अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 194, कुल 2600 में से
संदर्भ में पढ़ेंअथवा जन्मनो नादित्वम् । तदाधारस्य पूर्वमविद्यमानत्वात् । अन्ये त्स्वादिमन्तः । तदाधारस्य पूर्वं विद्यमानत्वात् । अत आदिशब्दः स्वाधारस- द्धर्मवाची तद्धर्माणामुपलक्षकः । अथवा गमनप्रवेशयोर्भेदाज्जन्म आदिर्येषामिति भाष्यप्रकाशः । पक्षिरित्यरुच्या प्रकारान्तरेण व्याकुर्वन्ति अथवा जन्मन् इत्यादि । बहिर्विद्यमाने जन्माधारे पश्चाज्जन्म चेत्तदा जन्म प्रत्याधारस्य तद्गतधर्मस्य चादिता संभवति । प्रकृते तु तन्नास्तीति जन्मनो नादित्वम् । अन्येषां तु भावविकाराणामुक्तयुक्त्यादिमतो हेतोरादिशब्दः स्वाधारसद्धर्मवाची आदि- त्वाधारभूतोऽस्तिपदवाच्यो धर्मस्तस्यान्यापेक्षया प्राथम्यात् तत्पूर्वकमेव तं वदन्नादिस्तस्य स्वापेक्षतया तद्धर्माणं विपरिणामादीनामुपलक्षक इति न स्वार्थत्यागदोषो, नापि जन्मपदवैयर्थ्यदोष इत्यर्थः । अस्मिन् पक्षे असत्कार्यवाद आपतति । तथापि यदेतस्य कथन