अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1860, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । १९९ अपरञ्च । ‘योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते । किं तेन न कृतं पापं चौरेणात्मापहारिणा’ इत्यन्यथाज्ञानं निन्दती श्रुतिः कथं फलसाधकत्वेन तत्तदुपासनां वदेत् । स्पष्टार्थानां श्रुतिवाक्यानां निर्णयमकृत्वा सन्दिग्धार्थानां ज्योतिराकाशादिशब्दानां तद्वाचकत्वं न निर्णीयात् भगवान् व्यासः । एवञ्च सत्युक्तरीत्या यागवत्तेषां परस्परं भेदश्चावश्यक इत्युभयतःपाशा रज्जुरिति प्राप्ते, अभिधीयते । सर्ववेदान्तप्रत्ययम् । अनेकरूपनिरूपकैः सर्वैः वेदान्तैः प्रत्ययो ज्ञानं यस्य तत्तथा । ब्रह्मणोऽनन्तरूपत्वेपि यानि यानि रूपाणि विविधैर्जीवैरुपासितुं भाष्यप्रकाशः। कथनेन तत्तच्छ्रुतेः प्रतारकत्वापत्तेश्च । अथाप्तोक्तविषभोजनकथनवदिदं क्रममुक्तिहेतुत्वेन वदतीति न प्रतारकत्वमिति विभाव्यते, तदप्ययुक्तमित्याह अपरञ्चेत्यादि । यदि तथा स्यात्, तदा 'योऽन्यथा सन्त'मित्यादिनान्यथा ज्ञानं निन्दन्ती श्रुतिश्चित्तशुद्धिद्वारा क्रममुक्तिहेतुत्वेन तदुपासनां न वदेत् । आत्मापहारेण महापापापादकतया चित्ताशुद्धिजनकत्वात् । किञ्च । इदं व्यासस्यापि न सम्मतमित्याह स्पष्टार्थानामित्यादि । यदि हि तेषामब्रह्मत्वं व्यासोऽभिप्रैयात्, तदा कृष्णरा- मादिपदानि देवतावाचकानि ब्रह्मवाचकानि वेति सन्दिह्य, तन्निर्णयमपि किञ्चित् कुर्यात् । अतः श्रुतिविरोधो व्यासाशयविरोधश्च न वैयासदर्शनानुसारिणो युक्त इत्यर्थः । एवं तन्मतं दूषयित्वा स्वमतमाह एवञ्च सतीत्यादि । उक्तहेतुभिः सर्वासां श्रुतीनां ब्रह्मनिरूपकत्वेपि सति उक्तरीत्या यागवद्धर्मभेदकृतधर्मिभेदेनामिक्षावाजिनयागवत् तेषां तत्तद्विद्यावेद्यानां परस्परभेद आवश्यक इति । अतो हेतोरुभयतःपाशा रज्जुः । एतदङ्गीकारे भेदापत्त्या 'अयमेव स योऽय'मित्याद्यभेदश्रुति- विरोधात्, एतदनङ्गीकारे चैकदेशिमतवद्रूपाणामविद्याकल्पितत्वापत्त्या चोभयथापि दोष इति प्राप्त इत्यर्थः । अत्र सूत्रप्रतीकमुपन्यस्य समादधते अभिधीयत इत्यादि । सूत्रे व्यधिकरणपदो बहुव्रीहिः । प्रत्ययो विश्वासोत्पादकं ज्ञानम् । यद्यपि भाष्ये ज्ञानमेवोक्तम्, तथापि लोके प्रत्ययपदस्य विश्वासे प्रसिद्धत्वादत्र शब्दमहिम्ना तथा व्याख्यानेप्यदोषः । प्रतिज्ञा च ब्रह्मतदुपासनोभयवि- षयिणी बोध्या । नन्विदं प्रतिज्ञावाक्यमुपासनापरतयैव व्याख्यातुमुचितम्, अतीतपादे ब्रह्मज्ञान- प्रकारस्योक्तत्वात्, तेन निर्णीते वस्तुतत्त्वे यथा ज्ञातस्वरूपस्य गुरुप्रभृतेरुपासनं क्रियते, तद्वद्ब्रह्मो- पासनस्य कर्तव्यत्वेन विचार्यत्वात्, न तु ब्रह्मपरतयापि, तज्ज्ञानप्रकारस्य प्रागेवोक्तत्वात्, रश्मिः । विरुद्धधर्माश्रयत्वेन सतः । अन्यथाति । उक्तशुद्धत्वमात्रेण । आप्तोक्तेति । वाग्भटादिकंकायना- द्याप्तोक्तौषधाङ्गविषभोजनकथनवत् । इदं विषभोजनं रोगनिवर्तकम्, नतु मारकम् । क्रमेति । शाखारुन्धतीन्यायेन सोपाधिकद्वारा दुर्ज्ञेये बुद्धिसिद्धिरित्येवं क्रममुक्तिहेतुत्वेन वदतीत्यर्थः । न वदे- दिति । उपासनाया औपाधिकविषयत्वेनान्यथाप्रतिपादनरूपत्वात् न वदेदित्यर्थः । चित्तशुद्धीति । उपाधिरूपबुद्ध्याशुद्धिजनकत्वात् । स्पष्टार्थानामित्यादिभाष्यं विवरीतुमाहुः किञ्चेत्यादि । खं स्पष्टयन्ति स्म एतदङ्गीकार इति । इदमिति । सूत्रम् । उपासनेति । एवेति । ज्ञानयोगव्यवच्छे- दकः । ब्रह्मेति । विरुद्धधर्माधारत्वस्य । प्रागेवेति । अतीतपादे । अयमेवेति । प्रत्ययः । ज्ञानो- १. अयमेवेति पूर्वपाठः । 1735