अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 191, कुल 2600 में से
संदर्भ में पढ़ें१०४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० २ सू० २ भाष्यप्रकाशः । वयव इत्यङ्गीकाराच्च । तत्रैकस्याचो विशिष्टावयवत्ववदत्र आद्यादीनां समूहावयवत्वेन तद्वाचक- पदानां समासेऽवयवसमासत्वस्य सुखेन संभवात् । एतस्यातद्गुणसंविज्ञानत्वं त्वेवम् । तथाहि । उक्तसूत्रे कैयटेन तद्गुणसंविज्ञानपदं द्वेधा व्याख्यातम् । तस्य अन्यपदार्थस्य गुणो विशेषणं तस्य संविज्ञानं येनेति । स वर्तिपदार्थो गुणो यस्यान्यपदार्थस्य तस्य संविज्ञानं येनेति च । तत्रोदाहरणं तु शुक्लवाससमानयेति । तत्र शुक्लवासः- संयुक्तपुरुषानयने पृथगनोदितान्यपि वासांसि संबन्धसामर्थ्यादानयनेन संबध्यन्त इत्युक्तम् । इदं च लम्बकर्णमानयेत्यादावपि तुल्यम् । एवं सत्यन्यपदार्थविशेषणस्य यत्र संबन्धसामर्थ्यात् कार्यसंबन्धस्तत्र तद्गुणसंविज्ञानः । यत्र तस्य संबन्धसामर्थ्यात् कार्ये संबन्धाभावस्तत्रातद्गुण- संविज्ञानः । यथा चित्रगुमानयेत्यत्र । अत्र हि पुरुषानयने समासवर्तिपदार्थभूतानां चित्राणां गवां सन्निधानाभावान्न कार्येण सह संबन्ध इति । एवं सति प्रकृतेऽन्यपदार्थभूतानां प्रधानानां स्थिति- प्रलयाभिसंवेशानामेकदेशतया तद्विशेषणीभूतो य आदित्स्य प्रथमान्तरव्यावर्तकतया जन्म विशेषणम् । स्वयं तु वर्तिपदार्थे विशेष्यः । तस्य धर्मरूपं यत्प्राथम्यं तदपेक्षाबुद्धिजन्यम् । तस्य निरूप्यत्वमपि स्थित्यादिजन्यमतः सोऽत्र सूत्रेऽर्थादायातायां ब्रह्मकर्तृकभवनक्रियायां न सं- रश्मिः । क्षितस्य । आद्यादीनामिति आदेरादि जन्म आद्यादि, आदिरादिर्येषां स्थितिलयाभिसंवेशानां त आद्यादयः, आद्यादि च आद्यादयश्च आद्यादयः तेषामाद्यादीनाम् । येनेतीति येनेति तृतीयान्तान्यपदार्थकथनं तु तस्यान्यपदार्थस्य गुणो विशेषणं तस्य संविज्ञानं स वर्तिपदार्थो गुणो- ऽवयवो वा यस्यान्यपदार्थस्य तस्य संविज्ञानमित्यस्याग्रे संनिहितविशेषणस्यान्यपदार्थस्य विशिष्टसं- बन्धाश्रयेण केनचिद्बहुव्रीहिणाभिधानादित्यर्थः । इत्युत्तरग्रन्थसूचितं ज्ञेयम् । शब्दरत्ने तु तस्यान्य- पदार्थस्य गुणा विशेषणानि संज्ञायन्ते कार्यित्वादिना यत्रेति 'सर्वादीनि सर्वनामानि' इत्यत्र व्याख्यातम् । तद्गुणसंविज्ञान इति तथाच प्रायः संयोगसमवायान्यतरसंबन्धेन संबन्धी यत्र ऽन्यपदार्थस्तत्र तद्गुणत्वमिति शब्दरत्नोक्तं लक्षणं पर्यवसितं ज्ञेयम् । नैयायिकास्तु लक्ष्यतावच्छेदकस्य विशेष्यान्वय्यन्वयित्वं लक्षणमाहुः यन्न तस्येति । इदमपि संयोगसमवायातिरिक्तस्वस्वामिभावादिसंबन्धेन संबन्धी यत्रान्यपदार्थः तत्र तद्गुणत्वमिति शब्दरत्नोक्तं लक्षणं नातिवर्तते । नैयायिकास्तु लक्ष्यतावच्छेदकस्य विशेष्यान्वय्यन्वयित्वं लक्षणमाहुः । अत्रैतावान् विशेषः । समासशक्तिवादिनां विशेषणस्य विशेष्यान्वय्यन्वयित्वे तदनन्वयित्वे उक्तसंबन्धो नियामकः । लक्षणावादिनां नैयायिकानां तु शब्दस्वभाव एव तन्नमिति । सन्निधानाभावादिति अत एव नाग्नयज्ञोपवीती भोज्यतामित्यादौ यज्ञोपवीतस्य कार्यित्वाभावेपि तत्सन्निधानात्तद्गुणत्वमिति हरिग्रन्थः । नैयायिकानां मते तु अतद्गुणसंविज्ञान एव । प्रधानानामिति विशेष्याणामित्यर्थः । स्थितीत्यादि । अभिसंवेशः सुषुप्तिस्तत्सुखमित्यर्थः । प्रथमान्तरेति जन्मतः प्रथमान्तरेत्यर्थः । स्वयं त्विति आदिरित्यर्थः । तस्येति आदेरित्यर्थः । अत इति प्राथम्यस्य निरूप्यत्वस्य चापेक्षा- बुद्धिजन्यत्वेन स्थित्यादिज्ञानजन्यत्वेन च साक्षाद्ब्रह्मजन्यत्वाभावादित्यर्थः । ब्रह्मकर्तृकेत्यादि यतो १. कार्यकारणभावसंबन्धाभावेन । २. अभिधावृत्तिः पदधर्मः 'पदज्ञानं तु करणम्' इति भाषापरिच्छेदात् । ३. कार्यकारणभावसंबन्धस्त्वग्रिमभागान्तरपरं सूत्रमवेति मन्यतूसूचितम् । ४. विशेष्यगुण्यस्वरूपं कार्यम् । 104