अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1835, कुल 2600 में से
संदर्भ में पढ़ें१७८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ९ सू० ३०. भाष्यप्रकाशः। स्मृतिश्रुतिभिः केवलब्रह्मवाचकत्वावगमात् । सुबालोपनिषद्यपि पृथिव्यादीनां स्वस्वकारणे लयो- क्त्यनन्तरं 'तमःपरे देवे एकीभवती'ति शब्दान्तरेण तमसो मूलकारणभूतपरामेदस्यैव बोधनात् । 'लीङ् श्लेषणे' 'श्लिष आलिङ्गन' इति धात्वर्थविचारे लयस्याविभागरूपत्वेन सिद्ध्या तद्विलक्षण- स्यैकीभावस्य भेदाभावरूपेणैव सिद्धेर्वैपरीत्यस्य वक्तुमशक्यत्वात् । कारणप्रायपाठेन कारणतयैव परस्यापि देवस्य सिद्धेरिति । इदं यथा तथा समन्वयसूत्रे प्रतिज्ञादृष्टान्तानुपरोधसूत्रे तदनन्यत्वा- दिसूत्रे च व्युत्पादितमिति न पुनः प्रपञ्च्यते । एतन्मतचौरैः शैवोऽप्येतेनैव दत्तोत्तरः, प्रहस्तेऽपास्तश्च । माध्वास्तु । 'न स्थानतोऽपी'त्यादिर्विंश