अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
किंच व्यर्थश्चैवं विचारः । लक्षणप्रमाणाभ्यां हि वस्तुज्ञानं भवति । तच्च स्वरूपलक्षणेनैव भवतीति किमनेन । तस्मादयुक्तमुत्पश्याम इति । उच्यते । संदेहवारकं शास्त्रं वेदप्रामाण्यवादिनम् । क्रियाशक्तिज्ञानशक्ती संदिह्येते परस्थिते ॥ न हि श्रुतिं व्याख्यातुं प्रवृत्तः सूत्रकारः किंतु संदेहं वारयितुम् । तत्र, 'सत्यं ज्ञानमनन्तम्', 'नित्यशुद्धमुक्तस्वभावम्' इतिश्रुत्या कर्तृत्वादिप्रापञ्चिकधर्म- राहित्यं प्रतीयते । 'यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत् प्रयन्त्यभिसंविशन्ति' इति कर्तृत्वं च । भाष्यप्रकाशः । मूलशास्त्रेणोदित इत्येतावता कृत्स्नस्य वेदस्यैव ब्रह्मणि प्रमाणत्वं न वक्तुं शक्यते । कल्पनोप- देशस्यापि तत्र शक्यवचनत्वादलुमानस्यापि तत्र प्रमाणत्वापत्तेरित्यर्थः । अत्र ब्रह्मप्रमाणत्वमिति पाठः प्रतिभाति । अथ वेदोक्त एवाग्रहस्तदा दूषणान्तरमाह किंचेत्यादि । अयुक्तमिति सूत्रोक्तं लक्षण- मयुक्तमित्यर्थः । शेषमतिरोहितार्थम् । अत्र समाधातुं गृह्णते उच्यत इत्यादि । प्रकारान्तरेणात्र संशय उच्यते । वेदप्रामाण्यवा- दिनाम् । 'सर्वे वेदा यत् पदमामनन्ति' इति श्रुत्यनुसारेण ब्रह्मण्येव सर्वस्य वेदस्य प्रामाण्यम- न्यत्र प्रमाणाभासत्वमितिवादिनां वेदे यः संदेहस्तद्वारकमिदं वैयासं शास्त्रम् । तत्र कः संदेह इत्यपेक्षायां, परस्थिते 'ब्रह्मविदाप्नोति परम्' इत्यत्रामोतिकर्मभूतो यः पर उक्तस्तत्स्थिते क्रिया- शक्तिज्ञानशक्ती स्वरूपलक्षणविरुद्धत्वाद् ब्रह्मणि संदिह्येते, स्तो न स्तो वेत्येष संदेह इत्यर्थः । गृहीतं विभजन्ते न हीत्यादि । यदुक्तं स्वरूपलक्षणकथन इत्यादि, तदसंगतम् । यदि सूत्र- कारः श्रुतिं व्याख्यातुं प्रवृत्तः स्याद् यथाक्रमं प्रतिपदं च व्याख्यात् । न तु तथा । किंतु संदेहं वारयितुम् । ततश्च यत् संदिग्धं तद्विवृणोति, व्याख्येयसमानार्थकैरन्यैश्च पदैर्विपक्षसपक्षबाधक- रश्मिः । विचारः । कल्पनेति यथा 'वाचो धेनुमुपासीत' इत्यत्र वाचो धेनुत्वकल्पने कल्पनोपदेशः । तत्रेति कृत्स्ने वेदे । प्रतिभातीति । एतेन ब्रह्मणि, प्रमाणं भावे ल्युट्, प्रमा येनेति व्यधिकरण- पदो बहुव्रीहिः कप् साधक इत्यसूचि । 'यतो वाचो निवर्तन्ते' इति श्रुतेरज्ञाते कं साधयित्वा ब्रह्मणीदमित्थमंशांशे ज्ञानप्रमाणकत्वं वार्थः । यद्वा केनोपनिषदि 'यद्वाचानभ्युदितं येन वागभ्यु- द्यते' इति श्रावणाद्ब्रह्म प्रमाणं यस्येत्येव बहुव्रीहिः । वेदोक्तेति वेदोक्तावेदोक्तयोर्वेदो- क्तलक्षण इत्यर्थः । एवकारेण व्याख्यानव्यवच्छेदः । प्रकारान्तरेणेति प्रकारस्तु वेदोक्तस्वरूप- लक्षणं व्याख्यानोक्तमसर्वाङ्गीकृतकर्तृत्वलक्षणं वा भवेति । तत्स्थित इति अधोक्षजे परे स्थिते । अधोक्षजत्वान्न विचारस्तस्य । अत एव शेषषष्ठी । आर्थिकार्थमाहुः ततश्च यदित्यादि । विवृणोतीति विवृण्वन्ति । व्याख्येयेत्यादि । यद्यप्याचार्याः यत इत्यादौ आचार्य इवाचरणं करोति इति व्याख्येयसमानार्थकैकैः पदैरेव विवरणं दृश्यते, तथापि प्रकृतोपयोगि विवरणमिदं ज्ञेयम् । यथात्रैव सूत्रे समपदानि अन्यानि च । एवं सर्वत्राध्याये । द्वितीयाध्याये विपक्षो निश्चि- तस्साध्याभाववान् यथा सांख्यानामसंगपुरुषः भूतकर्तृत्वरूपनिश्चितसाध्याभाववान् । तस्य बाधक- 96
-" or "परविपश्चि-" or "परविपश्वि-"? Look at the ligature: it is 'श्वि' or 'श्चि'. In old typography, 'श्च' has the loop of 'श' and 'च'. Here it's printed as 'श्वि' or 'श्चि'. Let's look: it looks like 'श्वि' (typographical variant of 'श्चि').
Let's check line 17: "त्पदाभ्यां परिघापितं ब्रह्म" -> wait! Could it be "प्रतिपादितं"? Look at the letters: प - रि - ? - पि - तं Wait! Is it "परिभाषितं"? Look at the third letter: it has a circle? No, wait! Could it be "प्रतिपादितं"? No, it has "रि": प, then रि, then... wait! Could it be "परिभाषितं"? In Sanskrit: "परिभाषितं ब्रह्म" (Brahman defined by the two words...)! Yes! लक्षणेन परिभाष्यते इति परिभाषितम्! "लक्षितं स्वरूपलक्षणे... परिभाषितं ब्रह्म"! Notice the parallel: "कार्यलक्षणलक्षितं स्वरूपलक्षणे परविपश्चित्पदाभ्यां परिभाषितं ब्रह्म"! LAKSHITAM ... PARIBHASHITAM! Why does 'भा' look like that? In many old Devanagari fonts, 'भा' is formed with a loop that sometimes doesn't fully close,
कथम् । 'ब्रह्मविदाप्नोति परम्' इति प्रधानवाक्यम् । फलसम्बन्धात् । ऋचापि विवृतम् । 'सत्यं ज्ञानमनन्तं ब्रह्म यो वेद निहितं गुहायां परमे व्योमन् । सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता' इति । फलार्थं च ब्रह्मज्ञानम् । फलं च फलवाक्योक्तधर्मज्ञानादेव, नान्यथा । कर्तृत्वं च परविवरणतयोक्तम् । परं किमित्युक्ते यः सर्वान्तर आनन्द इति । कथं सर्वान्तरमित्याकाङ्क्षायां परिचयार्थं भाष्यप्रकाशः। नोपलक्षणविधया ज्ञानस्यापि फलशेषत्वे सिद्धे प्राधान्यं फलस्यैवेति तत्सम्बन्धादुक्तमेव प्रधान- वाक्यं, न तु कार्यलक्षणवाक्यं तथा । न चैवं पूर्वकाण्डेऽस्तु, उत्तरकाण्डे तत् किमित्युपेयमिति वाच्यम् । ऋचापि विवृतम् । यदि तस्य प्राधान्यं न स्यात् किमिति विवृणुयादतोऽत्रापि तदाद- रम् । तथा सति ज्ञानं फलार्थं, फलं च फलवाक्योक्तधर्मज्ञानात् पर
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ९९ भूतभौतिकसृष्ट्युक्त्या गौणानन्तर्यं परिहृतम् । गौणोपासनाफलं च प्रधानशेष- तयोक्तम् । तस्यान्यगतकर्तृकत्वारोपानुवादोऽपि संभवति । ततश्च भृगुर्वै वारुणिरित्यु- पाख्यानेऽपि परिचायकत्वाद् गौणकर्तृत्वमेवानूद्यते, फलाश्रवणादिति पूर्वः पक्षः । सिद्धान्तस्तु । उत्पत्तिस्थितिनाशानां जगतः कर्तृ वै बृहत् । वेदेन बोधितं तद्धि नान्यथा भवितुं क्षमम् ॥ न हि श्रुतिविरोधोऽस्ति कल्पोऽपि न विरुद्धते । सर्वभावसमर्थत्वादचिन्त्यैश्वर्यवद् बृहत् ॥ भाष्यप्रकाशः । भावाकाङ्क्षायां तन्निष्कर्षणार्थमाकाशादीनां भूतानामोषधीनां भौतिकानां च सृष्टिकथनेन कर्तृत्वं प्रतिपाद्य तस्य सर्वान्तरत्वकथनेन परमत्वाद् गौणमपर्यवसनं प्राणा
