भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 189, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 189

प्रतीतं च निषेध्यम् । नाप्रतीतं, न श्रुतिप्रतीतम् । सत्यत्वादयश्च लौकिकाः । ततः सर्वनिषेधे तदज्ञानमेव भवेत् । नच सत्यत्वादिकं लोके नास्त्येव व्यवहार- मात्रत्वात्, कारणगतमेव सत्यत्वं प्रपञ्चे भासत इति वाच्यम् । तर्हि कर्तृत्वं तथा कुतो नाङ्गीक्रियते । स्मृतिश्च स्वीकृता भवति 'कर्ता कारयिता हरिः' इति । नचारोपन्यायेन वक्तुं शक्यम् । तथा सत्यन्यस्य स्यात् । तन्न न प्रकृतेः । अग्रे स्वयमेव निषिध्यमानत्वात् । न जीवानामस्रातन्त्र्यात् । न चान्येषामुभय- भाष्यप्रकाशः । प्रतीतमित्यादि । युक्तः प्रतिषेधः । परंत्वस्थूलादिवाक्ये लोकप्रतीता एव प्रतिषिद्ध्यन्त इत्यत्रापि प्रतीतमेव प्रतिषेध्यम् । अत एव नाप्रतीतम् । प्रसञ्जयितुमशक्यत्वेन प्रतिषेधानर्हत्वाच्च । न श्रुतिप्रतीतम् । तुल्यबलत्वात् प्रत्यायनवैयर्थ्यापाताच्च । श्रुत्युक्ताः सत्यत्वादयोऽपि यदि लौकि- कत्वेनाहतास्ततो लोकश्रुतिप्रतीतसाधारण्येन सर्वनिषेधे ब्रह्मज्ञानमेव भवेत् । तथाच स्वरूपलक्षण- वैयर्थ्यं सर्वनाशश्च स्यात् । नच तदभावाय लोकस्य व्यवहारमात्रत्वात् तत्रापि कारणगतमेव सत्य- त्वमतो न तत् प्रतिषेध्यं, किं तु कर्तृत्वमेवेति वाच्यम् । तदा तु धर्मसंकोचस्य तौल्यात् कर्तृत्व- मपि तथाङ्गीकार्यम् । तेन कल्पस्मृतिस्वीकाररूपगुणोऽपि भविष्यति । नन्वगत्या सत्यत्वं तथास्तु, न तु कर्तृत्वमपि । आरोपन्यायेन तस्य शक्यवचनत्वादित्यत आहुः न चेत्यादि । अन्येषा- मिति अभावकालस्वभावभूतग्रहलोकपालादीनाम् । ननु प्रकृते फलवाक्यविचारो भवतापि रश्मिः । श्रुतिभिः । अत इति कर्तृत्वाकर्तृत्वयोः प्राप्तौ युक्तत्वादित्यर्थः । इत्यत्रापीति नित्यशुद्धबुद्ध- मुक्तस्वभावमित्यादिष्वित्यर्थः । प्रसञ्जयितुमिति अभावस्य प्रसक्तिं कर्तुम् । प्रतिषेधानर्हत्वा- दिति । यथाहुः अभावलौकिकप्रत्यक्षं प्रति प्रतियोगिज्ञानस्य हेतुत्वमन्यथा प्रतियोगिज्ञानशून्यकाले नेत्याकारकप्रतियोगिमिश्रिताभावलौकिकप्रत्यक्षं स्यादिति प्राञ्चो नैयायिकाः । तुल्यबलत्वादिति । उपजीव्यत्वतः श्रौतवाक्यतोन्यपरत्वतः । ‘अन्तरङ्गत्वतश्चापि तुल्यमत्रोभयोर्बलम्’ इत्यर्थः । तथाहि निर्गुणप्रतिपादिकासु आधारनिरूपकत्वेनोपजीव्यत्वं कारणत्वमत एवान्यपरत्वं निर्गुण- प्रतिपादकस्वरूपमत एवान्तरङ्गत्वं धर्मनिरपेक्षत्वेन स्वल्पापेक्षस्वरूपम् । एवं सगुणप्रतिपादिका- स्वपि विरहप्रतियोगिनिरूपकत्वेनाधारनिरूपकत्वेन चोपजीव्यत्वमन्यपरत्वं च । कार्यस्वरूपयोरेकब्रह्म- लक्षणत्वात् धर्मनिरपेक्षत्वस्य स्वरूपलक्षणेपि प्रकाशाश्रयन्यायेन वक्तव्यत्वात्प्रकृतेपि तत्संभ- वेनान्तरङ्गत्वं च तुल्यं, एवमप्युपपादनसौष्ठवाच्छ्रौता धर्मा निषेध्या इत्याकाङ्क्षायां हेत्वन्तरमाहुः प्रत्यायनेत्यादि । तथा सति प्रक्षालनपङ्कन्यायेन धर्मान्न प्रत्याययेदित्यर्थः । सत्यत्वादय इत्यादि भाष्यं विवृण्वन्ति श्रुत्युक्ता इत्यादि । सर्वनाश इति ब्रह्मज्ञाने तद्विषयकस्य दृढभक्त्यादेरुच्छे- दात्तथा स्यादित्यर्थः । न च सत्यत्वेत्यादि भाष्यं विवृण्वन्ति न च तदित्यादि । तथाङ्गीकार्य- मिति कारणगतमेव कर्तृत्वं लोकेऽङ्गीकार्यमित्यर्थः । स्मृतिश्चेत्यादिभाष्यं विवृण्वन्ति तेनेत्यादि । कल्पस्मृतीति भाष्योक्तकल्पस्मृतीत्यर्थः । भाष्ये तथासतीति आरोपोऽन्यगतधर्मस्येति कर्तृत्वस्यान्यधर्मत्वे सतीत्यर्थः । अत्र इति यथा बर्हिर्देवसदनं दामीत्यत्र बर्हिर्लवनसामर्थ्यं दामीति शब्दादालोच्यानेन लवनं विदध्यादिति श्रुतिं कल्प- यित्वा लवनाङ्गत्वं मन्त्रस्य । प्रकृते । अभावेत्यादि अभावो नास्तिकानां, कालस्वभावौ श्वेताश्वतरे, भूतो-