अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 192, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । १०५ भाष्यप्रकाशः । सज्जन्ते । तत्संबन्धे तद्द्वारा जन्मनोऽपि न संबन्ध इत्यस्य समासस्यातद्गुणसंविज्ञानत्वम् । इदं च तद्गुणसंविज्ञानस्य प्रथमलक्षणादरे बोध्यम् । द्वितीयलक्षणादरे तु तद्गुणकस्य विशेष्यस्यान्यप- दार्थस्य संविज्ञानं समायाति । तच्च चित्रगुरित्यत्रापि वर्तत इति तद्वारगाय विशेषणसंबन्धपूर्वक एव तस्य क्रियासंबन्धो वक्तव्यः । तदाप्यत्र विशेष्यभूतानां स्थित्यादीनां विशेषणसंबन्धपूर्वको न क्रियासंबन्ध इति पूर्ववदेवात्तद्गुणसंविज्ञानत्वम् । यदि च संविज्ञानपदेन वर्तिपदार्थस्य तद्विशेष्यस्य वा प्रव्यक्तीभाव एवाद्रियते तदा तु विशेष्यविशेषणयोर्ज्ञातत्वेनास्माकं तत्प्रव्यक्तीभावाभावाद् भाववृत्तसूक्ते, 'सोऽङ्ग वेद यदि वा न वेद' इति श्रावणाच्चातद्गुणसंविज्ञानत्वमिति न कोऽपि शङ्कालेशः । अत्रैतत्समासादरेश भाववृत्तसूक्ते, यदि वा नेतिवाक्यबोधितानाधानपक्षसूचना- रश्मिः । जन्मादयोस्य भवन्तीति सूत्रान्वयाज्जन्मादिकर्तुका भवनक्रिया तथापि सूत्रे यत इति पञ्चमी 'जनिकर्तुः प्रकृतिः' इति सूत्रादित्याशयः । तत्संबन्ध इत्यादि आदेः प्राथम्यवाचकस्यापेक्षाबुद्धिजन्यत्वेन ब्रह्मजन्यत्वाभावात् तद्धेतुकभवनक्रियायाऽसंबन्धे तद्विशिष्टजन्मनोपि संबन्धेनो न विशेषणसंबन्धाभाव- प्रयुक्तो विशिष्टाभाव इत्यस्य समासस्यातद्गुणसंविज्ञानत्वमित्यर्थः । बोध्यमिति अन्यपदार्थस्य स्थित्यादेर्गुणो जन्म तत्सांसंविज्ञानमग्रेत्रेत्थं बोध्यमित्यर्थः । तद्गुणकस्येति समासवर्तीपदार्थगुण- कस्यान्पदार्थस्य स्थित्यादेरित्यर्थः । एवं कैयटोक्तलक्षणद्वयसमन्वयमुत्त्वा तद्गुणसंविज्ञान इत्य- न्यमपदार्थगुणानां कार्यित्वादिना संविज्ञानमिति पक्षे संविज्ञानपदसान्वयलक्षकत्वं लक्ष्यंता- बच्छेदकस्य विशेष्यान्वय्यन्वयित्वमिति पक्षेपि तथेति वक्तव्यं तथा सति तद्गुगनान्वय इति वक्तव्ये संविज्ञानपदकथनेन तस्य तद्गुणानां च प्रव्यक्तीभाव एवाभिप्रेत इत्याशयेन प्रकारान्तरमाहुः यदि चेत्यादि । तद्विशेष्यस्य वेति वर्तिपदार्थविशेष्यस्यान्यपदार्थस्य चेत्यर्थः । वाकारश्चकारार्थः । एतत्पक्षे प्रकृतेऽतद्गुणे संविज्ञानत्वं निगमयन्ति तदा त्वित्यादि । षड्भावविकाररूपयोर्जन्मप्राथम्य- रूपयोर्वा विशेष्यविशेषणयोर्जनितत्वेन जगद्भवत्वेनं साक्षाद्ब्रह्मणस्तद्विषयकसंज्ञानत्वाभावादित्यर्थः । शांकराणां सर्वस्य मायिकत्वादस्माकमित्युक्तम् । नन्वसार्वज्ञ्यापत्तिरेवं भवेदित्यतः श्रुतिं प्रमाणयन्ति भाववृत्तेत्यादि । इयं श्रुतिर्ब्राह्मणस्य द्वितीयाष्टकेस्ति तत्रैतस्याः पूर्व 'नासदासीन्नो सदासीत्त- दानीम्' इत्याद्युक्त्वा 'तम आसीत्तमसा गूढमग्रेऽप्रकेतम् । सलिलं सर्वमा इदम्' इत्यादिना सृष्टिं च । ततः 'को अद्धा वेद क इह प्रवोचत् कुत आजाता कुत इयं विसृष्टिः । अर्वाग्देवा अस्य विसर्जनेनाय । अथा को वेद यत आबभूव । इयं विसृष्टिर्यत आबभूव यदि वा दधे यदि वा न । यो अस्याध्यक्षः परमेव्योमन्' इति श्रूयते । तथा च सोध्यक्षो विसृष्टिं जन्म वेद यदि वा विसृष्टिं न वेदेति जन्मनो ज्ञानाविषयत्वेनातद्गुणत्वमित्यर्थः । यदीत्यस्य। यदा भगवान् सच्चिदानन्दरूपो धर्मरूपे- णाविर्भवतीत्यादिक्रमेण ततो जाता तदा तु धर्मरूपेणादधे, यदा तु स्वयमेव तथाविर्भूतस्तदा न दधे । सर्वस्य ब्रह्मणतिरेकादित्यर्थः । तथा च विकारान्तरज्ञानदशायां जन्मनः प्रव्यक्तत्वाभावातदसंविज्ञानं नैतावताऽसार्वज्ञ्यमिति भावः । न कोपीति । या तु 'यस्मिन्विदतेऽसं च विचैति सर्वम्' इति श्रुत्या जन्मनः सिद्धत्वेन भौतत्त्वात् तद्गुणसंविज्ञान एव युक्त इत्याशङ्का सापि नेत्यर्थः । जन्मनो ब्रह्मकर्तृक- त्वेपि श्रौतस्तद्वेदावेदावज्ञानमुक्तम्, विरुद्धधर्माश्रयत्वेन माहात्म्यज्ञानं च द्योतितम् । अनाधानपक्षेति १४ ब्र० सू० २० 105