अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1849, कुल 2600 में से
संदर्भ में पढ़ें१९२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० २ अ० ११ सू० ४१. पूर्वं तु बादरायणो हेतुव्यपदेशात् ॥ ४१ ॥ तुशब्दः पूर्वपक्षव्युदासार्थः । बादरायणस्त्वाचार्य इतः पूर्वोक्तमीश्वरमेव फलदत्वेन मनुते । कुतः । हेतुव्यपदेशात् । हेतुत्वेन श्रुतौ व्यपदेशादित्यर्थः । 'एष उ एव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते, एष उ एवासाधु कर्म- कारयति यमधो निनीषत' इति श्रुतौ न केवलं कर्मकारयितृत्वमुच्यते, अपि तु फलदित्सया तया तथात्वम् । अतः फलदत्वमीश्वरस्यैव व्यपदिष्टं भवतीति नानुपपत्तिः काचित् । नन्वीश्वरस्य स्वतः फलदाने समर्थस्य फलदित्सायां सत्यां कर्मकारणे को हेतुः, कार्यवैचित्र्यं च कथमित्यादिचोद्यं 'कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्य' इत्यत्र निरस्तम् । विद्वन्मण्डने श्रीविट्ठलेन च । अतः सकामैरपि स एव भजनीयः, नान्य इति सिद्धम् ॥ ४१ ॥ इति तृतीयाध्याये द्वितीयपादे एकादशं फलमत इत्यधिकरणम् ॥ ११ ॥ इति श्रीवेदव्यासमतवर्तिश्रीवल्लभाचार्यविरचिते श्रीमद्ब्रह्मसूत्राणुभाष्ये तृतीयाध्यायस्य द्वितीयः पादः ॥ ३ ॥ २ ॥ भाष्यप्रकाशः । पूर्वं तु बादरायणो हेतुव्यपदेशात् ॥४१॥ दूषणमाशङ्क्य तत्परिहारः प्रागेवोक्त इति स्मारयन्ति नन्वित्यादि ॥ ४१ ॥ इत्येकादशं फलमत इत्यधिकरणम् ॥ ११ ॥ इति श्रीमद्वल्लभाचार्यचरणनखचन्द्रनिरस्तहृदयध्वान्तस्य पुरुषोत्तमस्य कृतौ भाष्यप्रकाशे तृतीयाध्यायस्य द्वितीयः पादः ॥ ३ ॥ २ ॥ रश्मिः । पूर्वं तु बादरायणो हेतुव्यपदेशात् ॥ ४१ ॥ भाष्ये । पूर्वपक्षेति । प्रकाशो- क्तरीत्या व्याख्यानम् । अनीश्वरजैमिनिमते पूर्वपक्षेत्यर्थः । ईश्वरमेवेति । नतु कर्म । उन्निनीषत इति । अन्यत्रोन्निनीपतीति परस्मैपदी । ईश्वरस्यैवेति । नतु कर्मणः । काचिदिति । प्रथमशास्त्रत्वेपि व्यासस्य गुरुत्वात्पूर्वपक्षीकरणेपि न काचिदनुपपत्तिः । प्रागेवेति । कृतप्रयत्नापेक्षसूत्रे । विद्वन्मण्डने चेति योगित्वम् । 'अनागतमतीतं चे'ति वाक्यात् । भाष्ये । अतः सकामैरिति । आदिमम- ध्यमाधिकारिभिरपि । अपिनोत्तमाधिकारी । स विरुद्धधर्माश्रयः । मीमांसितत्वादेवकारः ॥ ४१ ॥ इत्येकादशं फलमत इत्यधिकरणम् ॥ ११ ॥ इति श्रीविट्ठलेश्वरैश्वर्यनिरस्तसमस्तान्तरायेण श्रीगोविन्दरायजित्पौत्रेण संपूर्ण- वेद्या विट्ठलरायजिद्भातृयगोकुलोत्सवात्मजगोपेश्वरजिता कृते भाष्यप्रका- शस्य तृतीयाध्यायस्य रश्मौ तृतीयाध्यायस्य द्वितीयः पादः ॥ ३ ॥ २ ॥ इति श्रीमत्कृष्णद्वैपायनप्रणीतब्रह्मसूत्रेषु तृतीये उपनिषद्वार्थबोधकताप्रकारनिरूपके साधनाध्याये विषयावृत्तर्निनाम द्वितीयः पादः ।