१०० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० २ सू० २ वेदेनैव तावज्जगत्कर्तृत्वं बोध्यते । वेदश्च परमाप्तोऽक्षरमात्रमप्यन्यथा न वदति । अन्यथा सर्वत्रैवाविश्वासप्रसङ्गात् । नच कर्तृत्वे विरोधोऽस्ति । सत्यत्वादि- भाष्यप्रकाशः । विवरणार्थे परस्य तृतीयान्तेन ब्रह्मपदेनैव विवृतत्वात् । नच तत्र वेदहिरण्यगर्भब्राह्मणजातिजीवा अर्थत्वेन ग्रहीतुं शक्याः । परपदविवरणात् सान्तत्त्वादिना ब्रह्मापेक्षयोत्कर्षस्य तेष्वशक्यवचन- त्वात् । परशब्दस्यान्यार्थकत्वोपगमेऽपि विवरणोक्तब्रह्मशब्दानुरोधादेत एव परत्वेन ग्राह्याः । तत्प्राप्तिस्तु कर्मणापीति साधनान्तरेण ज्ञानेन को वा विशेषः स्यात् । अत उत्कृष्टार्थकत्वमादर- णीयम् । उत्कृष्टं च किमित्यपेक्षायां विवरणानुरोधाद् ब्रह्मान्तरं कल्प्यम् । तच्चाप्रसिद्धं, स्वरूप- लक्षणहीनं च । न च प्रकृतिः । सांख्यमतेऽपि ज्ञानात्मकपुरुषापेक्षया तस्या हीनत्वात् परार्थ- त्वाच्च । अश्रौतत्वस्य वक्ष्यमाणत्वाच्च । अतो ब्रह्मापेक्षयान्यस्य परत्वेन वक्तुमशक्यत्वादुक्तलक्षण- विशिष्टस्यैव ब्रह्मणः कर्तृत्वं वेदेन बोध्यते । नच तदारोपितमिति शक्यवचनम् । निरङ्कुशस्य तस्यान्यत्रासिद्धताया अनुपदमेव वक्ष्यमाणत्वात् । किं च । वेदः परमाप्तत्वादक्षरमात्रमपि मिथ्या न वदति । यदि क्वापि तथा वदेत्, स्वर्गकामो यजेतेत्यादिविध्यंशे स्वरूपलक्षणांशे चाविश्वसनीयः स्यात् । ततश्च सन्मार्गमात्र- मुच्छिद्येत । अतो यद्यद्यथा वदति तत्तथेति मन्तव्यम् । तेन कर्तृत्वं वेदोक्तत्वादपि वास्तव- मित्येव सिद्ध्यति । नच कर्तृत्वाङ्गीकारे स्वरूपलक्षणविरोधोऽस्ति, येन तदनुरोधादवास्तवत्वं तस्य कल्प्येत । तदुक्तसत्यत्वादिधर्मवत् कर्तृत्वस्याप्युपपत्तेः । नच ब्रह्म यावद्धर्मरहितमिति वक्तुं शक्यम् । स्वरूपलक्षणविरोधात् । तत्र ब्रह्मणि सत्यत्वादिधर्माङ्गीकारात् । नचासत्यजडसान्तव्या- रश्मिः । कारिकायाम् । तृतीयान्तेनेति 'ब्रह्मणा विपश्चिता' इति तृतीयान्तेन । विविधभोगकर्तृत्वस्य सृष्टिमन्तरेणानुपपद्यमानस्य सामर्थ्याज्जगत्कर्तृत्वं न स्वरूपलक्षणविरुद्धमित्यर्थः । यत्तूपनिषद्भाष्ये विपश्चिता मेधाविना सर्वज्ञेनेवेत्यर्थः इति शंकराचार्यास्तदपि सर्वमन्तरेण सार्वज्ञ्यानुपपत्त्या सर्व- कर्तृत्वं द्रढयति । न च भोगकर्तृत्वापेक्षया अशनकर्तृत्वं ज्याय इति शङ्क्यम् । अश्नुत इत्युक्ता- श्ननस्य भोगत्वात् । अत्राप्रधानकर्तरि तृतीया 'सहयुक्तेऽप्रधाने' इति सूत्रेण । क्वचिदप्रधाने कर्मादौ तथाचाप्रधान इत्यस्य विभक्त्यर्थे अप्रधाने इत्यर्थः । न च तत्रेति तृतीयान्ते ब्रह्मपदे इत्यर्थः । यद्यपि ते परत्वमाश्रयन्ते तथापि ज्ञेयब्रह्मापेक्षया नाश्रयन्त इत्याहुः सान्तत्त्वादिनेत्यादि । आदिना सर्वोत्कृष्टत्वम् । ब्रह्मापेक्षयेति परविवरणब्रह्मापेक्षयेत्यर्थः । ननु परस्यान्यत्रानात्म- वैरिदूरकेवलेष्वपि वृत्तिदर्शनात्तेऽर्थाः सन्तु इत्याशङ्का नेत्याहुः परशब्दस्येत्यादि । एत एवेति वेदादय इत्यर्थः । तथा सति ब्रह्मविदिति विशेषणसमर्पकं भवेदित्याहुः तत्प्राप्तिस्त्वित्यादि । वक्ष्यमाणत्वाच्चेति आनुमानिकमप्येकेषामित्यानुमानिकाधिकरणे वक्ष्यमाणत्वादित्यर्थः । अन्यत्र सिद्धस्यैवारोपो दृष्टः प्रकृते तु तदभावादारोपोऽशक्यवचन इत्याहुः निरङ्कुशस्येत्यादि । अनु- पदमिति अत्रैव सत्यत्वादिधर्मवदित्यादिना विशेषेण तु द्वितीयाध्यायद्वितीयपादे । वेद्यञ्चेत्यादि भाष्यं विवृण्वन्ति किं च वेदेत्यादि । अन्यथेति भाष्यं विवृण्वन्ति स्म यदीति । न च कर्तृत्व इत्यादिभाष्यं विवृण्वन्ति न च कर्तृत्वेत्यादि । सर्वथेत्यादिभाष्यं विवृण्वन्ति न च ब्रह्मे- त्यादि । ननु न सत्यत्वादिधर्मो ब्रह्मण्युपेयते अपित्वसत्यत्वादेरभावोऽविकारत्वात्सोऽभ्युपेयते इति निर्धर्मकं ब्रह्मेत्याशङ्क्य निषेधन्ति न चासत्येत्यादि । 100
धर्मवत् कर्तृत्वस्याप्युपपत्तेः । सर्वथा निर्धर्मकत्वे सामानाधिकरण्यविरोधः । सत्य- ज्ञानादिपदानां धर्मभेदेनैव तदुपपत्तेः । नच कर्तृत्वं संसारिधर्मो, देहाद्यध्यास- कृतत्वादिति वाच्यम् । प्रापञ्चिके कर्तृत्वे तथैव । न त्वलौकिककर्तृत्वे । अत एवास्थेत्याह । अस्येति पुरोवर्ती प्रपञ्च इदमा निर्दिश्यते । अनेकभूतभौति- कदेवतिर्यङ्मनुष्यानेकलोकाद्भुतरचनायुक्तब्रह्माण्डकोटिरूपस्य मनसाप्याकलयितु- मशक्यरचनस्यानायासेनोत्पत्तिस्थितिभङ्गकरणं न लौकिकम् । भाष्यप्रकाशः । वृत्तत्वेनैक एवार्थः सत्यादिपदैरुच्यत इति वक्तुं युक्तम् । व्यर्थपौनरुक्त्यापत्तेः । तत्तद्भेदधर्मकत्व- सिद्ध्या घटकुट्यां प्रभाताच । अतः सत्यादिपदानां स्वार्थत्यागोऽपार्थ एव । तदेतदुक्तं धर्मभेदे- नैव तदुपपत्तेरिति । स्फुटमग्रिमम् । [L10
प्रतीतं च निषेध्यम् । नाप्रतीतं, न श्रुतिप्रतीतम् । सत्यत्वादयश्च लौकिकाः । ततः सर्वनिषेधे तदज्ञानमेव भवेत् । नच सत्यत्वादिकं लोके नास्त्येव व्यवहार- मात्रत्वात्, कारणगतमेव सत्यत्वं प्रपञ्चे भासत इति वाच्यम् । तर्हि कर्तृत्वं तथा कुतो नाङ्गीक्रियते । स्मृतिश्च स्वीकृता भवति 'कर्ता कारयिता हरिः' इति । नचारोपन्यायेन वक्तुं शक्यम् । तथा सत्यन्यस्य स्यात् । तन्न न प्रकृतेः । अग्रे स्वयमेव निषिध्यमानत्वात् । न जीवानामस्रातन्त्र्यात् । न चान्येषामुभय- भाष्यप्रकाशः । प्रतीतमित्यादि । युक्तः प्रतिषेधः । परंत्वस्थूलादिवाक्ये लोकप्रतीता एव प्रतिषिद्ध्यन्त इत्यत्रापि प्रतीतमेव प्रतिषेध्यम् । अत एव नाप्रतीतम् । प्रसञ्जयितुमशक्यत्वेन प्रतिषेधानर्हत्वाच्च । न श्रुतिप्रतीतम् । तुल्यबलत्वात् प्रत्यायनवैयर्थ्यापाताच्च । श्रुत्युक्ताः सत्यत्वादयोऽपि यदि लौकि- कत्वेनाहतास्ततो लोकश्रुतिप्रतीतसाधारण्येन सर्वनिषेधे ब्रह्मज्ञानमेव भवेत् । तथाच स्वरूपलक्षण- वैयर्थ्यं सर्वनाशश्च स्यात् । नच तदभावाय लोकस्य व्यवहारमात्रत्वात् तत्रापि कारणगतमेव सत्य- त्वमतो न तत् प्रतिषेध्यं, किं तु कर्तृत्वमेवेति वाच्यम् । तदा तु धर्मसंकोचस्य