अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 190, कुल 2600 में से
संदर्भ में पढ़ेंनिषेधोवैव । तस्माद् ब्रह्मगतमेव कर्तृत्वम् । एवं भोक्तृत्वमपि । न वा काचि- च्छुतिः कर्तृत्वं निषेधति । विरोधभानात् कल्प्या तु लौकिकपरा । फलवाक्ये- ऽप्यश्रुतानां गुणोपसंहारः कर्तव्यः । तथाचार्यं सूत्रार्थः । जन्म आदिर्येषा- मित्यवयवसमासावतद्गुणसंविज्ञानो बहुव्रीहिः ।
भाष्यप्रकाशः ।
स्वीकृतस्तथा सति तद्विवरणोक्तं भोक्तृत्वं तत्रास्तु, कर्तृत्वं तु कथमङ्गीकृतं शक्यमित्यत आहुः गुणोपसंहार इति सूत्रकृताग्रे तथाङ्गीकारात् तथेत्यर्थः । तस्माद् ब्रह्म कर्तृ इति सिद्धम् । एवं सिद्धान्तं व्याख्याय तस्य सूत्राविरोधित्वं बोधयितुं सूत्रं व्याकुर्वते तथाचेत्यादि । एवं कर्तृत्वे सिद्धे वक्ष्यमाणरीतिकः सूत्रार्थ इत्यर्थः । अत्र सर्वेऽपि तद्गुणसंविज्ञानं बहुव्रीहिमङ्गीकुर्वन्ति । तत्रोपसर्जनत्वेन पूर्वप्रयोगार्हस्यादिशब्दस्य परत्वाय राजदन्ता