अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1846, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । १८९ तिष्ठती'त्यादिस्मृतयः संगृह्यन्ते । अनेन ब्रह्मणि श्रुतिरेव मुख्यं प्रमाणम्, अनु- मानं तु विलम्बोपस्थितिकत्वेन साध्यसिद्धिपराहतमपीच्छाविशेषेण जननीयं चेदभ्युच्चयमात्रं पर्यवसास्यतीति भावः ॥ ३७ ॥ इति तृतीयाध्याये द्वितीयपादे दशमं परमतः सेतून्मानेत्यधिकरणम् ॥ १० ॥ फलमत उपपत्तेः ॥ ३८ ॥ ( ३-२-११. ) एवं सर्वोत्तमत्वनिरूपणेनोत्तमाधिकारिणां भजनीयत्वप्रयोजकं रूपमुक्तवा तदितराधिकारिणां तदाह । ते हि फलप्रेप्सव एव भजिष्यन्ति । तच्च फलदातृत्व एव सम्भवतीति तदाह । अत ईश्वरादेव फलं भवति यत्किञ्चिदैहिकं पारलौकिकं वा । कुतः । उपपत्तेः । 'सर्वस्य वशी सर्वस्येशान' इति श्रुतिर्वस्तुमात्रेशितृत्व- मसङ्कुचितमाह । न ह्यन्यस्य वस्त्वन्यो दातुं समर्थः । अतो भगवान्नेव तथेत्यर्थः । केचित्त्वत्रैव कर्मणस्तत्कार्यापूर्वस्य च फलदातृत्वमाशङ्क्य, तत्रानुपपत्तिम- त्रोपपत्तित्वेन व्याकुर्वन्ति । भाष्यप्रकाशः । इति । व्यापकत्ववाचकयुक्तानि यानि श्रुतिवाक्यादीनि तेभ्य इत्यर्थः । फलितार्थबोधकत्वं स्फुटी- कुर्वन्ति अनेन ब्रह्मणीत्यादि । अभ्युच्चयमात्रमिति । अनुमानस्य समुच्चयमात्रम् ॥ ३७॥ इति दशमं परमतः सेतून्मानेत्यधिकरणम् ॥ १० ॥ फलमत उपपत्तेः ॥ ३८ ॥ अन्ते एतदधिकरणप्रणयनेन अस्मिन् पादे अविरोधा- दिनिरूपणप्रयोजनं सूचयन्ननुप्रसङ्गेनाधिकरणमारभत इत्याशयेनाहुः एवमित्यादि । तदाहेति, भजनीयत्वमाह । नन्वत्र फलदातृत्वमेवोच्यत इति कथमेवमधिकारिविभागज्ञानमित्यत आहुः ते रश्मिः । पदात् । सौत्रादिशब्दार्थ उक्तः । प्रकृते । अनेन ब्रह्मणीत्यादीति । श्रुतिरेवेति । एवकारेण स्मृतिव्यवच्छेदः क्रियते । अनुमानं स्मृतिः । अपिसंराधनसूत्रभाष्येऽनुमानं स्मृतिरित्युक्तम् । बिल- म्बेति । स्वमूलश्रुतिकल्पनद्वारा । साध्येति । श्रुतिसाध्यसिद्धिपराहतमपि श्रुत्या बाधात् । इच्छाविशेषो बाधकालीनेच्छा तेन । जननीयं स्मार्तज्ञानम् । अनुमानस्येति । स्मृतेः ॥ ३७ ॥ इति दशमं परमतः सेतून्मानेत्यधिकरणम् ॥ १० ॥ फलमत उपपत्तेः ॥ ३८ ॥ अविरोधादीति । विरुद्धानां धर्माणामविरोधं वस्तुस्व- भावात् । आदि धर्म्यन्तरविरोधः । सूचयन्निति । धर्म्याद्यविरोधो वाच्यः । प्रयोजनं उत्तमेतराधि- कारिणोरधिकारः । स तात्पर्यार्थः सूचितार्थः । अधिकरणसङ्गतिमाहुः अनुप्रसङ्गेनेति । अविरोधाव- नुसृतसोत्तमेतरप्रवृत्तिरूपस्वार्थसोपेक्षानर्हत्वादप्रसङ्गलक्षणादनुप्रसङ्गसङ्गतिः । एवमित्यादीति । सर्वोत्तमत्वं वेदोक्तत्वमात्रेण निःसन्दिग्धत्वं दार्ढ्यं चार्थे तादृशार्थत्वरूपं ब्रह्म सर्वविरुद्धधर्माश्रयं धर्म्य- न्तररहितं च । तस्य उक्तसर्वोत्तमत्वनिरूपणेन । उत्तमेति । वेदमात्रेण निःसन्दिग्धानां मीमांसानिर- पेक्षाणां भजनीयत्वं प्रयोजनं यस्य रूपस्य तत् । तदितरेति । 'सन्देहवारकं शास्त्रं बुद्धिदोषात्तदुद्भवः । विरुद्धशास्त्रसम्मेदादङ्गैश्शास्त्रस्यनिश्चयः । तस्मात्सूत्रानुसारेण कर्तव्यः सर्वनिर्णयः । अन्यथा भ्रश्यते स्वार्थान्मध्यमश्च तथादिम'इत्युक्तकारिकाभ्यामुक्तादिममध्यमानाम् । भजनीयत्वमाहेति । भजनी- १. अत्र प्रवृत्तिः । 1725