भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1837, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1837

परिहृताः, तथापि स्वरूपविरोधपरिहारप्रस्तावात् पुनरुच्यन्ते । सर्ववाक्यप्रतिपाद्य- मेकमेवेत्यपि न सिद्धम् । एतैर्हेतुभिः परिच्छेदेन धर्मिभेदे सिद्धे न पूर्वाधिकरणसिद्धा- न्तविरोधः । ननु समन्वयेन ब्रह्मत्वमुत्तरपादेनैक्यं पूर्वाधिकरणेनाविरोध इति व्य- र्थमिदमधिकरणमिति चेत् । न । अर्थबलविचारोयम् । समन्वये चोत्तरपादे च शब्द- भाष्यप्रकाशः । शब्दबलेन अद्वितीयत्वादिबदर्थबलेन फलान्तरस्यापि सिद्ध्या प्राप्ते विरोधे वेदान्तवाक्यार्थनिर्धाराय प्रवृत्तस्यैतद्विचारोनावश्यकमिति बोधितम् । ननु सेत्वादिवाक्यानां पूर्व विचारितत्वात् पुनः कथनस्य किं प्रयोजनमित्यत आहुः यद्यपीत्यादि । सर्वेषां वेदान्तानां ब्रह्मपरत्वविचारे यद्य- प्येते सेत्वादिपदोक्ता अवान्तरवर्तित्वादयः परिहृताः, तथापि परस्वरूपविरोधित्वेन बाधका इत्येवं न परिहृता इति तथा परिहर्तुं पुनरुच्यन्ते । किञ्च । तेषु तेषु वाक्येषु तत्तद्रूपाणां प्रतिपादनात् सर्ववाक्यप्रतिपाद्यमेकमेवेत्यपि न सिद्धम्, अतस्तत्साधनायापि पुनरुच्यन्त इत्यर्थः । ननु पूर्वाधिकरणे ब्रह्मणः परत्वमद्वितीयत्वं च सिद्धम्, अत्र चैतैर्हेतुभिस्तदाक्षिप्यत इत्याक्षेप एवात्र सङ्गतिरस्तु, न प्रसङ्ग इत्यत आहुः एतैरित्यादि । सेत्वादिभिर्हेतुभिः परिच्छेदेन ब्रह्मणोऽवान्तरत्वनिश्चयेन धर्म्य- न्तरे सिद्धे तस्मिन्नेव परत्वमद्वितीयत्वं च पर्यवसास्यतीति न पूर्वाधिकरणसिद्धान्तानां विरोधः, अतो नाक्षेपः सङ्गतिः, किन्तु प्रसङ्ग एव सङ्गतिरित्यर्थः । पुनः प्रकारान्तरेण वैयर्थ्यमाशङ्क्य परिहरन्ति नन्वित्यादि । अविरोध इति । प्रतिषेधबोधकस्याद्वितीयपदस्यासङ्कुचितवृत्तिकत्वात् तेन धर्म्य- रश्मिः । अन्यहेतूक्तियोगव्यवच्छेदकः । नत्वन्ये हेतव इति । शब्देति । 'एकमेवाद्वितीय'मित्यादिशब्दबलेन । अर्थेति । सेतून्मानाद्यर्थबलेन । अर्थास्तु वक्ष्यमाणानां सेत्वादिबोधिकानां श्रुतीनाम् । विरोध इति । अद्वितीयादिश्रुतिविरोधे । प्रवृत्तस्येति । भगवतो व्यासस्य । एतदिति । परतःपरस्य सम्बन्धि । अन्यथा वैदिकहेतूक्तिपुरःसरं परात्परविचारणमयुक्तं स्यात् । ब्रह्मेतरात्मधर्मीणां तयोर्भेदेन ब्रह्मपरत्वात्पादार्थ- सङ्गतिः । पूर्वमिति । दहराधिकरणे सेतुवाक्यम् । तत्रैवोन्मानवाक्यं 'यावान् वा अयमाकाश'इत्यादि । तत्रैवाधाराधेयसम्बन्धवाक्यं प्रमेयनिरूपणप्रस्तावे 'उभे अस्मि'न्नित्यादि । अन्तस्तद्धर्माधिकरणे भेदवाक्यं 'य एषोन्तर्रादित्ये हिरण्मयः पुरुष' इत्यादि । अवान्तररेति । अवान्तरवर्तित्वं परिच्छेदनिरूपणात् । आदिना परिच्छेदः आधाराधेयभावः सम्बन्धः भेदश्च । परीति । उक्ताधिकरणेषु परिहृताः । तथा- पीतिभाष्यं विवृण्वन्ति स्म तथापीति । सर्वेतिभाष्यं विवृण्वन्ति स्म किञ्चेत्यादि । तेष्विति । अधिकरणविषयवाक्येषु । 'यदेकमव्यक्तमनन्तरूप'मिति श्रुतेरेवकारः । एतैरिति । सेत्वादिभिः । तदाक्षिप्यत इति । परत्वमद्वितीयत्वं च पूर्वोक्तं कथमित्याक्षेप आक्रोश इत्यर्थः । एवकारव्यवच्छेद्य- माहुः न प्रसङ्ग इति । धर्म्यन्तर इति । अतः परस्मिन् । तस्मिन्नेवेति । एवकारेण परब्रह्मान्यरूप- पान्ययोगो व्यवच्छिद्यते । विरोध इति । 'अक्षरात्परतः पर'इति श्रुतावक्षरात्परतोपि परत्वकथनान्न विरोध इत्यर्थः । प्रसङ्ग एवेति । आक्षेपसङ्गतिव्यवच्छेदक एवकारः । वैयर्थ्यमिति । अधिकरण- वैयर्थ्यम् । नन्वित्यादीति । समन्वयेन पूर्वाध्यायार्थेन धर्म्यन्तरस्य ब्रह्मत्वं तत्प्रतिपादकस्य 'अक्षरात्परतः पर' इत्यस्य परतोऽक्षरादित्यन्वयात् । उत्तरपादे 'सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषा'दित्यारम्भके वेद्यैक्येन विद्यैक्यम् । प्रतिषेधेति । द्वितीयप्रतिषेधबोधकस्य । स्वरूपस्येत्येकस्य । एतेनावान्तरवर्तित्वादीनां