तौल्यात् कर्तृत्व- मपि तथाङ्गीकार्यम् । तेन कल्पस्मृतिस्वीकाररूपगुणोऽपि भविष्यति । नन्वगत्या सत्यत्वं तथास्तु, न तु कर्तृत्वमपि । आरोपन्यायेन तस्य शक्यवचनत्वादित्यत आहुः न चेत्यादि । अन्येषा- मिति अभावकालस्वभावभूतग्रहलोकपालादीनाम् । ननु प्रकृते फलवाक्यविचारो भवतापि रश्मिः । श्रुतिभिः । अत इति कर्तृत्वाकर्तृत्वयोः प्राप्तौ युक्तत्वादित्यर्थः । इत्यत्रापीति नित्यशुद्धबुद्ध- मुक्तस्वभावमित्यादिष्वित्यर्थः । प्रसञ्जयितुमिति अभावस्य प्रसक्तिं कर्तुम् । प्रतिषेधानर्हत्वा- दिति । यथाहुः अभावलौकिकप्रत्यक्षं प्रति प्रतियोगिज्ञानस्य हेतुत्वमन्यथा प्रतियोगिज्ञानशून्यकाले नेत्याकारकप्रतियोगिमिश्रिताभावलौकिकप्रत्यक्षं स्यादिति प्राञ्चो नैयायिकाः । तुल्यबलत्वादिति । उपजीव्यत्वतः श्रौतवाक्यतोन्यपरत्वतः । ‘अन्तरङ्गत्वतश्चापि तुल्यमत्रोभयोर्बलम्’ इत्यर्थः । तथाहि निर्गुणप्रतिपादिकासु आधारनिरूपकत्वेनोपजीव्यत्वं कारणत्वमत एवान्यपरत्वं निर्गुण- प्रतिपादकस्वरूपमत एवान्तरङ्गत्वं धर्मनिरपेक्षत्वेन स्वल्पापेक्षस्वरूपम् । एवं सगुणप्रतिपादिका- स्वपि विरहप्रतियोगिनिरूपकत्वेनाधारनिरूपकत्वेन चोपजीव्यत्वमन्यपरत्वं च । कार्यस्वरूपयोरेकब्रह्म- लक्षणत्वात् धर्मनिरपेक्षत्वस्य स्वरूपलक्षणेपि प्रकाशाश्रयन्यायेन वक्तव्यत्वात्प्रकृतेपि तत्संभ- वेनान्तरङ्गत्वं च तुल्यं, एवमप्युपपादनसौष्ठवाच्छ्रौता धर्मा निषेध्या इत्याकाङ्क्षायां हेत्वन्तरमाहुः प्रत्यायनेत्यादि । तथा सति प्रक्षालनपङ्कन्यायेन धर्मान्न प्रत्याययेदित्यर्थः । सत्यत्वादय इत्यादि भाष्यं विवृण्वन्ति श्रुत्युक्ता इत्यादि । सर्वनाश इति ब्रह्मज्ञाने तद्विषयकस्य दृढभक्त्यादेरुच्छे- दात्तथा स्यादित्यर्थः । न च सत्यत्वेत्यादि भाष्यं विवृण्वन्ति न च तदित्यादि । तथाङ्गीकार्य- मिति कारणगतमेव कर्तृत्वं लोकेऽङ्गीकार्यमित्यर्थः । स्मृतिश्चेत्यादिभाष्यं विवृण्वन्ति तेनेत्यादि । कल्पस्मृतीति भाष्योक्तकल्पस्मृतीत्यर्थः । भाष्ये तथासतीति आरोपोऽन्यगतधर्मस्येति कर्तृत्वस्यान्यधर्मत्वे सतीत्यर्थः । अत्र इति यथा बर्हिर्देवसदनं दामीत्यत्र बर्हिर्लवनसामर्थ्यं दामीति शब्दादालोच्यानेन लवनं विदध्यादिति श्रुतिं कल्प- यित्वा लवनाङ्गत्वं मन्त्रस्य । प्रकृते । अभावेत्यादि अभावो नास्तिकानां, कालस्वभावौ श्वेताश्वतरे, भूतो-
निषेधोवैव । तस्माद् ब्रह्मगतमेव कर्तृत्वम् । एवं भोक्तृत्वमपि । न वा काचि- च्छुतिः कर्तृत्वं निषेधति । विरोधभानात् कल्प्या तु लौकिकपरा । फलवाक्ये- ऽप्यश्रुतानां गुणोपसंहारः कर्तव्यः । तथाचार्यं सूत्रार्थः । जन्म आदिर्येषा- मित्यवयवसमासावतद्गुणसंविज्ञानो बहुव्रीहिः ।
भाष्यप्रकाशः ।
स्वीकृतस्तथा सति तद्विवरणोक्तं भोक्तृत्वं तत्रास्तु, कर्तृत्वं तु कथमङ्गीकृतं शक्यमित्यत आहुः गुणोपसंहार इति सूत्रकृताग्रे तथाङ्गीकारात् तथेत्यर्थः । तस्माद् ब्रह्म कर्तृ इति सिद्धम् । एवं सिद्धान्तं व्याख्याय तस्य सूत्राविरोधित्वं बोधयितुं सूत्रं व्याकुर्वते तथाचेत्यादि । एवं कर्तृत्वे सिद्धे वक्ष्यमाणरीतिकः सूत्रार्थ इत्यर्थः । अत्र सर्वेऽपि तद्गुणसंविज्ञानं बहुव्रीहिमङ्गीकुर्वन्ति । तत्रोपसर्जनत्वेन पूर्वप्रयोगार्हस्यादिशब्दस्य परत्वाय राजदन्ता
१०४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० २ सू० २ भाष्यप्रकाशः । वयव इत्यङ्गीकाराच्च । तत्रैकस्याचो विशिष्टावयवत्ववदत्र आद्यादीनां समूहावयवत्वेन तद्वाचक- पदानां समासेऽवयवसमासत्वस्य सुखेन संभवात् । एतस्यातद्गुणसंविज्ञानत्वं त्वेवम् । तथाहि । उक्तसूत्रे कैयटेन तद्गुणसंविज्ञानपदं द्वेधा व्याख्यातम् । तस्य अन्यपदार्थस्य गुणो विशेषणं तस्य संविज्ञानं येनेति । स वर्तिपदार्थो गुणो यस्यान्यपदार्थस्य तस्य संविज्ञानं येनेति च । तत्रोदाहरणं तु शुक्लवाससमानयेति । तत्र शुक्लवासः- संयुक्तपुरुषानयने पृथगनोदितान्यपि वासांसि संबन्धसामर्थ्यादानयनेन संबध्यन्त इत्युक्तम् । इदं च लम्बकर्णमानयेत्यादावपि तुल्यम् । एवं सत्यन्यपदार्थविशेषणस्य यत्र संबन्धसामर्थ्यात् कार्यसंबन्धस्तत्र तद्गुणसंविज्ञानः । यत्र तस्य संबन्धसामर्थ्यात् कार्ये संबन्धाभावस्तत्रातद्गुण- संविज्ञानः । यथा चित्रगुमानयेत्यत्र । अत्र हि पुरुषानयने समासवर्तिपदार्थभूतानां चित्राणां गवां सन्निधानाभावान्न कार्येण सह संबन्ध इति । एवं सति प्रकृतेऽन्यपदार्थभूतानां प्रधानानां स्थिति- प्रलयाभिसंवेशानामेकदेशतया तद्विशेषणीभूतो य आदित्स्य प्रथमान्तरव्यावर्तकतया जन्म विशेषणम् । स्वयं तु वर्तिपदार्थे विशेष्यः । तस्य धर्मरूपं यत्प्राथम्यं तदपेक्षाबुद्धिजन्यम् । तस्य निरूप्यत्वमपि स्थित्यादिजन्यमतः सोऽत्र सूत्रेऽर्थादायातायां ब्रह्मकर्तृकभवनक्रियायां न सं- रश्मिः । क्षितस्य । आद्यादीनामिति आदेरादि जन्म आद्यादि, आदिरादिर्येषां स्थितिलयाभिसंवेशानां त आद्यादयः, आद्यादि च आद्यादयश्च आद्यादयः तेषामाद्यादीनाम् । येनेतीति येनेति तृतीयान्तान्यपदार्थकथनं तु तस्यान्यपदार्थस्य गुणो विशेषणं तस्य संविज्ञानं स वर्तिपदार्थो गुणो- ऽवयवो वा यस्यान्यपदार्थस्य तस्य संविज्ञानमित्यस्याग्रे संनिहितविशेषणस्यान्यपदार्थस्य विशिष्टसं- बन्धाश्रयेण केनचिद्बहुव्रीहिणाभिधानादित्यर्थः । इत्युत्तरग्रन्थसूचितं ज्ञेयम् । शब्दरत्ने तु तस्यान्य- पदार्थस्य गुणा विशेषणानि संज्ञायन्ते कार्यित्वादिना यत्रेति 'सर्वादीनि सर्वनामानि' इत्यत्र व्याख्यातम् । तद्गुणसंविज्ञान इति तथाच प्रायः संयोगसमवायान्यतरसंबन्धेन संबन्धी यत्र ऽन्यपदार्थस्तत्र तद्गुणत्वमिति शब्दरत्नोक्तं लक्षणं पर्यवसितं ज्ञेयम् । नैयायिकास्तु लक्ष्यतावच्छेदकस्य विशेष्यान्वय्यन्वयित्वं लक्षणमाहुः यन्न तस्येति । इदमपि संयोगसमवायातिरिक्तस्वस्वामिभावादिसंबन्धेन संबन्धी यत्रान्यपदार्थः तत्र तद्गुणत्वमिति शब्दरत्नोक्तं लक्षणं नातिवर्तते । नैयायिकास्तु लक्ष्यतावच्छेदकस्य विशेष्यान्वय्यन्वयित्वं लक्षणमाहुः । अत्रैतावान् विशेषः । समासशक्तिवादिनां विशेषणस्य विशेष्यान्वय्यन्वयित्वे तदनन्वयित्वे उक्तसंबन्धो नियामकः । लक्षणावादिनां नैयायिकानां तु शब्दस्वभाव एव तन्नमिति । सन्निधानाभावादिति अत एव नाग्नयज्ञोपवीती भोज्यतामित्यादौ यज्ञोपवीतस्य कार्यित्वाभावेपि तत्सन्निधानात्तद्गुणत्वमिति हरिग्रन्थः । नैयायिकानां मते तु अतद्गुणसंविज्ञान एव । प्रधानानामिति विशेष्याणामित्यर्थः । स्थितीत्यादि । अभिसंवेशः सुषुप्तिस्तत्सुखमित्यर्थः । प्रथमान्तरेति जन्मतः प्रथमान्तरेत्यर्थः । स्वयं त्विति आदिरित्यर्थः । तस्येति आदेरित्यर्थः । अत इति प्राथम्यस्य निरूप्यत्वस्य चापेक्षा- बुद्धिजन्यत्वेन स्थित्यादिज्ञानजन्यत्वेन च साक्षाद्ब्रह्मजन्यत्वाभावादित्यर्थः । ब्रह्मकर्तृकेत्यादि यतो १. कार्यकारणभावसंबन्धाभावेन । २. अभिधावृत्तिः पदधर्मः 'पदज्ञानं तु करणम्' इति भाषापरिच्छेदात् । ३. कार्यकारणभावसंबन्धस्त्वग्रिमभागान्तरपरं सूत्रमवेति मन्यतूसूचितम् । ४. विशेष्यगुण्यस्वरूपं कार्यम् । 104
भाष्यप्रकाश-रश्मि-परिवृंहितम् । १०५ भाष्यप्रकाशः । सज्जन्ते । तत्संबन्धे तद्द्वारा जन्मनोऽपि न संबन्ध इत्यस्य समासस्यातद्गुणसंविज्ञानत्वम् । इदं च तद्गुणसंविज्ञानस्य प्रथमलक्षणादरे बोध्यम् । द्वितीयलक्षणादरे तु तद्गुणकस्य विशेष्यस्यान्यप- दार्थस्य संविज्ञानं समायाति । तच्च चित्रगुरित्यत्रापि वर्तत इति तद्वारगाय विशेषणसंबन्धपूर्वक एव तस्य क्रियासंबन्धो वक्तव्यः । तदाप्यत्र विशेष्यभूतानां स्थित्यादीनां विशेषणसंबन्धपूर्वको न क्रियासंबन्ध इति पूर्ववदेवात्तद्गुणसंविज्ञानत्वम् । यदि च संविज्ञानपदेन वर्तिपदार्थस्य तद्विशेष्यस्य वा प्रव्यक्तीभाव एवाद्रियते तदा तु विशेष्यविशेषणयोर्ज्ञातत्वेनास्माकं तत्प्रव्यक्तीभावाभावाद् भाववृत्तसूक्ते, 'सोऽङ्ग वेद यदि वा न वेद' इति श्रावणाच्चातद्गुणसंविज्ञानत्वमिति न कोऽपि शङ्कालेशः । अत्रैतत्समासादरेश भाववृत्तसूक्ते, यदि वा नेतिवाक्यबोधितानाधानपक्षसूचना- रश्मिः । जन्मादयोस्य भवन्तीति सूत्रान्वयाज्जन्मादिकर्तुका भवनक्रिया तथापि सूत्रे यत इति पञ्चमी 'जनिकर्तुः प्रकृतिः' इति सूत्रादित्याशयः । तत्संबन्ध इत्यादि आदेः प्राथम्यवाचकस्यापेक्षाबुद्धिजन्यत्वेन ब्रह्मजन्यत्वाभावात् तद्धेतुकभवनक्रियायाऽसंबन्धे तद्विशिष्टजन्मनोपि संबन्धेनो न विशेषणसंबन्धाभाव- प्रयुक्तो विशिष्टाभाव इत्यस्य समासस्यातद्गुणसंविज्ञानत्वमित्यर्थः । बोध्यमिति अन्यपदार्थस्य स्थित्यादेर्गुणो जन्म तत्सांसंविज्ञानमग्रेत्रेत्थं बोध्यमित्यर्थः । तद्गुणकस्येति समासवर्तीपदार्थगुण- कस्यान्पदार्थस्य स्थित्यादेरित्यर्थः । एवं कैयटोक्तलक्षणद्वयसमन्वयमुत्त्वा तद्गुणसंविज्ञान इत्य- न्यमपदार्थगुणानां कार्यित्वादिना संविज्ञानमिति पक्षे संविज्ञानपदसान्वयलक्षकत्वं लक्ष्यंता- बच्छेदकस्य विशेष्यान्वय्यन्वयित्वमिति पक्षेपि तथेति वक्तव्यं तथा सति तद्गुगनान्वय इति वक्तव्ये संविज्ञानपदकथनेन तस्य तद्गुणानां च प्रव्यक्तीभाव एवाभिप्रेत इत्याशयेन प्रकारान्तरमाहुः यदि चेत्यादि । तद्विशेष्यस्य वेति वर्तिपदार्थविशेष्यस्यान्यपदार्थस्य चेत्यर्थः । वाकारश्चकारार्थः । एतत्पक्षे प्रकृतेऽतद्गुणे संविज्ञानत्वं निगमयन्ति तदा त्वित्यादि । षड्भावविकाररूपयोर्जन्मप्राथम्य- रूपयोर्वा विशेष्यविशेषणयोर्जनितत्वेन जगद्भवत्वेनं साक्षाद्ब्रह्मणस्तद्विषयकसंज्ञानत्वाभावादित्यर्थः । शांकराणां सर्वस्य मायिकत्वादस्माकमित्युक्तम् । नन्वसार्वज्ञ्यापत्तिरेवं भवेदित्यतः श्रुतिं प्रमाणयन्ति भाववृत्तेत्यादि । इयं श्रुतिर्ब्राह्मणस्य द्वितीयाष्टकेस्ति तत्रैतस्याः पूर्व 'नासदासीन्नो सदासीत्त- दानीम्' इत्याद्युक्त्वा 'तम आसीत्तमसा गूढमग्रेऽप्रकेतम् । सलिलं सर्वमा इदम्' इत्यादिना सृष्टिं च । ततः 'को अद्धा वेद क इह प्रवोचत् कुत आजाता कुत इयं विसृष्टिः । अर्वाग्देवा अस्य विसर्जनेनाय । अथा को वेद यत आबभूव । इयं विसृष्टिर्यत आबभूव यदि वा दधे यदि वा न । यो अस्याध्यक्षः परमेव्योमन्' इति श्रूयते । तथा च सोध्यक्षो विसृष्टिं जन्म वेद यदि वा विसृष्टिं न वेदेति जन्मनो ज्ञानाविषयत्वेनातद्गुणत्वमित्यर्थः । यदीत्यस्य। यदा भगवान् सच्चिदानन्दरूपो धर्मरूपे- णाविर्भवतीत्यादिक्रमेण ततो जाता तदा तु धर्मरूपेणादधे, यदा तु स्वयमेव तथाविर्भूतस्तदा न दधे । सर्वस्य ब्रह्मणतिरेकादित्यर्थः । तथा च विकारान्तरज्ञानदशायां जन्मनः प्रव्यक्तत्वाभावातदसंविज्ञानं नैतावताऽसार्वज्ञ्यमिति भावः । न कोपीति । या तु 'यस्मिन्विदतेऽसं च विचैति सर्वम्' इति श्रुत्या जन्मनः सिद्धत्वेन भौतत्त्वात् तद्गुणसंविज्ञान एव युक्त इत्याशङ्का सापि नेत्यर्थः । जन्मनो ब्रह्मकर्तृक- त्वेपि श्रौतस्तद्वेदावेदावज्ञानमुक्तम्, विरुद्धधर्माश्रयत्वेन माहात्म्यज्ञानं च द्योतितम् । अनाधानपक्षेति १४ ब्र० सू० २० 105
१०६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० २ सू० २ अथवा जन्मप्रभृति सर्वे भावविकारा आदिशब्देन गृह्यन्ते । तथाच जन्म च आदिश्चेत्येकवद्भावः । आदिशब्दश्च धर्मवाची । स च स्वसंबन्धिनं लक्षयति। तस्योभयसापेक्षत्वादुत्पत्तेर्विद्यमानत्वादन्यानेव भावविकारानुपलक्षय- तीत्यादिशब्देनान्ये भावविकाराः । भाष्यप्रकाशः। जन्मस्थितिभङ्गादीनामाविर्भावादिरूपत्वबोधनेन भगवानेव तत्तद्रूपः क्रीडाविस्तरश्च भवतीति पुष्टिसृष्टिप्रकारो बोधितः । तथाच जन्म आविर्भाव आदिर्येषां प्रकाराणामित्यर्थो बोध्यः । प्रवाह- सृष्टिबोधनाय प्रकारान्तरमाहुः अथवेत्यादि । प्रभृतिशब्दः पूर्वावधिवाचकः । सर्व इति जायतेऽस्ति विपरिणमते वर्धतेऽपक्षीयते नश्यतीतिप्रतीतिसिद्धा यास्कोक्ताः षट् । कथं गृह्यन्त इत्यपेक्षाया- माहुः तथाचेत्यादि । सर्वोऽपि द्वन्द्वो विभाषैकवद्भवतीत्येकवद्भावः । आदिशब्दश्च प्राथम्यरूप- धर्मवाची । पूर्वतन्त्रे शब्दानां धर्मवाचकत्वस्य सिद्धत्वात् । स च स्वसंबन्धिनं लक्षयति । तत्र कं लक्षयतीत्याकाङ्क्षायां तस्य यथोत्पत्तावाधारता तथाग्रिमेषु निरूपकता । प्राथम्यस्योभयसापेक्षत्वात् । अत उत्पत्तेरत्र कण्ठोक्तत्वेन विद्यमानत्वादन्यानेवोपलक्षयतीति तथेत्यर्थः । तेन विषयवाक्यो- दितौ स्थितिभङ्गौ प्रत्याहारन्यायेनान्येषामपि बोधकौ । कालादिगतमपि कर्तृत्वं भगवदीयमेव, न तु स्वतन्त्रमिति च बोधयितुमत्रादिपदोक्तिरिति तात्पर्यं सूचितम् । एवं व्याख्याने आदिपदस्य लाक्षणिकत्वम् । तथादिपदेन आदित्वधर्मवतस्य जन्मनोऽपि संग्रहीतुं शक्यत्वाज्जन्मपदवैयर्थ्या- रश्मिः। स्वस्यैव सर्वरूपत्वेन धारणपक्षेत्यर्थः । पुष्टिसृष्टिप्रकार इति ब्रह्मैव कार्यकारणरूप इति प्रकार इत्यर्थः । 