अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 183, कुल 2600 में से
संदर्भ में पढ़ेंकिंच व्यर्थश्चैवं विचारः । लक्षणप्रमाणाभ्यां हि वस्तुज्ञानं भवति । तच्च स्वरूपलक्षणेनैव भवतीति किमनेन । तस्मादयुक्तमुत्पश्याम इति । उच्यते । संदेहवारकं शास्त्रं वेदप्रामाण्यवादिनम् । क्रियाशक्तिज्ञानशक्ती संदिह्येते परस्थिते ॥ न हि श्रुतिं व्याख्यातुं प्रवृत्तः सूत्रकारः किंतु संदेहं वारयितुम् । तत्र, 'सत्यं ज्ञानमनन्तम्', 'नित्यशुद्धमुक्तस्वभावम्' इतिश्रुत्या कर्तृत्वादिप्रापञ्चिकधर्म- राहित्यं प्रतीयते । 'यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत् प्रयन्त्यभिसंविशन्ति' इति कर्तृत्वं च । भाष्यप्रकाशः । मूलशास्त्रेणोदित इत्येतावता कृत्स्नस्य वेदस्यैव ब्रह्मणि प्रमाणत्वं न वक्तुं शक्यते । कल्पनोप- देशस्यापि तत्र शक्यवचनत्वादलुमानस्यापि तत्र प्रमाणत्वापत्तेरित्यर्थः । अत्र ब्रह्मप्रमाणत्वमिति पाठः प्रतिभाति । अथ वेदोक्त एवाग्रहस्तदा दूषणान्तरमाह किंचेत्यादि । अयुक्तमिति सूत्रोक्तं लक्षण- मयुक्तमित्यर्थः । शेषमतिरोहितार्थम् । अत्र समाधातुं गृह्णते उच्यत इत्यादि । प्रकारान्तरेणात्र संशय उच्यते । वेदप्रामाण्यवा- दिनाम् । 'सर्वे वेदा यत् पदमामनन्ति' इति श्रुत्यनुसारेण ब्रह्मण्येव सर्वस्य वेदस्य प्रामाण्यम- न्यत्र प्रमाणाभासत्वमितिवादिनां वेदे यः संदेहस्तद्वारकमिदं वैयासं शास्त्रम् । तत्र कः संदेह इत्यपेक्षायां, परस्थिते 'ब्रह्मविदाप्नोति परम्' इत्यत्रामोतिकर्मभूतो यः पर उक्तस्तत्स्थिते क्रिया- शक्तिज्ञानशक्ती स्वरूपलक्षणविरुद्धत्वाद् ब्रह्मणि संदिह्येते, स्तो न स्तो वेत्येष संदेह इत्यर्थः । गृहीतं विभजन्ते न हीत्यादि । यदुक्तं स्वरूपलक्षणकथन इत्यादि, तदसंगतम् । यदि सूत्र- कारः श्रुतिं व्याख्यातुं प्रवृत्तः स्याद् यथाक्रमं प्रतिपदं च व्याख्यात् । न तु तथा । किंतु संदेहं वारयितुम् । ततश्च यत् संदिग्धं तद्विवृणोति, व्याख्येयसमानार्थकैरन्यैश्च पदैर्विपक्षसपक्षबाधक- रश्मिः । विचारः । कल्पनेति यथा 'वाचो धेनुमुपासीत' इत्यत्र वाचो धेनुत्वकल्पने कल्पनोपदेशः । तत्रेति कृत्स्ने वेदे । प्रतिभातीति । एतेन ब्रह्मणि, प्रमाणं भावे ल्युट्, प्रमा येनेति व्यधिकरण- पदो बहुव्रीहिः कप् साधक इत्यसूचि । 'यतो वाचो निवर्तन्ते' इति श्रुतेरज्ञाते कं साधयित्वा ब्रह्मणीदमित्थमंशांशे ज्ञानप्रमाणकत्वं वार्थः । यद्वा केनोपनिषदि 'यद्वाचानभ्युदितं येन वागभ्यु- द्यते' इति श्रावणाद्ब्रह्म प्रमाणं यस्येत्येव बहुव्रीहिः । वेदोक्तेति वेदोक्तावेदोक्तयोर्वेदो- क्तलक्षण इत्यर्थः । एवकारेण व्याख्यानव्यवच्छेदः । प्रकारान्तरेणेति प्रकारस्तु वेदोक्तस्वरूप- लक्षणं व्याख्यानोक्तमसर्वाङ्गीकृतकर्तृत्वलक्षणं वा भवेति । तत्स्थित इति अधोक्षजे परे स्थिते । अधोक्षजत्वान्न विचारस्तस्य । अत एव शेषषष्ठी । आर्थिकार्थमाहुः ततश्च यदित्यादि । विवृणोतीति विवृण्वन्ति । व्याख्येयेत्यादि । यद्यप्याचार्याः यत इत्यादौ आचार्य इवाचरणं करोति इति व्याख्येयसमानार्थकैकैः पदैरेव विवरणं दृश्यते, तथापि प्रकृतोपयोगि विवरणमिदं ज्ञेयम् । यथात्रैव सूत्रे समपदानि अन्यानि च । एवं सर्वत्राध्याये । द्वितीयाध्याये विपक्षो निश्चि- तस्साध्याभाववान् यथा सांख्यानामसंगपुरुषः भूतकर्तृत्वरूपनिश्चितसाध्याभाववान् । तस्य बाधक- 96