भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1815, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1815

१५८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ९ सू० ३०. भाष्यप्रकाशः। ग्रिमस्यारूपवत्सूत्रस्य वैयर्थ्यप्रसक्तेः। तत्र साध्यमानत्वान्न सिद्धवन्निर्देशाङ्गीकार इत्यस्याप्युक्त- त्वाच्च । तथा, अरूपवत्सूत्रे 'तत्प्रधानत्वा'दित्यस्य निर्विशेषप्रधानत्वादिति व्याख्यानमप्ययुक्तम् । तदुपन्यस्तानां विषयवाक्यानामुपक्रमादिविचारे तथात्वस्यालाभात् । तथाहि । प्रथमं तत्रास्थूल- वाक्यम् । तच्च 'कस्मिन् वा आकाश ओतश्चे'ति गार्गीप्रश्नात् प्रवृत्तम्, स्थूलत्वादीन् लौकिकान् धर्मान्निषेधत् प्रशासितृत्वाम्बरान्तधारकत्वद्रष्टृत्वादीनाकाशोपादानत्वान्तानलौकिकान् दर्शयति । अशब्दवाक्यं तु प्राग्व्याख्यातम् । आकाशवाक्यं च नामरूपनिर्वाहकत्वम् । 'दिव्यो ह्यमूर्तः' इति वाक्यं चेयत्तावच्छिन्नं परिमाणं निषेधत् पुरुषं बाह्याभ्यन्तरसाहित्यं बाह्याभ्यन्तररूपत्वं वा दर्शय- दक्षरात् परत्वमग्रे श्रावयति । 'तदेतद् ब्रह्मे'ति मधुविद्योपसंहारस्थमपि मधुविद्यायामुपक्रमे, 'अय- मेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्व' मित्येवं चतुर्दशपर्यायैरभ्यस्तं सर्वत्वं मध्य उक्तं सर्व- भूताधिपतित्वादिकं 'रूपं रूप'मिति मन्त्रव्याख्यानोक्तं 'अयं हरयोऽयं वै दश च सहस्राणि च बहूनि चानन्तानि चे'त्यनन्तरूपतां श्रावयतीति निर्विशेषब्रह्मप्रधानतया वक्तुमयुक्तत्वात् । नच 'तदेतद् ब्रह्मे'ति भिन्नं वाक्यं पूर्वेभ्य इति वाच्यम् । तच्छब्दात् पूर्वपरामर्शाद्विभागे साकाङ्क्ष- तया तदभावात् । नचेदं तच्छब्देन पूर्वोक्तरूपत्वं परामृशदप्यपूर्वमित्यनेन तभिषेधतीति न दोष इति वाच्यम् । एवं तर्ह्यनपरमित्यनेनानन्तरत्वादीनग्रिमानपि निषेधच्छून्यवाद्मेव प्रसञ्जयेत् । अतोत्र पूर्वत्वादीनां धर्मानामेव निषेध इत्येवाङ्गीकार्यम् । तथा सति 'न शुष्केण न चार्द्रेण रश्मिः। निर्धारणेनेत्येवकारार्थः । इत्यस्यापीति । इति हेतोः सूत्रस्यापि । अशब्दवाक्यमिति । काठकेऽस्ति । प्राक् । अत्रैव पूर्वम् । नामरूपेति । दर्शयतीत्यनेनान्वेति । पुरुषत्वमिति । दर्शयतीत्यनेनान्वेति । 'दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः' इत्यत्र बाह्याभ्यन्तराभ्यां समानः सह वेति विग्रहे आहुः बाह्याभ्यन्तरेति । सः बाह्याभ्यन्तरः इति पदद्वयेनेत्याहुः बाह्याभ्यन्तरेति । श्रावयतीति । 'अक्षरात्परतः परः' इति श्रुत्या श्रावयति । सर्वभूतेति । आदिना राजत्वसमर्पितत्वे । 'स वा अयमात्मा सर्वेषां भूतानामधिपतिः सर्वेषां भूताना५ राजा तद्यथा रथनाभौ रथनेमौ चाराः सर्वे समर्पिता एवमेवास्मिन्नात्मनि सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि सर्व एत आत्मानः समर्पिता' इति श्रुतिः । रूपं रूपमिति । 'रूपं रूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय । इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयः शता दशेत्ययं वै हरय'इत्यादि । युक्ता इति । रथयुक्तवाजिवत् अस्य इन्द्रस्य परमात्मनः रथस्थानीये आकाशे शरीरे युक्ताः गोविन्दं स्वविषयान्प्रति हरन्तीति हरयः इन्द्रियाणि, शता शतानि, नित्यलीलास्थभक्तेन्द्रियाभिप्रायेण दश प्राणाः, प्राणानामिन्द्रियपदवा- च्यत्वात् । मन्त्रः समाप्तः । नित्यलीलास्थगोपीजनवल्लभ उक्तः । लीलायां भेदवारणाय मन्त्रव्याख्यानं प्रकाशे । अयं वा इति । अयं परमात्मा । अत्र श्रुतिश्छान्दोग्ये 'आत्मत आविर्भावतिरोभावा'विति सर्वात्मभावप्रकरणश्रुतेः । पूर्वेभ्य इति । चतुर्दशपर्यायेभ्यः । तदभावादिति । 'अर्थैकत्वादेकं वाक्यं साकाङ्क्षं चेद्विभागे स्या'दिति जैमिनिसूत्रेणैकवाक्यत्वे भिन्नवाक्यत्वाभावात् । पूर्वोक्तेति । 'अयमेव स योयमात्मे'ति पूर्वोक्तरूपत्वम् । अपूर्वमिति । 'तदेतद्ब्रह्म' इत्यस्य अग्रे 'अपूर्वमनपर- मनन्तरमबाह्यमयमात्मा ब्रह्म सर्वानुभूरित्यनुशासन'मित्यस्यापूर्वमित्यनेनेत्यर्थः । न दोष इति । सधर्मकत्वदोषो न । शून्यवाद्मेवेति । अन्ययोगव्यवच्छेदक एवकारः । द्वितीयस्कन्ध नवमाध्यायेऽपि कारणत्वाङ्गीकारात् साकारत्वाङ्गीकाराच्च । एवेति । पूर्वोक्तरूपत्वानन्तरत्वादियोगव्यवच्छेदकः । 1694