अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1844, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । १८७ उपपत्तेश्च ॥ ३५ ॥ किञ्च । सत्यज्ञानाद्युक्तधर्मविशिष्टब्रह्मणोऽन्य उत्तमोऽस्तीति वदता तत्रेत उत्कृष्टधर्मवत्त्वं वाच्यम् । तच्चाशक्यम् । प्रमाणाभावात् । साम्येऽपि तथा विशे- षाभावोऽद्वैतश्रुतिविरोधश्च । तस्मादितः परस्यानुपपन्नत्वादुक्तरूपमेव परमका- ष्ठापन्नं वस्त्वित्युपपद्यत इत्यर्थः ॥ ३५ ॥ तथान्यप्रतिषेधात् ॥ ३६ ॥ यथा सेत्वादयः श्रुत्योक्ताः, तथैव 'न तत्समश्चाभ्यधिकश्च दृश्यत' इति श्रुत्यैव ततोऽधिकस्य प्रतिषेधात् त्वयाप्यस्मदुक्त एव मार्गोऽनुसर्तव्य इत्यर्थः । अवतारकाले पूर्वं स्वशक्त्याविर्भावमकृत्वा पश्चात् तदाविर्भावे कृते लोकानां पूर्वावस्थातो भगवत्येवाधिक्यमिव प्रतीत॑ भवतीत्यभिप्राये