'पुष्टिं कायेन निश्चयः' इति पुष्टिप्रवाहमर्यादाग्रन्थवाक्यात् । अत्र पक्षे सर्वस्यानन्दरूपतया विकारविरहादर्थमाहुः तथा च जन्मेत्यादि । प्रकाराणामिति । 'लोक- वत्तु लीलाकैवल्यम्' इति न्यायेन लौकिकभावविकारसदृशप्रकाराणामित्यर्थः । प्रवाहेत्यादि प्रवाहः प्रवहणम् । सर्गपरंपरया अविच्छेद इति यावत् । 'द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च' 'द्वया ह प्राजापत्या देवाश्चासुराश्च' इति श्रुतिस्मृतिभ्याम् । अत्र समवायी मायामनोरूपः 'द्वे अस्य बीजे' इत्यारभ्य 'मायामयं वेद स वेद वेदम्' इति भगवद्वाक्यात् । मायामात्रस्यैव मिथ्यात्वं न सर्वस्य । प्रवाहस्य सदसद्भिन्ननिरूपत्वात् । संध्याधिकरणे स्फुटीभविष्यतीदम् । प्रभृतीत्यादि तथा च जन्मपूर्वावधिकसर्वे भावविकारा इति भाष्यार्थः । यास्कोक्ता इति निरुक्तप्रसिद्धो यास्कर्षिः । सर्वोपीत्यादि परिभाषेयम् । आदिशब्द इति भाष्यं विवृण्वन्तिस्म आदिशब्दश्चेति । पूर्वतन्त्र इति आकृत्यधिकरण इत्यर्थः । स्वसंबन्धिनमाश्रयं, तं विना स्थातुं धर्मो न शक्नोतीति भावः । लक्षणायां संबन्धं वक्तुमाहुः तत्र कमित्यादि । तस्य यथेत्यादि प्राथम्यस्य यथा जन्म- न्याधारता तथाग्रिमेष्वस्त्यादिषु निरूपकता, प्राथम्यस्यास्त्यादिनिरूप्यत्वात् । उभयसापे- क्षत्वादिति आधारनिरूपकसापेक्षत्वादित्यर्थः । उपलक्षयतीति निरूपकतासंबंधेनोपलक्षयतीत्यर्थः । ननु कथं तर्हि आदिशब्दप्रयोग इत्यत आहुः तेनेत्यादि । प्रत्याहारन्यायेनेति 'आदिरन्त्येन सहेता' इति सूत्रसिद्धेनेत्यर्थः । अन्येषामिति विपरिणामवर्धनपक्षयाणामित्यर्थः । कर्तृत्वमिति कालेन विपरिणमतीत्यादिप्रतीत्या विपरिणामादिकर्तृत्वमित्यर्थः । भगवदीयं तृतीयस्कन्धवाक्यात् कालादी- नामीश्वराधीनकर्तृत्वात् । तथा चापि जन्मादि कर्तृत्वं सूचयितुमादिपदेनास्त्याद्युपलक्षणमिति भावः । 106
अथवा जन्मनो नादित्वम् । तदाधारस्य पूर्वमविद्यमानत्वात् । अन्ये त्स्वादिमन्तः । तदाधारस्य पूर्वं विद्यमानत्वात् । अत आदिशब्दः स्वाधारस- द्धर्मवाची तद्धर्माणामुपलक्षकः । अथवा गमनप्रवेशयोर्भेदाज्जन्म आदिर्येषामिति भाष्यप्रकाशः । पक्षिरित्यरुच्या प्रकारान्तरेण व्याकुर्वन्ति अथवा जन्मन् इत्यादि । बहिर्विद्यमाने जन्माधारे पश्चाज्जन्म चेत्तदा जन्म प्रत्याधारस्य तद्गतधर्मस्य चादिता संभवति । प्रकृते तु तन्नास्तीति जन्मनो नादित्वम् । अन्येषां तु भावविकाराणामुक्तयुक्त्यादिमतो हेतोरादिशब्दः स्वाधारसद्धर्मवाची आदि- त्वाधारभूतोऽस्तिपदवाच्यो धर्मस्तस्यान्यापेक्षया प्राथम्यात् तत्पूर्वकमेव तं वदन्नादिस्तस्य स्वापेक्षतया तद्धर्माणं विपरिणामादीनामुपलक्षक इति न स्वार्थत्यागदोषो, नापि जन्मपदवैयर्थ्यदोष इत्यर्थः । अस्मिन् पक्षे असत्कार्यवाद आपतति । तथापि यदेतस्य कथन
१०८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० २ सू० २ जात्यपेक्षयैकवचनम् । जन्म तु श्रुतत्वात् सिद्धम् । अथवा किमनया कुसृष्ट्या । जन्म आद्यस्य आकाशस्य यत इति । भाष्यप्रकाशः । वेद्ययोः पूर्वोत्तरावधिभूतसंचरप्रतिसंचरयोर्मध्ये कार्यस्वरूपस्य कारणतो भेदाज्जन्मादयो भवन्तीति जन्म आदिर्येषां तत्तज्जातीयं जन्मादि । जातिरत्र विकारत्वं क्रियात्वं वा । अत्र, 'ब्राह्मणो जन्मतः श्रेयान्', 'न ब्राह्मणान्मे दयितं रूपमेतच्चतुर्भुजम्' इत्यादाविव जात्यपेक्षयैकवचनम् । तच्चाद्य यद्यपि, सुपां सुलुगिति जसो लोपे जन्मादीति सिध्यति तथापि विकारान्तरसंग्रहस्तेन न भवत्यतस्तदुपेक्षि- तम् । नपुंसकं तु सामान्ये । एतत्पक्षसंग्रहे बीजमाहुः जन्म तु श्रुतत्वात् सिद्धमिति । जन्म तु, 'यस्मिन्निदं सं च वि चैति सर्वम्' इति तैत्तिरीये
'तस्माद्वा एतस्मादात्मन आकाशः संभूतः' इत्येष विचार्यते । फलसंबन्धित्वात् । तेनैकत्र सिद्धः शास्त्रार्थः प्रकारान्तरेऽपि । यतो वा इमानि भूतानीत्यत्र विस्फुलिङ्गवत् सर्वोत्पत्तिः । अत्र तु क्रमेणेति विशेषः । एतेन सर्व एव प्रकाराः भाष्यप्रकाशः । लक्षणत्वमायाति, न तु सर्वभूतजनकत्वस्य तत्स्थित्यादिकर्तृत्वस्य च । तथा सति वाक्यान्तरे ब्रह्मभेदापत्तिरित्याशङ्कायामाहुः तेनेत्यादि । यद्वा, यतो वेति वाक्यं विषयत्वेनादरणीयं तदाप्ययं न्यायस्तु सर्वत्राङ्गीकार्य एव । अन्यथा आकाशवाक्येऽपि ब्रह्मान्तरापत्तिः स्यात् । अतो जनन- प्रकारस्यैव भेदो न तु ब्रह्मण इति न कोऽपि दोष इत्यर्थः । यतो वेतिश्रुतौ, यत् प्रयन्त्यभिसंवि- शन्तीत्यस्य भागस्य यद् ब्रह्म प्रयन्ति प्रकर्षेण सृष्टिसामयिकदुःखराहित्येन प्रलये गच्छन्ति, अभितः संविशन्ति स्वपन्ति
यहाँ पृष्ठ की पंक्ति-दर-पंक्ति शुद्ध देवनागरी पाठ प्रस्तुत है:
११० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० २ सू० २ सूचिता वेदितव्याः । ब्रह्मविचारे ब्रह्मणोऽप्यधिकृतत्वाद् ब्रह्मेत्यायाति । न स्वध्याहारः । शास्त्रे योनिः शास्त्रयोनिः । शास्त्रोक्तकारणत्वादित्यर्थः । शास्तीति शास्त्रं वेदः । सामान्यग्रहणं पूर्वकाण्डे पूर्वसृष्टिवाक्यानां संग्रहार्थम् । यथाऽस्यैव कारणत्वं, नान्यस्य तथोपरिष्टाद् वक्ष्यामः । मतान्तरवज्जन्मादीनां न विकारित्वं किंत्वाविर्भावतिरोभावावेव तयोत्तरत्र वक्ष्यते, तदनन्यत्वा- धिकरणे । नामलीलाया अपि न पृथङ् निरूपणं प्रपञ्चमध्यपातात् । भाष्यप्रकाशः। तदाशयं स्फुटीकर्तुं पञ्चत्रयेण व्याख्यातमित्यर्थः । नन्वत्र लक्ष्यानिर्देशात् प्रतिज्ञायां च संबन्धिविचारस्यैवाधिकृतत्वेन ब्रह्मणोऽनधिकृतत्वाद्ब्र झज्ञानुषङ्गेरशक्यवचनत्वेन ब्रह्मपदं ब्रह्म वाऽध्याहार्यम् । कर्मषष्ठीपक्षे तु प्रकृतत्वादेव तत्प्राप्तेर्नायं दोष इत्यत आहुः ब्रह्मेत्यादि । तथाचार्थादेव