अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1836, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । १७९ परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः ॥ ३१ ॥ (३-२-१०) धर्मिधर्मविरोधः परिहृतः । धर्म्यन्तरविरोधपरिहारार्थमधिकरणमारभते । तत्र पूर्वपक्षमाह । परमतः । अतोपि ब्रह्मणः परमन्यदुत्कृष्टं फलमस्ति । तत्र वैदिकहेतवः । सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः । यद्यपि समन्वय एवैते दोषाः भाष्यप्रकाशः। कत्वात् । तृतीयेपि जीवस्य मुख्यप्रतिबिम्बतायां मिथ्यात्वापत्तेर्भिन्नत्वस्य प्रागेव साधितत्वाच्च सूत्रवै- यर्थ्यमित्यादिदोषाणां भानादिति ॥३०॥ इति नवमं प्रकाशाश्रयवद्वेत्यधिकरणम् ॥ ९ ॥ परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः ॥३१॥ सङ्गतिकथनपूर्वकमधिकरणप्र- योजनमाहुः धर्मीत्यादि । ब्रह्म सर्वधर्मशून्यम्, न तु धर्मीति, धर्माश्चेतरेतरविरुद्धाः न ह्येकत्र सम्भ- वन्तीति, धर्माश्च कार्याः, न ब्रह्मेत्यादिरूपो यो विरोधः, सोधिकरणचतुष्टयेन परिहृतः । अतः परं धर्म्यन्तरस्यापि सहावस्थानमाशङ्कय तत्परिहारार्थमारभते । तथाच प्रसङ्गः सङ्गतिरुक्तविरोधपरि- हारश्च प्रयोजनमित्यर्थः । तत्र यथा ज्ञेयाद्ब्रह्मणः फलरूपमुत्कृष्टम्, एवं ततोप्यन्यदुत्कृष्टमस्ति नवेति सन्देहः । तद्वीजं तु 'अक्षरात् परतः परः' 'पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गति'रिति व्यपदेशः सेत्वादिव्यपदेशश्च । तयोः पूर्वपक्षादेव बुध्यमानत्वात् तमेव वदतीत्या- शयेनाहुः तत्रेत्यादि । तत्र वैदिकहेतव इति । फलान्तरसत्त्वे वैदिका एव हेतवः । तथाच रश्मिः। दोषोऽनुसन्धेयः । प्रतिपिपादयिषितोभयलिङ्गे हेतुतयोभयलिङ्गनिषेधो हेतुः । भेदे प्रतिपिपादयिषिते उभय- लिङ्गनिषेधो न हेतुरतोत्र परस्योभयलिङ्गं सर्वत्र स्थानतोपि नेत्यतोऽभेदः प्रसिद्धः प्रतिपत्तव्यः । अप्राकृतरूपवत्त्वं प्रसिद्धं प्रतिपत्तव्यम् । एक एव सर्वत्रेश्वर इति एवं हेतोर्भेदरूपस्याप्राकृतरूपवत्त्वस्य वाध्याहार्यत्वात् । द्वितीयार्थस्येति । अत्राधिकरणे प्रथमसूत्रेण रूपराहित्यमुपपाद्य 'प्रकाशवच्चावैय- र्थ्य'मिति सूत्रेण रूपवत्त्वविषयाणां श्रुतीनां वैयर्थ्यमाशङ्क्य विलक्षणरूपत्वाङ्गीकारेण परिहृतमित्येवं व्याख्यासुधोक्तस्येत्यर्थः । प्रागपीति । 'न स्थानतोपी'त्यधिकरणेपि । हेत्वन्तरमाहुः भिन्नत्वस्येति । प्रागेवेति । भेदघटितसूत्रेषु । इत्यादीति । आदिना प्रसिद्धार्थानां सूत्राविषयवाक्यप्रतिपाद्यत्वं दोषः ॥ ३० ॥ इति नवमं प्रकाशाश्रयवद्वेत्यधिकरणम् ॥ ९ ॥ परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः ॥ ३१ ॥ सङ्गतीति । प्रसङ्गसङ्गति रिति वक्ष्यन्ति । धर्मीति । 'ब्रह्मैवेदमग्र आसीत्' 'आत्मैवेदमग्र आसी'दिति पुरुषविधब्राह्मणे । प्रयोगा- भिप्रायेण । स्पष्टं द्वितीयस्कन्धनवमाध्याये ब्रह्माणं प्रति स्वरूपदर्शने । 'द्वन्द्वं न्यञ्चि पात्राणि प्रयुनक्ती'ति गृह्यसूत्रम् । सहेति । 'स्वरूपं द्विविधं चैव सगुणं निर्गुणं तथे'ति श्रीगोपालतापनीयात् । न तु ब्रह्म प्रसिद्धम्, 'वासुदेव आत्मे'ति द्वितीयसुबोधिन्युक्तदिशा सहावस्थानम् । ज्ञेयादिति । 'ब्रह्मविदाप्नोति पर'मित्यत्राप्यनुसन्धेयम् । तत इति । फलरूपात् । अक्षरादिति । परतोऽक्षरादित्यन्वयः । अयमेको व्यपदेशः द्वितीयकोटौ बीजम् । प्रथमकोटौ बीजमाहुः सेत्वादिव्यपदेश इति । सेतून्मानसम्बन्धभेद- व्यपदेशः । एतेऽत्र यथाक्रमं बीजे बोध्ये । अग्रे स्पष्टे । एवेति । संशयग्रन्थयोगव्यवच्छेदक एवकारः । तमेवेति । पूर्वपक्षम् । एवेति । पूर्ववत् । फलेति । फलमक्षरात्परं ततोऽन्यत्फलान्तरं परमत इति सूत्रभागोक्तम् । तत्सत्त्वे वैदिका हेतवो वक्तव्याः, अन्यथा 'अक्षरात्परतः पर'इत्याद्युक्तश्रुतिभ्यां फला- न्तरबोधेऽवक्तव्यं सूत्रस्य स्यात् । वैदिका एवेत्येवकारस्तु वैदिकहेतुसत्त्वेऽन्योक्तौ प्रतारकत्वं स्यादिति 1715