भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1839, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1839

१८२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० २ अ० १० सू० ३१. फलवचनमवान्तरफलपरं भविष्यति । 'एतमानन्दमयमात्मानमुपसंक्रम्ये'त्यप्य- त्रोदाहरणम् । तथा उन्मानव्यपदेशात् । तत्रैव 'यावान् वा अयमाकाशस्तावाने- षोऽन्तर्हृदय आकाश' इति साधनयुक्तिप्रश्ने, उन्मानेन परिच्छेदं निरूपयति । दृष्टान्तदार्ष्टान्तिकत्वेन ज्ञानं साधनम् । तत्र बहिराकाशज्ञानमपि साधनं भवति । भाष्यप्रकाशः । त्वेनेत्यादि । निधेरर्थरूपत्वेन परतः पुरुषार्थत्वात् तद्दृष्टान्तेनात्र फलकथनात् तथेत्यर्थः । अत्रो- दाहरणमिति । ल्यबन्तप्रयोगादवान्तरत्वे उदाहरणमित्यर्थः । अत्र मध्ये विद्यमानत्वादित्यनेना- व्यापकत्वबोधनाद्देशपरिच्छेदो ज्ञापितः । साधनतो बाधकं व्युत्पादयन्ति तथा उन्मानेत्यादि । तत्रैवेति । दहरविद्यायामेव । तत्र हि दहरपुण्डरीकान्तर्यो दहर आकाशस्तदन्तःस्थितस्य ज्ञानार्थ- कयत्नरूपमन्वेषणं साधनं तस्य युक्तिर्योजनं विषयावगमानुकूलत्वं तदर्थके प्रश्ने, 'तं चेद्ब्रूयु'रि- त्यादिना कृते, तदुत्तरं वदन् 'यावान् वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाश' इति यावत्त्वा- वत्पदाभ्यामाकाशसमानताव्यपदेशेन दहराकाशस्य परिच्छेदं निरूपयति । ततश्च दृष्टान्तदार्ष्टान्ति- कत्वेनाकाशद्वयज्ञानं दहराकाशस्वरूपज्ञानसाधनम् । तत्र च दृष्टान्तभूतबहिराकाशज्ञानमपि साधनं भवति । तथाच बहिराकाशः कालतः परिच्छिन्न इति दार्ष्टान्तिकभूतो दहराकाशोपि तथा भवति । नच यावत्त्वावत्पदाभ्यां परिमाणसाम्यमेवायाति, नान्यत्साम्यमिति वाच्यम् ।