तत्प्राप्तेर्नोक्तदोष इत्यर्थः । एवं लक्षणबोधकं सूत्रांशं व्याख्याय प्रमाणबोधकमंशं व्याकुर्वन्ति शास्त्रे इत्यादि । शास्त्रे इति सप्तम्या वैषयिकमधिकरणं बोध्यते । शास्त्रविषयो योनिः शास्त्रयोनिः । विषयत्वं प्रतिपाद्य- त्वम् । तदेतदभिसंधायाहुः शास्त्रोक्तेत्यादि । शास्तीति राजवदाज्ञापयति । एतेन तद्विरोधेऽ- पराधोऽपि बोधितः । नन्वत्रोत्तरकाण्डार्थ एव विचार्यत इति शास्त्रशब्दस्य कुतः प्रयोग इत्यत आहुः सामान्येत्यादि । पूर्वसृष्टिवाक्यानामिति । भाववृत्तसूक्तादीनाम् । एतेन वेदार्थतयैवात्र सूत्रकृतो ब्रह्म विवक्षितमिति श्लोके बीजं प्रदर्शितम् । ननु योनिशब्दो निमित्तवाची प्रायो दृश्यते इति साधारणेन कारणपदेन कुतो व्याख्यायत इत्यत आहुः यथेत्यादि । उपरिष्टादिति अग्रिम- सूत्रे, तथाचातो व्याख्यात इत्यर्थः । अत्र कश्चिज्जन्मादिसूत्रस्येन यत इति पदेनैव विषयश्रुतेः कारणात् सिद्धे शास्त्रप्रमाणकत्वे, शास्त्रयोनित्वसूत्रं व्यर्थमित्याह । तन्न । यत इत्यस्य हेतुकोटौ प्रवेशे जन्माद्यस्येतिभागस्य प्रपञ्चवृत्तान्तपरतया ब्रह्मलक्षणत्वायोगेनासङ्गतत्वप्रसङ्गात् । नच लक्षणे प्रविष्टस्यैव यतःशब्दस्योक्तश्रुतिस्मारकत्वमित्यपि युक्तम् । श्रुतौ भूतानीति बहुवचनेन रश्मिः । प्राणिबुद्धिस्थो यदा तदा कूटस्थ इत्युच्यते' इति सर्वोपनिषदि । अष्टविशिष्टता 'भूमिरापोऽनलः' इति गीतायामह तद्विशिष्टता । संबन्धीति ब्रह्मशब्देन वेदः तत्संबन्धिविचारस्य । एवकारेण ब्रह्मरूपार्थ- व्यवच्छेदः क्रियते । मीमांसक मतेनार्थीध्याहारमाहुः ब्रह्म वेति । तत्प्राप्तेरिति ब्रह्मरूपलक्ष्य- प्राप्तेरित्यर्थः । भाववृत्तेत्यादि ब्राह्मणस्य द्वितीयाहकस्नानामित्यर्थः । आदिपदेन संहितोक्तानां 'प्रजापतिरकामयत प्रजाः सृजेय' इत्यादीनाम् । एतेनेति शास्त्रपदोपादानेनेत्यर्थः । निमित्त- वाचीति 'तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता' इति मातुरूपत्वबोधनादित्यर्थः । अत इति अभिन्ननिमित्तोपादानत्वादित्यर्थः । हेतुकोटावित्यादि यत इत्यादिश्रुतेरित्येवं हेतुकोटौ प्रवेशस्य प्रप- श्चस्य जन्मादि भवतीत्येवं प्रपञ्चवृत्तान्तपरतया ब्रह्मलक्षणत्वायोगाेन सूत्रस्याभासेनासंगतत्वप्रसङ्गा- दित्यर्थः । न च यतः शास्त्रयोनित्वात् इति हेतुकोटिप्रवेशोऽस्त्विति शङ्कयं परैरप्यनङ्गीकारात् । अन्त्य- पक्षं समर्थयितुमुपन्यासद्र्यामाहुः न च लक्षण इत्यादि । जगज्जन्मादिप्रपञ्चवृत्तान्ते आर्थिके लक्षणे प्रत्ययांशस्य प्रविष्टत्वेन यतःशब्दस्यापि प्रविष्टस्यैवेत्यर्थः । आभासोक्तपक्षे तु जन्माद्यस्य यत इति 110
केचित् पृथग्रूपनामप्रपञ्चकर्तृत्वं योगविभागेन प्रतिज्ञाय समन्वयादि- सूत्रेष्वेव हेतून् वर्णयन्ति। अन्वयसिद्धार्थं च अतति व्याप्नोतीत्यत्। शास्त्रे योनित्वं प्राप्तं तदिति नैतत् सूत्रकारसंमतमिति प्रतिभाति।
भाष्यप्रकाशः। लक्षणस्य तद्विरुद्धत्वापत्तेः । नच जात्यपेक्षयैकवचनान्न विरोध इति वाच्यम् । तथा सति वाक्यान्तरासंग्रहेण ब्रह्मभेदापत्तेः । तस्माच्छास्त्रयोनित्वादित्यवश्यं प्रणेतव्यम् । ननु तथापि साधारणशब्देन व्याख्यानमयुक्तम् । जन्मादीनामादिमत्तया असत्त्वेनाग्रिमसूत्रेष्वपि तटस्थकारण- ताया एव सिद्धेरित्यत आहुः मतान्तरेत्यादि । न्यूनत्वरूपं प्रतिज्ञादोषं परिहरन्ति नामेत्यादि । शांकरमतमनुवदन्ति केचिदित्यादि । तन्मते दशसूत्रं जन्माद्यधिकरणम् । तत्र द्वाभ्यां प्रतिज्ञा। तत्र द्वितीयसूत्रे पञ्चम्यनन्वयादन्वयसिद्धार्थं तथा वर्णयन्तीत्यर्थः । तद् दूषयन्ति नैतदित्यादि । शास्त्रयोनिरित्येतावत्तैव प्रतिज्ञासिद्धावपि त्वादित्यधिककथनादग्रिमसूत्रे पुनः साध्यपरामर्शाच्च तथेत्यर्थः । यत्पुनः शास्त्रस्य योनिरिति षष्ठीतत्पुरुषमङ्गीकृत्य, महत् ऋग्वेदादि- शास्त्रस्य सर्वार्थविद्योतिनः सर्वज्ञकल्पस्य संभवो, न सर्वज्ञादन्यतः संभवतीत्येवं ब्रह्मणः सर्वज्ञत्वं समर्थितम् । 'अस्य महतो भूतस्य निःश्वसितं यद् ऋग्वेद' इत्यादिबृहदारण्यकीयश्रुतिमादाय पुरुष-
रश्मिः । लक्षणे प्रविष्टस्य । उक्तश्रुतिर्यत इति श्रुतिस्तत्स्मारकत्वं न तु 'तस्माद्वा एतस्मात्' इति श्रुतिस्मारकत्वम् । लक्षणस्येति आकाशमात्रभूतकर्तृत्वस्यान्तिमलक्षणस्य श्रुतिविरुद्धत्वापत्ते- रित्यर्थः । अथवा एकजगज्जन्मादिकर्तृत्वस्य बहुभूतादिजन्मादिकर्तृत्वरूपश्रौतलक्षणादानुपूर्व्यंशे- विरुद्धत्वापत्तेरित्यर्थः । न च जातीति भूतत्वरूपनित्यधर्मापेक्षयेत्यर्थः । यद्वा द्रव्यत्वापेक्षया- प्तस्यैकवचनादित्यर्थः । तथासतीति लक्षणवाक्ये यत इति श्रुतिसंग्रहे विस्फुलिङ्गवत्सर्वो- त्पादकब्रह्मणो वाक्यान्तरे क्रमसृष्टिबोधके ब्रह्मभेदापत्तेरित्यर्थः । यथा पृथिवी इतरेभ्यो भिद्यते गन्ध- वत्त्वादेवं सर्वोत्पादकब्रह्मणः 'तस्माद्वा एतस्मात्' इति क्रमेणोत्पादक आत्मा भिद्यते यत इति श्रुत्यसंग्रहात्, आद्यस्याकाशस्य जनकत्वात्, इत्येवं ब्रह्मभेदो ज्ञेयः । शंकरभाष्ये तु जन्माद्यस्य यत इत्यत्र दर्शितस्यानुमानस्य स्वातन्त्र्यं मा भूदिति शास्त्रयोनित्वादित्युक्तमित्युक्तम् । तटस्थ- कारणताया इति जिज्ञासाब्रह्मणो निर्गुणत्वेन जगत्कारणत्वं कथं लक्षणं संभवतीत्याशङ्क्य यज्ज- गत्कारणं तद्ब्रह्मेति कल्पितं कारणत्वं तटस्थं सदेव ब्रह्मलक्षणं यद्रजतं सा शुक्तिरिति शुक्तेर्लक्षणं रजतं तद्वदित्येवं तथेत्यर्थः। भाष्ये । उत्तरत्रेति द्वितीयाध्याय इत्यर्थः । तथा च 'आविर्भावतिरोभावौ शक्ती वै मुरवैरिणः' इति वाक्याद् ब्रह्मशक्तित्वेनादिमत्त्वाभावेनासत्त्वाभावाच्च तटस्थलक्षणतेति भावः । दृष्टान्तासिद्धेश्च । प्रकृते । न्यूनत्वरूपमिति नामप्रपञ्चाकथनरूपं सूत्रे न्यूनत्वं तद्रूपमित्यर्थः । दशसूत्रमिति यद्यप्यन्यत्रान्यथा दृश्यते तथापि शंकरभाष्ये सर्वज्ञं ब्रह्मेत्युपक्षिप्तं तदेव द्रढयन्नाहेति शास्त्रयोनित्वसूत्रस्य तस्माद् ब्रह्मणः शास्त्रयोनित्वमिति प्राप्ते उच्यते इति समन्वयसूत्रस्येदं सूत्र- मारभ्यते इति ईक्षतिसूत्रस्यावतरणदर्शनाद् दशसूत्रमित्यर्थः । साध्यपरामर्शादिति तदिति साध्यपरामर्शादित्यर्थः । हेतूनां वर्णने स न स्यादिति भावः । एतच्च तद्ब्रह्मैव समवायिकारणमिति
