अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1848, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । १९१ न वक्तुं शक्यम् । विधिवैयर्थ्यप्रवृत्त्यनुपपत्तिप्रसङ्गाभ्याम् । तत्सापेक्षत्वे तदे- वास्तु, कृतं तत्सापेक्षेण तेन । नचाचेतनं चेतनाधिष्ठितमेव कार्यक्षममिति केवलेन तेन न फलं सम्भवतीति वाच्यम् । कर्मस्वरूपं स्वर्गादिकं च न लोकसि- द्धम्, किन्तु श्रुतिसिद्धम् । तत्र च स्वर्गादिफलसाधकत्वेनैवोत्पत्तिवाक्येष्वर्थ- वादेषु च 'अग्निष्टोमेन स्वर्गकामो यजेत' 'अग्निहोत्रं जुहोति प्रजाकाम' इत्यादि । 'दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत' 'परमेष्ठिनो वा एष यज्ञोऽग्र आसीत्, तेन स परमां काष्ठामगच्छ'दित्यादिषु कर्म श्रूयते । स च तत्साध्यत्वेनैव । एवं सति लोकेऽन्यथा दर्शनेपि धर्मिग्राहकप्रमाणेन तथैव सिद्धत्वान्नात्र काचन शङ्का । ईश्वर- वादिनो नित्यज्ञानादिमत्त्व इव । आमुष्मिकफलत्वेन तत्प्रतिबन्धकापगमे भवती- त्यावयोसुल्यम् । तस्याशुतरविनाशित्वेपि श्रुतिसिद्धकारणतानिर्वाहाय तद्व्यापारो- ऽपूर्वं कल्प्यते । अविषमादीश्वरात् विषमफलोत्पत्त्यनुपपत्तिर्वैषम्यनैर्घृण्ये च स्या- ताम् । अतः कर्मण एव फलमिति जैमिनिर्मन्यते ॥ ४० ॥ भाष्यप्रकाशः। उपपत्तिश्रवणाभ्यामेव हेतुभ्यां धर्मं फलकारणं जैमिनिराचार्यो मन्यत इति सूत्रयोजना । तदे- तत्तौत्यं व्युत्पादयन्ति तथा हीत्यादि । प्रवृत्तीति । विध्यर्थज्ञानोत्तरप्रवृत्तेरनुपपत्तिप्रसङ्गो दूषणान्तरमित्यर्थः । इत्यादीति, कामनावतः कर्माधिकारश्रावणात् स्वर्गकामादिपदैः कर्मफलं श्रूयत इत्यर्थः । स चेति । फलरूपः स्वर्गादिः । अन्यथा दर्शनेपीति । राजादिभ्यः फलप्रा- प्तिदर्शनेऽपि । अत्रेति । वेदबोधिते कर्मणि तत्फले च । नित्यज्ञानादिमत्त्व इवेति । धर्मिग्राहकेत्यादिकमत्रापि सम्बध्यते । ननु यदि कर्मणैव फलम्, तदा तद्व्यवहितोत्तरं कुतो न · जायत इत्यत आह आमुष्मिकेत्यादि । तदिति । स्वर्गादिरूपं फलम् । दूषणान्तरमाशङ्क्य परिहरति तस्याश्वित्यादि । तर्हि तौल्यान्नैकतरस्य फलहेतुत्वनिश्चयः, उभयोः समुच्चयो वेत्या- काङ्क्षायां स्वमतोपष्टम्भायाह अविषमादित्यादि ॥ ४० ॥ रश्मिः। तदुत्तरं प्रवृत्तिः तस्या अनुपपत्तिस्तस्याः प्रसङ्गः । 'भाष्ये । तदिति । कर्म । तेनेति । ईश्वरेण । एवेति । दर्शनादेवकारः । तेनेति । कर्मणा । एवेति । ननु तन्निरपेक्षेण कर्म श्रूयत इत्यग्रेऽन्वयः । उत्पत्तीति । प्रथमज्ञप्तिरुत्पत्तिः । साध्यसाधनत्वेन प्रथमज्ञप्तिः । तद्बोधकवाक्येषु । अर्थवादे- ष्विति । जैमिनिमतत्वादर्थवादपदम् । 'अन्यथा हीतिवाक्ये चतुरक्षरे द्वे पुण्यस्य पापस्य निदानभूते । उच्चारणादेव नृणां मुनीन्द्रा नारायणश्चेत्यर्थवादः' इत्यस्य विरोधः स्यात् । फलसम्बन्धाभावादर्थवादत्व- मित्याशयेनाहुः अग्निहोत्रमिति । प्रकृते । इत्यादीति । कर्मफलमिति । तेनोत्पत्तिवाक्यत्वमर्थवादत्वं चेति भावः । एष यज्ञ इति । अग्निष्टोम इत्यर्थः । 'परमेष्ठिनो वा एष यज्ञोऽग्र आसीद्यदग्निष्टोम' इतिश्रुतेः । राजेति । राजादिभ्यश्चेतनेभ्यः फलं ग्रामधनादि । भाष्ये । तथैवेति । चेतननिरपेक्ष- साधनत्वस्यैव । 'कर्मैके तत्र दर्शना'दिति जैमिनिसूत्रादेवकारः । प्रतिबन्धकेति । शरीराद्यपगमे । परीति । जैमिनिः परिहरति । तस्याश्वित्यादीति । श्रुतिसिद्धेति । व्यापारवदसाधारणं कारण- मित्यर्थः । तस्य भावः कारणता । आहेति । जैमिनिराह । अविषमादीत्यादि । अवीति । सप्तमस्कन्धे 'समः प्रियः सुहृ'दिति वाक्यात् । कर्मण एवेति । जडात्, नतु चेतनादीश्वरात् ॥ ४० ॥ 1727