अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 193, कुल 2600 में से
संदर्भ में पढ़ें१०६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० २ सू० २ अथवा जन्मप्रभृति सर्वे भावविकारा आदिशब्देन गृह्यन्ते । तथाच जन्म च आदिश्चेत्येकवद्भावः । आदिशब्दश्च धर्मवाची । स च स्वसंबन्धिनं लक्षयति। तस्योभयसापेक्षत्वादुत्पत्तेर्विद्यमानत्वादन्यानेव भावविकारानुपलक्षय- तीत्यादिशब्देनान्ये भावविकाराः । भाष्यप्रकाशः। जन्मस्थितिभङ्गादीनामाविर्भावादिरूपत्वबोधनेन भगवानेव तत्तद्रूपः क्रीडाविस्तरश्च भवतीति पुष्टिसृष्टिप्रकारो बोधितः । तथाच जन्म आविर्भाव आदिर्येषां प्रकाराणामित्यर्थो बोध्यः । प्रवाह- सृष्टिबोधनाय प्रकारान्तरमाहुः अथवेत्यादि । प्रभृतिशब्दः पूर्वावधिवाचकः । सर्व इति जायतेऽस्ति विपरिणमते वर्धतेऽपक्षीयते नश्यतीतिप्रतीतिसिद्धा यास्कोक्ताः षट् । कथं गृह्यन्त इत्यपेक्षाया- माहुः तथाचेत्यादि । सर्वोऽपि द्वन्द्वो विभाषैकवद्भवतीत्येकवद्भावः । आदिशब्दश्च प्राथम्यरूप- धर्मवाची । पूर्वतन्त्रे शब्दानां धर्मवाचकत्वस्य सिद्धत्वात् । स च स्वसंबन्धिनं लक्षयति । तत्र कं लक्षयतीत्याकाङ्क्षायां तस्य यथोत्पत्तावाधारता तथाग्रिमेषु निरूपकता । प्राथम्यस्योभयसापेक्षत्वात् । अत उत्पत्तेरत्र कण्ठोक्तत्वेन विद्यमानत्वादन्यानेवोपलक्षयतीति तथेत्यर्थः । तेन विषयवाक्यो- दितौ स्थितिभङ्गौ प्रत्याहारन्यायेनान्येषामपि बोधकौ । कालादिगतमपि कर्तृत्वं भगवदीयमेव, न तु स्वतन्त्रमिति च बोधयितुमत्रादिपदोक्तिरिति तात्पर्यं सूचितम् । एवं व्याख्याने आदिपदस्य लाक्षणिकत्वम् । तथादिपदेन आदित्वधर्मवतस्य जन्मनोऽपि संग्रहीतुं शक्यत्वाज्जन्मपदवैयर्थ्या- रश्मिः। स्वस्यैव सर्वरूपत्वेन धारणपक्षेत्यर्थः । पुष्टिसृष्टिप्रकार इति ब्रह्मैव कार्यकारणरूप इति प्रकार इत्यर्थः । 'पुष्टिं कायेन निश्चयः' इति पुष्टिप्रवाहमर्यादाग्रन्थवाक्यात् । अत्र पक्षे सर्वस्यानन्दरूपतया विकारविरहादर्थमाहुः तथा च जन्मेत्यादि । प्रकाराणामिति । 'लोक- वत्तु लीलाकैवल्यम्' इति न्यायेन लौकिकभावविकारसदृशप्रकाराणामित्यर्थः । प्रवाहेत्यादि प्रवाहः प्रवहणम् । सर्गपरंपरया अविच्छेद इति यावत् । 'द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च' 'द्वया ह प्राजापत्या देवाश्चासुराश्च' इति श्रुतिस्मृतिभ्याम् । अत्र समवायी मायामनोरूपः 'द्वे अस्य बीजे' इत्यारभ्य 'मायामयं वेद स वेद वेदम्' इति भगवद्वाक्यात् । मायामात्रस्यैव मिथ्यात्वं न सर्वस्य । प्रवाहस्य सदसद्भिन्ननिरूपत्वात् । संध्याधिकरणे स्फुटीभविष्यतीदम् । प्रभृतीत्यादि तथा च जन्मपूर्वावधिकसर्वे भावविकारा इति भाष्यार्थः । यास्कोक्ता इति निरुक्तप्रसिद्धो यास्कर्षिः । सर्वोपीत्यादि परिभाषेयम् । आदिशब्द इति भाष्यं विवृण्वन्तिस्म आदिशब्दश्चेति । पूर्वतन्त्र इति आकृत्यधिकरण इत्यर्थः । स्वसंबन्धिनमाश्रयं, तं विना स्थातुं धर्मो न शक्नोतीति भावः । लक्षणायां संबन्धं वक्तुमाहुः तत्र कमित्यादि । तस्य यथेत्यादि प्राथम्यस्य यथा जन्म- न्याधारता तथाग्रिमेष्वस्त्यादिषु निरूपकता, प्राथम्यस्यास्त्यादिनिरूप्यत्वात् । उभयसापे- क्षत्वादिति आधारनिरूपकसापेक्षत्वादित्यर्थः । उपलक्षयतीति निरूपकतासंबंधेनोपलक्षयतीत्यर्थः । ननु कथं तर्हि आदिशब्दप्रयोग इत्यत आहुः तेनेत्यादि । प्रत्याहारन्यायेनेति 'आदिरन्त्येन सहेता' इति सूत्रसिद्धेनेत्यर्थः । अन्येषामिति विपरिणामवर्धनपक्षयाणामित्यर्थः । कर्तृत्वमिति कालेन विपरिणमतीत्यादिप्रतीत्या विपरिणामादिकर्तृत्वमित्यर्थः । भगवदीयं तृतीयस्कन्धवाक्यात् कालादी- नामीश्वराधीनकर्तृत्वात् । तथा चापि जन्मादि कर्तृत्वं सूचयितुमादिपदेनास्त्याद्युपलक्षणमिति भावः । 106