 'अस्थूलमनण्वि'त्यादिवाक्यैः प्रापञ्चिकसर्वधर्मवैलक्षण्यस्य सर्वत्र कारणत्वाद्भगवानस्तीत्यर्थस्य चोक्ततया । निचाय्य तमिति । तं पुरुषं निचाय्य ज्ञानकाण्डत्वा- ज्ज्ञात्वा। अत्र परामर्शमाहुः महतः परमिति । काठके 'महतः परमव्यक्तमव्यक्तात्पुरुषः परः । पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गति'रित्यनेन पूर्वोक्तस्य । ध्रुवपदसामानाधिकरण्यायाहुः ध्रुवस्येति । 'सा काष्ठा सा परा गति'रित्यस्यार्थः । तद्धीति । उत्तरार्धविरुद्धत्वात् । अत्रैवेति । अस्मिन्सूत्रे एव

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 1814, कुल 2600 में से · BharatKosha