An accurate, line-by-line markdown transcription of the provided page in Unicode Devanagari:
११२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० २ सू० २ भा० निःश्वासवद् वेदसंभवश्च तत उक्तः । तत्तु मध्वभाष्यव्याख्यात्रा जयतीर्थेनैव दूषितम् । इदं शास्त्रस्य निर्मितत्वं किमर्थमुपलभ्य रचितत्वं वा, निःसृतमात्रत्वं वा, नाद्यः । कणादाक्षचरणानु- सरणप्रसङ्गात्, श्रुत्यादिविरोधाच्च । न द्वितीयः । शास्त्रयोनित्वस्य सार्वज्ञ्यसाधकत्वाभावप्रसङ्गादिति । इदमपि युक्तम् । पूर्वविकल्पे वेदस्यानित्यत्वप्रसङ्गात् । द्वितीये निःश्वासस्याबुद्धिपूर्वकत्वेन तथा- त्वादिति । एतेन, विमतं ब्रह्म वेदगतसर्वविषयप्रकाशनशक्त्याधारः । वेदोपादानत्वात् । दीपगत- प्रकाशनशक्त्याधारदीपोपादानवह्निवदिति विवरणोक्तमनुमानं, निःश्वासात्मकवेदोपादानत्वेनाबुद्धि- पूर्वकनिःश्वासोपादानपुरुषद्दष्टान्तसनाथेन प्रतिसाधनेनापास्तम् । यत्तु भामतीनिबन्धे, वर्णनित्यत्वपक्षेऽपि पदानामानुपूर्वीविशिष्टवर्णात्मकत्वाद् वाक्यानां च तादृशपदात्मकत्वादानुपूर्थ्याश्च व्यक्तिधर्मत्वादामुपूर्व्यगृहीतानां नित्यानामपि वर्णानां पदत्व- वाक्यत्वयोरनित्यत्वेन लोके वेदे च न तयोः पौरुषेयत्वे विवादः । किं तु वेदवाक्ये पुरुषस्वातन्त्र्या- स्वातन्त्र्ययोः । तत्र स्वातन्त्र्यकोटिः काणादादीनाम् । द्वितीयां तु जैमिनीया वेदाध्ययनं प्रति गुरु- शिष्यपरंपरानादित्वेन समर्थयन्ति । वैयासास्तु, अनाद्यविद्योपधानलब्धसर्वशक्तिज्ञानस्य परमा- त्मनो वेदजनकत्वेऽपि पूर्वपूर्वसर्गानुसारिताहकृतादृशानुपूर्वीविरचनेन । अतः पुरुषस्वातन्त्र्यमात्र- मेव वेदे अपौरुषेयत्वमित्युक्तम् । तदप्यसंगतम् । वर्णवद् वैदिकपदादीनामपि नित्यत्वात् । वाचा विरूपनित्ययेति, वेदो नारायणः साक्षात् स्वयंभूरिति शुश्रुम, वेदस्य चेश्वरात्मकत्वादित्यादिश्रुति- पुराणवाक्येषु वेदपदानानुपूर्वीवैशिष्ट्य एव वेदत्वेन तादृशस्यैवेश्वरात्मकत्वात् । ईश्वरस्याविद्योपधानेन सार्वश्यलब्धेरप्यभ्युपगमैकशरणत्वात् । तादृशानुपूर्वीराचनया अस्वातन्त्र्ये राजाज्ञानुवादकराजदूतप्र- दानुपूर्वी रचनामात्रेणेश्वरसार्वज्ञ्यासिद्ध्या व्याख्येयग्रन्थविरोधाच्च । अतः स्थितस्य गतिचिन्तनमात्रा- यायं प्रयासः । जगत्कर्तृत्वेनैवोभयविधतत्कर्तृत्वस्य, तेनैव सार्वज्ञस्यापि सिद्धौ भाष्यकारसाम्प्र- दायं एष प्रयास इति दिक् । अन्यैस्तु शास्त्रं योनिः कारणं प्रमाणमस्येति व्याचक्षाणैर्बहुव्रीहिरङ्गीकृतः । सोऽप्ययुक्तः । लक्षणाप्रसङ्गात् । स्वारसिकार्थत्यागाच्च । रश्मिः । भाष्यस्य पुरःस्फूर्तिकमन्वयमाहलोकं ज्ञेयम् । तेन तदनुमूतं प्रसिद्धं वा ब्रह्मैव, समवायिकारणं ब्रह्मै- वेत्यन्वयः इति पक्षपरामर्शकस्य भाष्यप्रकाशस्य न विरोधः । मृष तितिक्षायां चुरादिः । यत्र तु ताल- व्यान्तं, तत्र मृश आमर्शने तुदादिर्बोध्यः तथाचानित्यः स्यादित्याहुः कणादेत्यादि । निःश्वसितरूपस्य निरपेक्षेश्वरस्य तत्सामर्थ्यस्य च विरोध इत्याहुः श्रुत्यादीत्यादि । आदिपदेन लिङ्गम् । श्रुतिस्मृतिवि- रोधाच्चेति वार्थाः । प्रतिसाधनेनेति ब्रह्म वेदगतसर्वविषयप्रकाशनशक्त्यनाधारः निःश्वासात्मकवेदो- पादानत्वात् अबुद्धिपूर्वकनिःश्वासोपादानपुरुषवदित्येवं प्रतिसाधनेनेत्यर्थः । पुरुषेत्यादि । विवाद इति संबन्धः । स्वातन्त्र्यं च कर्तृत्वं वेदवाक्यनिरूपितं पुरुषगतं कर्तृत्वमित्यर्थः । विरूपेति विविधरूपे- त्यर्थः । विरूपेति देवतासंबोधनं वा । व्याख्येयेति व्याख्येयग्रन्थः सांख्यादिभाष्यं व्यासकृतं, तस्य प्रथमब्रह्मपदस्य विरोधात् । अत इति सर्वत्र शैथिल्यात् । उभयविधेत्यादि रूपनामविभिन्न- जगत्कर्तृत्वस्येत्यर्थः । अन्यैस्त्विति रामानुजप्रभृतिभिरित्यर्थः । लक्षणेति योनिपदस्य स्वसंबन्धिनि लक्षणा तस्या आपत्तेः । नायं वैयाकरणमत इत्यत आहुः स्वारसिकेत्यादि योनेरित्यर्थः । 112
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ११३ तस्मात् सर्वज्ञत्वं सर्वशक्तित्वं च सिद्धं निरङ्कुशजगत्कर्तृत्वेन । भाष्यप्रकाशः । विज्ञानेन्द्रभिक्षुणा तु शास्त्रं योनिः मूलप्रमाणं यस्मिन्निति सप्तम्यर्थे बहुव्रीहिमङ्गीकृत्यो- क्तम् । अत्र शास्त्रादिति वक्तव्ये यच्छास्त्रयोनित्वादित्युक्तं, तच्छास्त्राविरुद्धानुमानस्मृतियोगिप्रत्य- क्षादिसंग्रहाय । अत एवाग्रे, उपपत्तेश्चेत्यादावनुमानम् । स्मृतेश्चेत्यादौ स्मृतिः । आचारदर्शनाच्चे- त्यादावाचारदर्शनमुखेन योगिप्रत्यक्षादिकं च संगृहीतमिति । तदग्रैवाग्रे मया दूष्यम् । उक्तार्थं निगमयन्ति तस्मादित्यादि । तथाचात्र निरङ्कुशजगत्कर्तृत्वेन शास्त्रप्रतिपाद्यत्व- मिति लक्षणं सिद्धमित्यर्थः । तत्र धर्मादेर्वारणाय तृतीयान्तम् । प्रकृत्यादिवारणाय शेषम् । तेन लक्षणे विवादाध्यासितत्वदोषपरिहारः । प्रजापत्यादिवारणाय निरङ्कुशेति ज्ञेयम् । अत्रानादिसृष्टिवादिनो मीमांसका बीजाङ्कुरदृष्टान्तेन सृष्टिप्रवाहानादित्वं वदन्तस्तपोध्यानु- पषितपुण्यविशेषलब्धशक्तीनां प्रजापतिप्रभृतीनां क्षेत्रज्ञानामेव तत्तत्कल्पेषु कारणत्वमभिमन्यमाना रश्मिः । तथाचात्रेति । लक्षणं निरङ्कुशत्वं चानन्याधीनत्वं निष्क्रान्तमङ्कुशादिति 'निरादयः क्रान्ता- द्यर्थे पञ्चम्याः' इति समासः । जगज्जन्मादिकर्तृत्वेनेत्युक्तावसंभव इति जगज्जन्मकर्तृत्वेनेत्युक्तौ स्थितिप्रलयकर्तर्यव्यासिर्जन्मादीति सौत्रादिपदासंग्रहश्चेति च दूषणप्रसरोऽतो जगत्कर्तृत्वेनेत्युक्तम् । न च कर्तृत्वं जन्मकर्तृत्वं जन्मादिकर्तृत्वं वा वाच्यमित्युभयतोमयदोषतादवस्थ्यमिति शक्यं निरङ्कुशजगज्जन्मकर्तृत्वेन निरङ्कुशजगत्स्थितिकर्तृत्वेन निरङ्कुशजगल्लयकर्तृत्वेनेत्येवं प्रातिस्विक- रूपेण लक्षणघटकतृतीयान्ताङ्गीकारात् । नन्वङ्कुशप्राप्तिरीश्वरीये कर्तृत्वे कुत इति चेन्न, ईश्वरे आप्तगजेन्द्रलीलात्वात् । अङ्कुशस्तेऽनेन, अकि लक्षणे 'सानसिवर्णसि' इति साधुः । अङ्कुशः । धर्मा- देरिति यागज्ञानयोरित्यर्थः । ननु शास्त्राणि षट् वेदवेदान्तसांख्ययोगपाञ्चरात्रपाशुपतानि । तत्र तृतीयान्तपदानेऽपि लक्षणगमनादतिव्याप्तिरिति चेन्न, इष्टापत्तेः । 