अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1833, कुल 2600 में से
संदर्भ में पढ़ें१७६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ९ सू० ३०. भाष्यप्रकाशः। रहितं विष्ण्वाख्यं परमं पद'मित्यादि चेति सूत्रं व्याख्यायैतमेवार्थमग्रिमसूत्रेणोहापोहपूर्वकं स्थापयन्ति । द्वितीये तु मूर्तामूर्तब्राह्मणे मूर्तामूर्तप्रपञ्चस्य ब्रह्मणि रूपत्वमुपदिश्यते । 'अथात आदेश' इत्यादिना मूर्तामूर्तरूपतया ब्रह्मणो या इयत्ता, सा प्रतिषिध्यते । 'न ह्येतस्मा'दित्यनेन ब्रह्मणोऽन्य- दुत्कृष्टं नास्तीत्युक्त्वा, तदुपपादनाय 'अथ नामधेय'मित्यादिना नामनिर्वचनान्तेन प्राणशब्दानि- र्दिष्टेभ्यश्चेतनेभ्योऽप्येष सत्यम्, कदाचिदपि ज्ञानादिसङ्कोचाभावादित्युक्तम् । तथा 'प्रधानक्षेत्रज्ञ- पतिर्गुणेश' इत्यादिश्रुतिष्वप्ययमर्थ उक्तः । तस्याचिद्वस्तुनो ब्रह्मरूपत्वप्रकार इदानीं चिन्त्यते, ब्रह्मणो निर्दोषत्वसिद्ध्यर्थम् । किं चाचिद्वस्तुनो ब्रह्मरूपत्वमहिकुण्डलन्यायेन, उत प्रभाप्रभावतो- रिवैकजातियोगेन, उत जीवस्येव विशेषणविशेष्यतयांशांशिभावेनेति । इह स्थाप्यमानं विशेषण- विशेष्यभावमङ्गीकृत्य, 'प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्,' 'तदनन्यत्वमारम्भणशब्दादिभ्य' इत्यत्र सूक्ष्मचिदचिद्विशिष्टाद्ब्रह्मणः स्थूलचिदचिद्विशिष्टस्य ब्रह्मण उत्पत्तेरनन्यत्वेनोक्ता, किं युक्तम्, अहिकुण्डलवदिति, कुतः, उभयव्यपदेशात् । 'ब्रह्मैवेदं सर्वमात्मैवेदं सर्व' मिति तादात्म्यस्य 'हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि'ति भेदस्य व्यपदे- शाच्चाहिकुण्डलभावर्जुभाववत् तस्यैव ब्रह्मणः संस्थानविशेषा एवाचिद्वस्तूनि । अग्रिमसूत्रे वाशब्दः पक्षव्यावृत्त्यर्थः । ब्रह्मस्वरूपस्यैवाचिद्रूपेणावस्थाने भेदश्रुतयो ब्रह्मणोऽपरिणामित्ववादिन्यश्च बाधिता भवेयुः, अतो यथा प्रभातदाश्रयोर्भिन्नयोरपि तेजस्त्वेन तादात्म्यम्, एवमचित्प्रपञ्चस्यापि ब्रह्म- रश्मिः। तत्पूर्वकम् । अग्रे स्फुटिष्यति । उपेति । ऊहापोहरूपाय । माध्यन्दिनपाठभेदादाहुः अथ नामेति । प्राणशब्दानिर्दिष्टेभ्य इत्यनेनान्वयः । चेतनेभ्यो जीवेभ्यः 'मायया सन्निरुद्ध' इति श्रुतेः । विशिष्टाद्वैतात् । न तु प्राणा नापीन्द्रियाणि । 'प्राणा वै सत्यं तेषामेष सत्य'मिति श्रुत्यर्थ उक्तः । प्रधानेति । 'प्रधान- क्षेत्रज्ञपतिर्गुणेशः संसारबन्धस्थितिमोक्षहेतुः । स तन्मयो ह्यमृत ईशसंस्थोऽज्ञः सर्वगो भुवनस्यास्य गोप्ता । य ईशे अस्य जगतो नित्यमेव नान्यो हेतुर्विद्यत ईशनाय । यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै । तं ह देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वे शरणमहं प्रपद्ये' इति । अयमर्थ इति । विशिष्टाद्वैतम् । प्रधानं प्रकृतिः । क्षेत्रज्ञा जीवाः तेषां पतिः मूर्तामूर्तोत्कृष्टः । गुणत्रयेशः प्रधानेशः । यथायथं संसारेण बन्धस्य हेतुः । क्षेत्रज्ञः स्थितिहेतुः । प्रधानं विशिष्टाद्वैतात् । मोक्षहेतुः प्रधानक्षेत्र- ज्ञपतिरीश्वरः । स प्रसिद्ध ईश्वरस्तन्मयः प्रधानक्षेत्रज्ञमयः । ईशप्रयोज्यो जीवः । एवेति । अव- धारणेन । विदधाति उत्पादयति । दधाति पुष्णाति च । एवमयमर्थ उक्तः । षोडशसूत्र्यामुक्तत्वा चतुः- सूत्र्यामाहुः तस्याचिदिति । प्रधानवस्तुनः । निर्दोषत्वेति । विशिष्टाद्वैते अद्वैतत्वे दोषप्राप्तेर्निर्दोष- त्वसिद्ध्यर्थम् । अहीति । अहेः कुण्डलं अहिकुण्डलिका अहिः कुण्डलिकेति प्रतीतिद्वयात् । एकजा- तीति । तेजस्त्वजातियोगेनेत्यर्थः । विशेषणेति । ब्रह्मणोंशो जीव इति जीवस्यांशि ब्रह्मेति च प्रत्ययात् । प्रकृतिश्चेति । प्रथमाध्यायसमाप्तौ । तदनन्यत्वसूत्रं पूर्वाध्याये । भेदस्येति । कर्ता गुणेशः करणं जीव इति भेदस्तस्य । अहेः कुण्डलभावः ऋजुभावश्च तद्वत् । तस्यैवेति । चिदचिद्विशिष्टस्यैव । उक्तश्रुतिभ्य एवकारः । एवेति । उक्तश्रुतिभ्य एवैवकारः । अग्रिमेति । प्रकाशाश्रयवद्वेति सूत्रे । पक्षेति । यथा स्थाणुर्वा पुरुषो वेत्यत्र । एवेति । स्वशक्तिलेशयोगव्यवच्छेदकैवकारः । भेदश्रुतय इति । 'प्रधानक्षेत्रज्ञपतिर्गुणेश' इत्यादय उक्ताः । प्रधानक्षेत्रज्ञानां पतिरिति भेदे षष्ठी । अपरीति । 1712