अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1828, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाशः। स्थानात् सन्देहानुत्पत्त्या निरस्य, शेषं शङ्कराचार्यवदेव व्याख्यातवन्तः । तथाच तन्मते कारणावस्थाविशेष एव कार्यम् । तन्तुनामदृष्टान्तात् । अतो निमित्तव- शादेव नानाकारः । स यद्यसन्नेवोत्पद्यते, तदा असतः सत्तानिषेधकश्श्रुतिविरोधः । अतः सन्नेव निमित्तवशाल्लक्ष्यते । कारणं च ब्रह्म यथाकाशोऽविक्रियमाण एव वायुजनकः, एवमविक्रिय- माणमेव प्रपञ्चजनकम् । तच्च कृत्स्नप्रसक्त्यादिदोषवारणार्थं श्रुतिबलादेव भगवता सूत्रकारेणाङ्गी- कृतम् । स्वयमपि तथैव व्याख्यातम् । निमित्तं चात्रेच्छैव । परिणतिश्च शक्तेरेव । शक्तिशक्तिम- तोर्नात्यन्तं भेदो गुणगुणिनोरिवेतरेतराविनाभावादिति तदनन्यत्वाधिकरणे व्युत्पादितम् । तत्रेदवधेयम् । यदि श्रुतिबलादेवमवधारितम्, तदा ब्रह्मणि युक्तीनां लौकिकीनामकि- ञ्चित्करत्वादचिन्त्यसामर्थ्यं त्वङ्गीकृतमेव । तथा सति तेनैव विरुद्धधर्माश्रयत्वादोषपरिहारसिद्धौ कुतः कारणरूपस्य केवलनिर्विकल्पकत्वाग्रहः । नचाशब्दादिवाक्येभ्य इति युक्तम् । तेषां यथा भूतमौतिकनिराकरणेऽप्युभयलिङ्गताप्रतिपादकत्वं तथोपपादितत्वात् । नापि 'कश्चिद्धीर' इति वाक्यात् । 'तं यथा यथोपासत' इति श्रुत्या तादृगुपासकेन तथादर्शनेऽपि तेन लिङ्गान्तरबाधस्या- शक्यवचनत्वात् । सूत्रस्थेन केवलेन सर्वत्रेतिपदेन भूतमौतिकनिराकरणात्मकस्य हेतोरलाभात् । मधुविद्यायामपि यत्रैकीभावस्तादृशरूपस्य ध्येयत्वोपदेशेपि 'तदेतद्ब्रह्मापूर्व'मित्युपसंहारवाक्येपि रश्मिः। हेतुमाहुः सर्वेत्यादिना सन्देहानुत्पत्त्येत्यन्तेन । यद्यप्यत्र गार्गिब्राह्मणेऽस्थूलादिवाक्यं पञ्चमप्रपाठ- कीयशाण्डिल्यविद्यादिषु 'सर्वकर्मा सर्वकाम' इति वाक्यम्, तथाप्यन्यसंग्रहाय सर्वत्वेनोपनिषद्गृहीता । अस्यामिति । मूर्तामूर्तब्राह्मणीयायामुपनिषदि । ब्रह्मण इति । 'द्वे वाव ब्रह्मणो रूपे' इत्युपक्रमः । 'तेषामेष सत्य'मित्युपसंहारः । रूपे वा रूपवद्वेति सन्देहानुत्पत्त्या इति हेतुः । निरस्येति । विंशति- सूत्रात्मकाधिकरणमिति नवसूत्र्यामधिकरणत्वं निरस्य । एवेति । भास्करभाष्याभ्याससूचनेनान्ययोग- व्यवच्छेदक एवकारः । एवेति । दृष्टान्तसद्भावात् । निमित्तेति । क्रीडेच्छा निमित्तं तद्वशात् । तन्तुनामवत् । एवेति । 'सदेव सोम्येदमग्र आसी'दित्यत्र सदितरव्यवच्छेदात् 'स ईक्षांचक्रे' इत्यत्र निमित्तप्रदर्शनादन्ययोगव्यवच्छेदकैवकारः । असत इति । श्रुतिस्तु 'असन्नेव स भवति असद्ब्रह्मेति वेद चे'दिति । एवेति । चिन्तामणिदृष्टान्तसत्त्वादेवकारः । तच्चेति । अविकृतत्वम् । आदिना 'निरवय- वत्वशब्दकोपो वा' । सूत्रेनेति । 'कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वे'ति सूत्रकारेण । स्वयमिति । भास्कराचार्यैः । इच्छैवेति । श्रुतेरेवकारः । शक्तेरेवेति । निर्गुणत्वाच्छक्तिमतो योगस्य व्यवच्छेद- कैवकारः । तदेति । श्रुतिविचारकाले । एवेति । अवधारणेनैवकारार्थेन हेतुना । अशब्दादीति । अत्रैव पूर्वमुक्तेभ्यः । तेषामिति । इदमपि व्याख्यातम् । उपेति । दर्शयति चेति सूत्रोपन्यास एव पूर्वम् । भास्करभाष्योक्तेतरामप्याहुराशङ्काम् । नापीति । तादृगुपासकेनेति । तादृगिति रूढशब्दः । महाभाष्ये तु सोयं स इव दृश्यमानस्तमिवात्मानं पश्यतीति कर्मकर्तरि व्युत्पत्तिर्दर्शिता । सोयं तादृगुपासकः स इव आत्मदर्शीव अन्यैर्दृश्यमानस्तमिवात्मदर्शिनमिव स्वात्मानं पश्यतीत्यर्थः । तादृगुपासकेन । लिङ्गान्तरेति । निर्विकल्पकलिङ्गादन्यल्लिङ्गं सविकल्पकवलिङ्गं तस्य बाधस्य । अलाभादिति । सूत्रस्य सारवद्विश्वतोमुखत्वादिति भावः । विकल्प इति चेदोम् । भगवत्क्रीडार्थत्वात्सर्वमतानाम् । अपीति । अनेन यत्रैकीभावः, तत्रापि ध्येयत्वेन सर्वरूपत्वपदार्थसम्भावना । उपेति । शङ्कराचार्य- १. उभयव्यपदेशाधिकरणे ।