'एकं सद् विप्रा बहुधा वदन्ति' इति 'त्वामेवान्ये शिवोक्तेन मार्गेण शिवरूपिणम्' इति । 'यदेकमव्यक्तमनन्तरूपम्' इति च श्रुतिः । परमनेकरूपेष्वाचार्या नियामकाः 'आचार्यवान् पुरुषो वेद' 'आचार्यचैत्यवपुषा स्वगतिं व्यनक्ति' इति च । प्रकृत्यादीति प्रकृतिः स्वरूपं 'प्रकृतिमगन् किल यस्य गोपवध्वः' इति वाक्यात् । आदिपदेन शिवमायाकामाः । ननु 'अचेतनत्वेऽपि क्षीरवच्चेष्टितं प्रधानस्य' इति कापिलसांख्यप्रव- चनसूत्रवृत्तेः सांख्यशास्त्रमादाय लक्षणस्य प्रकृतावतिव्याप्तिरिति चेन्न, प्रथमाध्याये प्रकृतेः कार- णत्वाभावस्योपपादनात् । 'उपरागात् कर्तृत्वं चित्सान्निध्याच्चित्सान्निध्यात्' इति सूत्रमेकार्थीभाव- सामर्थ्येपीति ज्ञेयम् । ननु निरङ्कुशपदेनैव प्रकृत्यादिवारणे किं शेषेणेत्यत आहुः तेनेत्यादि । तथा च ये निरङ्कुशजगत्कर्तृत्वं प्रकृतौ मन्यन्ते तेप्यत्र पिहितमुखा इत्यर्थः । ननु भाष्ये निरङ्कुशपदा- भावात् किं दृढमावश्यकत्वमत आहुः प्रजापत्यादीति । वेदोक्तलेषूपबृंहिते वेदोक्तेऽयं आदरः सूचितः । 'एकं सद् विप्रा बहुधा वदन्ति' इति वेदान्ते प्रजापतावपि तपोरूपब्रह्मणः सृष्टत्वात्, शब्दार्थयो- रभेदात् । [प्रजापत्यादीति पुराणे । 'सृजामि तन्नियुक्तोऽहं हरो हरति तद्वशः । विश्वं पुरुषरूपेण परिपाति त्रिशक्तिधृक्' इति वाक्यात् । १. प्रपञ्चमनाशिकाः । २. 'एकः सन्' इतिपाठः । १५ ब्र० सू० २० 113
११४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० २ सू० २ ननु न सर्वो वेदो ब्रह्मणे जगत्कर्तृत्वे मानम् । तपोयज्ञादियुक्तप्रजाप- तिप्रभृतीनामेव जगत्कारणत्वस्य पूर्वकाण्डे तत्तदुपाख्यानेष्ववगम्यमानत्वात् । नचावान्तरकारणत्वम् । परस्याश्रवणात् । उत्तरकाण्डे तु द्वयप्रतिपादनाद् विरोधः संदेहश्च । मीमांसायाः संदेहनिवारकत्वेऽप्येकांशस्याप्रामाण्यं स्यात् । उभयसमर्थने शास्त्रवैफल्यं वा । वेदप्रामाण्यादेव तत्सिद्धेः । बाधितार्थवचनं वेदे नास्तीत्यवोचाम । किंच । वेदान्ताः किं वेदशेषा, वेदा वा । नाद्यः । अनुपयोगात् । अनारभ्याधी- भाष्यप्रकाशः । ब्रह्मणो निरङ्कुशं जगत्कर्तृत्वमसहमानाः प्रत्यवतिष्ठन्ते ननु नेत्यादि । तत्तदुपाख्यानेष्विति ‘प्रजापतिरकामयत प्रजाः सृजेयेति स तपोऽतप्यत स सर्पानसृजत’ इति । ‘आपो वा इदमग्रे सलिलमासीत् । तस्मिन् प्रजापतिर्वायुर्भूत्वाऽचरत्’ इत्यादिषु । तयैव पौराणेष्वपीत्यर्थः । परस्येति प्रजापत्यादिरतिरिक्तस्य । तथाच न पूर्वकाण्डस्य तत्र प्रामाण्यम् । ननु यथोपक्रमस्य संदिग्धत्वे निर्णय उपसंहारेण भवति, तथात्रोत्तरकाण्डेन निर्णय इति शङ्कायामाह उत्तरेत्यादि । द्वयप्रति- पादनादिति यतो वा इमानीत्यादौ ब्रह्मणः कर्तृत्वस्य, नित्यशुद्धबुद्धेत्यादावकर्तृत्वस्य प्रतिपादना- द्विरोध उभयत्रापि श्रौतत्वस्य साधारण्यादेकतरपक्षपातस्याशक्यत्वेन संदेहश्चेति तस्याः प्राबल्या- च्चोत्तरकाण्डेन तन्निर्णय इत्यर्थः । तर्हि तन्मीमांसा निर्णयोऽस्त्वित्यत आह मीमांसाया इत्यादि । तथाच मीमांसायाः कर्तृत्वाकर्तृत्वान्यतरप्रसाधकत्वे अप्रसाधितांशबोधकवेदान्ताप्रामाण्यापत्ति- रुभयप्रसाधकत्वे मीमांसाया एव वैयर्थ्यमित्युभयथापि कौष्ण्यान्न तस्या निर्णायकत्वमिति सर्वस्मिन्नपि वेदे निरङ्कुशं जगत्कर्तृत्वं कुत्रापि कस्यापि न सिद्ध्यतीत्यनादिसृष्टिवाद एवादरणीय इत्यर्थः । एवं ब्रह्मस्वरूपविचारेण जगत्कर्तृत्व आक्षिप्तेऽपि यदि तद्बोधकप्रमाणप्राबल्यं स्यात् तदानु- पलब्धस्य धर्मस्येव तत्सिद्धिः स्यादिति वेदान्तानां प्रामाण्यमाक्षिपति किंचेत्यादि । यदि वेदशेषाः रश्मिः । आदिशब्देन हरविष्णू।] क्षेत्रज्ञानामिति जीवानाम् । प्रजापतिरिति, इयं संहिता तृतीया- ष्टकेऽस्ति । आपो वा इत्यादि, इयं सप्तमाष्टकेऽस्ति । पूर्वकाण्डे तत्तदुपाख्यानेषु चावगम्य- मानत्वादिति भाष्येऽन्वयं मत्वाहुः पौराणेष्वपीति । तत्रेति ब्रह्मणः कर्तृत्व इत्यर्थः । उपसं- हारेणेति । यथा छान्दोग्ये ‘ॐमित्येतदुद्गीथमुपासीत’ इत्युद्गीथोपासना ॐमितिपदात् ब्रह्मोपासना वेति संदिग्धस्य उपक्रमस्य ‘स य एतमेवं विद्वानुपास्ते परोवरीय एव हास्यास्मिँल्लोके जीवनं भवति तथामु- ष्मिन् लोके’ इत्युपसंहारेण परोवरीयस्त्वस्य परमात्मत्वस्य पूर्वोक्तखरप्राणादेः सकाशादतिशयेन परः परोवरीयानिति योगेन फलकथनेन ब्रह्मोपासनापरत्वमुपक्रमस्य निर्णीयते । एवं पूर्वकाण्डे संदिग्धं कर्तृत्वं ब्रह्मण्युत्तरकाण्डे निर्णीयते इत्यर्थः । भाष्ये शास्त्रवैफल्ये हेतुः वेदेत्यादि । तत्सिद्धेरिति उभय- समर्थनसिद्धेरित्यर्थः । विचारमन्तरा कथं तत्सिद्धिरित आहुः बाधितार्थेत्यादि । प्रकृते। धर्मस्ये- वेति अग्निहोत्रादेरिव कर्तृत्वसिद्धिः स्यादिति हेतोरित्यर्थः । कर्तृत्वसिद्धिस्तु वेदान्ताभावे गहना स्यात् । ‘कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः । अकर्मणोपि बोद्धव्यं गहना कर्मणो गतिः’ ॥ इति गीतानुसंधेया । आक्षिपतीति अनादिसृष्टिवादी जगत्कर्तृत्वं कुत्रापि कस्यापि न सिद्ध्यतीत्येतदर्थमाक्षिपति वेदान्तानामभावादित्यर्थः । अनुपयोगादिति भाष्यं विवृण्वन्ति यदि 114
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ११५ तत्त्वेन तदुपयोगित्वे पूर्वकाण्डविचारेणैव गतार्थत्वम् । विद्याप्रवेशाच्च । न द्वितीयः । यज्ञाप्रतिपादनात् । मन्त्रब्राह्मणत्वाभावाच्च । तस्माद् वेदोत्तरा वेदान्ता इति भाष्यप्रकाशः । स्युस्तदा द्रव्यदेवतादि प्रकाशयन्त इतिकर्तव्यतां वा बोधयन्तो वेदार्थे यागे क्वचिदुपयुक्ताः स्युः । तत्तु न दृश्यते । अथानारभ्याधीता अपि स्मृतयो गृह्यसूत्राणि च यथा, ‘मानवी ऋचौ धाय्ये कुर्याद्’ ‘यद्वै किंच मनुरवदत्तद्भेषजम्’ इति, ‘अष्टवर्षं ब्राह्मणमुपनयीत तमध्यापयीत’ इत्यादिवाक्येनाग्निसमिन्धनादावुपनयनादौ चोपयुज्यमानाः शेषभावं भजन्ते । तथैते वेदान्ता अपि, ‘यदेव विद्यया करोती’त्यादिवाक्येन वेदोक्तकर्मण्युपयुज्यमाना वेदशेषा इत्युच्यते तदा पूर्वमीमांसायां तृतीये शेषशेषिभावस्यार्थ