अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1861, कुल 2600 में से
संदर्भ में पढ़ें१०० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० ३ अ० १ सू० १. शक्यानि, तानि तानि रूपाणि तैस्तैर्वेदान्तैर्निरूप्यन्त इति तावद्रूपात्मकमेकमेव ब्रह्मेत्यर्थः । तत्र हेतुः चोदनाद्यविशेषादिति । चोद्यते कर्तव्यत्वेन बोध्यतेऽनेनेति चोदना विधिवाक्यमिति यावत् । तस्याविशेषादित्यर्थः । यथैकस्मिन्नग्निष्टोमे शाखा- भेदेऽपि चोदना तथैव भवति, 'अग्निष्टोमेन यजेते'ति, तथेहापि सर्वेषु वेदान्तेषु ब्रह्मत्वेनैवोपासना विधीयत इति तथा । आदिपदात् साक्षात्परम्पराभेदेन मोक्ष- भाष्यप्रकाशः। 'यदेकमव्यक्तमनन्तरूप'मित्यनन्तरूपश्रुतौ वृत्तिसङ्कोचे मानाभावादसङ्कुचितवृत्तितया गणनापरि- च्छेदरहितानां रूपाणां निरूपयितुमशक्यत्वाच्चेत्याशङ्कायामाहुः ब्रह्मण इत्यादि । तथाच विरुद्ध- धर्माश्रयतया सामान्यतो ब्रह्मज्ञानस्योक्तत्वेपि 'फलमत उपपत्ते'रित्यत्र ब्रह्मणः फलदातृत्वस्य निर्णी- तत्वात्तत्र कथं फलं ददातीत्याकाङ्क्षायां तैस्तैः रूपैस्तेन तेन साधनेन तत्तत्फलं ददातीति बोधयितुं तत्तत्फलसाधकोपासनार्थं तत्तद्रूपनिरूपणमिति प्रयोजनस्यानुक्तत्वेन तन्निरूपणस्यावश्यकत्वात् सर्वेषां निरूपणाशक्यत्वेपि कियतां निरूपणेऽनुपपत्त्यभावाच्चायमपि प्रतिज्ञार्थ इति भावः । नन्वेवं हेतुबोधकपदासङ्गतिः, ब्रह्मणो नित्यत्वेन तज्ज्ञानस्य चाविधेयत्वेन पुरुषव्यापार- विषयत्वस्य तत्र वक्तुमशक्यत्वादित्याशङ्कायां हेतुमुपन्यस्य व्याकुर्वन्ति चोद्यत इत्यादि । तथाच यद्यपि ब्रह्मत्वेन ब्रह्मणो न चोदनाविषयत्वम्, तथाप्युपासनाविषयत्वादस्त्येव तद्वारा विषयत्वमित्यदोषः । एतदेव बोधयितुं विभजन्ते यथेत्यादि । इहापीत्यस्यैव व्याख्यानं सर्वेषु वेदान्तेष्विति । तथेति । चोदनायामविशेषः । ननु शाखान्तराधिकरणे केवलानां रूपादीनां व्यभिचारित्वं हृदिकृत्य, 'एकं वा संयोगरूपचोदनाख्याऽविशेषा'दिति सूत्रे संयोगादिरूपहेतुचतुष्टयेनाभेदः साधित इति प्रकृते एकेन हेतुना कथमभेदसिद्धिरित्याकाङ्क्षाया- माहुः आदीत्यादि । अत्र भाष्ये रूपसङ्ग्रहानुक्तिस्तु साध्यनिर्देशेनैव रूपस्यार्थादेव सिद्धिम- भिप्रेत्य, सूत्रे चोदनायाः प्रथममुक्तिस्तु चोदनाविषयस्योपासनस्यापि सर्ववेदान्तप्रत्ययत्वज्ञापनेन तद्विषयस्य ब्रह्मणस्तद्वारा तथात्वज्ञापनार्था । तेनान्येषां त्रयाणामपि सङ्ग्रहः । अथवा । चोदना च आदी च तत्समाहारश्चोदनादि, तस्य अविशेषः समानत्वं चोदनाद्यविशेषस्तस्मादित्यर्थो बोध्यः । तथाचैवं संयोगरूपचोदनात्मकहेतुत्रयस्यापि चोदनादिपदेऽभिप्रेतत्वात् सुखेनैवाभेदसिद्धिरित्यर्थः । आख्याया व्यभिचारित्वं त्वग्रे प्रदर्शनीयम् । एवञ्चात्र सूत्रे, ब्रह्म तदुपासनं च सर्ववेदान्तप्रत्ययम्, तत्तदुपासनावाक्येषु तत्तन्नानाधर्मवत्तया प्रतिपादनेपि न भिद्यते । चोदनाद्यविशेषात् । यत्र यत्र चोदनाद्यविशेषः, तदनेकवाक्येष्वनेकविध- तया प्रतिपादनेऽप्यभिन्नम् । नानाशाखोक्तज्योतिष्टोमादिवदित्यनुमानं सिध्यति । तेन ब्रह्मणस्त- रश्मिः। पासनयोर्विलक्षणप्रतीत्यर्थं विश्वासस्य निवेशितत्वादेवकारः । शाखान्तरेति । पूर्वतन्त्र इदं द्वितीयस्य चतुर्थपादे द्वितीयाधिकरणम् । रूपादीनामिति । 'नामरूपधर्मविशेषपुनरुक्तिनिन्दाशक्तिसमाप्ति- वचनप्रायश्चित्तान्यार्थदर्शनाच्छाखान्तरेषु कर्मभेदः स्या'दिति द्वितीय'मेकवे'तिसूत्रम् । तत्र रूपचोद- नाख्यानां भेदे सत्वेन भेदसाधने व्यभिचारित्वम् । कर्म भिन्नं रूपादिमत्त्वात् । अत्र साध्याभाव- वत्यभिन्ने हेतोः सत्त्वाद्व्यभिचारित्वं तद्धृदिकृत्यत्यर्थः । संयोगादीति । संयोगोऽर्थसंयोगः तस्या- विशेषाच्छाखान्तरे । तदेव प्रयोजनमुद्दिश्य तदेव विधीयमानं 'ज्योतिष्टोमेन यजेते'त्येवं प्रत्यभिजा- नीमः । तदेवेदमिति । रूपमस्य तदेव द्रव्यदेवतम् । पुरुषप्रयत्नश्च तादृश एव चोद्यते इति चोदना । 1736