भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1838, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1838

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १८१

बलविचारः। धर्मिविचारान्न पूर्वेण गतार्थत्वम् । फलतः साधनतश्च प्रमेयाच्च प्रमाणतः । विचारेणाबृहत् तच्चेत् कोऽन्यः साधयितुं क्षमः ॥ १ ॥ अतो हेतून् बाधकानाह । एकदेशबाधकत्वात् । तत्र फलतो बाधहेतुमाह । सेतुव्यपदेशात् । 'अथ य आत्मा स सेतुर्विधृति'रिति । 'दहर उत्तरेभ्य' इत्यत्र ब्रह्मत्वमस्य सिद्धम् । 'अथ य इहात्मानमनुविद्य व्रजन्ती'त्युपक्रम्य, 'सर्वेषु लोकेषु कामचारो भवती'त्युक्त्वा, कामानुपपाद्य, अज्ञानव्यवधानं ज्ञानप्रशंसार्थमुक्त्वा, ज्ञानानन्तरं संसारसम्बन्धाभावाय सेतुत्वं वदति । पापानधितरणार्थम् । यञ्च तरति, तद्गताश्च दोषा गच्छन्तीति च । अतः संसारफलयोर्मध्ये विद्यमानत्वात् तीर्णस्यैव फलश्रवणात् फलरूपं वस्तु किञ्चिदन्यदस्तीति ज्ञायते । निधित्वेन

भाष्यप्रकाशः।

न्तरस्यापि निवृत्तेः स्वरूपसाध्यविरोध इत्यर्थः । धर्मिविचारादित्यादि । पूर्वाधिकरणे धर्माणां ब्रह्मणः सकाशाद्भेदो निवारितः, इह तु धर्म्यन्तरं निवार्यत इति धर्मिविचारात् तथेत्यर्थः । अतः परं सूत्रं व्याकरिष्यन्तो हेतुचतुष्टयकथनप्रयोजनं गृह्णन्ति फलत इत्यादि । फलत इत्यादौ ल्यब्लोपे पञ्चमी । फलमनुसंधायेत्यर्थः । एवमग्रेपि । अबृहत्तदिति । न परं ब्रह्म, पूर्वाधि- करणेपु विचारितम् । कोऽन्य इत्यादि । फलादिव्यतिरिक्तः कोऽन्यो हेतुस्तस्य परब्रह्मत्वं साधयितुं समर्थ इत्यर्थः । साधयितुमिति स्वार्थेणिच् । 'रामो राज्यमचीकर'दितिवत् । विभजन्ते अत इत्यादि । यत एवं विचारेऽन्यो हेतुर्न साधनसमर्थः, अतः परत्वबाधकान् हेतून् क्रमेणाहत्यर्थः । क्रमे हेतुमाहुः एकेत्यादि । परब्रह्मत्वे साधनीये परत्वमेकदेशस्तद्बाधकत्वादित्यर्थः । 'ब्रह्मविदाप्नोति पर'मिति फलत्वात् परत्वमुक्तम्, अतस्तद्बाधकं हेतुं पूर्वं वदतीत्याशयेनाहुः तत्रेत्यादि । एकदेशबाधकत्वे मानमाहुः दहरेत्यादि । अस्येति । सेतोरित्यर्थः । फलतो बाधकं हेतुं व्युत्पादयन्ति अथेत्यादि । तद्गताश्च दोषा गच्छन्तीति । 'एतं सेतुं तीर्त्वा अन्धः सन्ननन्धो भवती'ति तत्र श्रावणा- दित्यर्थः । ननु पूर्वं 'तद्यथापि हिरण्यनिधिं निहितमक्षेत्रज्ञा उपर्युपरि सञ्चरन्तोपि न विन्देयु'- रित्यादिना तस्मिन् फलत्वमपि दृष्टान्ते बोधितमिति कथं फलतो बाधकत्वमित्यत आहुः निधि-

रश्मिः।

परस्वरूपविरोधित्वेन बाधकत्वं परिहृतम् । भाष्ये । इदमिति । ब्रह्मत्वविद्यैक्यप्रतिपादकम् । अर्थबलेति । धर्म्यन्तररूपार्थबलेन 'अक्षरात्परतः पर' इति यथावद्योज्येत्यर्थबलविचारः । बादरिमितम् । व्यासमतमाहुः समन्वय इति । व्यासमतत्वेन तस्य शब्दबलविचारकत्वात् । प्रकृते । एवं विचार इति । परब्रह्मणः परविचारे । परत्वेति । परब्रह्मणः परत्वबाधकान् अक्षरात्परतः परस्य साधकान् । सूत्रकार आह व्युत्पादयन्तीति । छान्दोग्यीयदशमप्रपाठकस्थाभ्यां श्रुतिभ्याम् । पूर्वमिति । छान्दोग्ये दशमप्रपाठक एव । 'अथ य आत्मा स सेतुर्विधृति'रित्यस्मात्पूर्वम् । इत्यादिनेति । 'एवमेवेमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूढा' इत्यादिपदार्थः । तस्मिन् फलत्वमिति । परब्रह्मणि फलत्वं दुर्विज्ञेयत्वेन निधित्वेन वा बोधितमित्यर्थः, नतु सेतावित्यर्थः । वाक्यस्य 'अथ य आत्मे'त्यस्मात्पूर्वत्वात् । अथेत्यस्यानन्तर्यार्थत्वे सेतावित्यर्थः । ब्रह्म सेतुरिति । फलत इति । फलमनुसन्धाय सेतुरूपहेतोः परत्वस्य बाधकत्वम् । फलतोऽत्र सेतुत्वं ब्रह्मत्वम् । यद्यपि 'ब्रह्मविदाप्नोति पर'मित्यत्र परपदम्, अत्र फलमिति तौल्यम्, तथापि 'अक्षरात्परतः पर'

1717

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 1838, कुल 2600 में से · BharatKosha