अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1864, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । २०१ अत्रायं विशेषो ज्ञेयः । उपासनाविषयेष्वखिलेष्वविशिष्टं ब्रह्मत्वं ज्ञात्वा ते- ष्येवैकतरं रूपं य उपास्ते, तस्य तत्र सर्वे गुणा उपसंहर्तुमुचिताः । यस्त्वनन्तेषु विभूतिरूपेषु ओमित्यक्षरादिषु 'ओमित्येतदक्षरं ब्रह्मे'ति ज्ञात्वोपास्ते, तस्य शाखा- न्तरीया अप्येतदक्षरोपासनप्रकरणोक्ता एवोपसंहर्तव्याः, नान्ये । तद्रूपमधिकृत्यैव तेषां गुणानां कथनात् । अन्यथातिप्रसङ्गात् । इयं तूपासनामार्गीया व्यवस्थोक्ता, भक्तिमार्गीया त्वेतद्विलक्षणा, साऽग्रे वाच्येति ॥ २ ॥ भाष्यप्रकाशः । सर्वासाग्रुपासनानामैक्ये प्राप्ते सर्वत्र सर्वधर्मोपसंहारप्राप्तेस्तत्र तत्र तत्तद्रूपतत्तत्फलकथनाच्च भेदे प्राप्ते सर्वानुपसंहारस्यापि प्राप्तेश्च तत्राप्त्यप्राप्तिविरोधादित्याकाङ्क्षायाम्, तथा यत्र ब्रह्मत्वेनोपासनं विधीयते, तत्रैवं वेद्यैक्यात्तद्वाक्यवेद्यस्य गुणोपसंहारनिर्णयो भवति, यत्र पुनर्नब्रह्मत्वेनोपासनं न विधीयते, यथा प्राणविद्यादौ, तत्र ब्रह्मत्वेनोपासनाया अभावेन वेद्यैक्याभावात् कथं निर्णय इत्याकाङ्क्षायां च सर्वत्रास्य न्यायस्य तौल्यादनेनैव निर्णयो विरोधाभावश्चेत्याशयेनाहुः अत्रेत्यादि । अत्र गुणोपसंहारे वक्ष्यमाणरूपो विशेषः प्रयोजकभेदबलाज्ज्ञेयः । उपासनाविषयेष्वखिलेष्ववतार- रूपेषु तुल्यं ब्रह्मत्वं वेदान्तवाक्यैरवधार्य, तेष्वेकतरं रूपं यो ब्रह्मत्वप्राधान्येनोपास्ते, तस्य तस्मिन् रूपे सर्वे गुणा उपसंहर्तुमुचिताः । उपसंहारप्रयोजकस्य विरुद्धसर्वधर्माश्रयब्रह्मस्वरूपप्राधान्यस्य तत्र तेनानुसंहितत्वादुक्ताः । एतदेवैतत्पादोपान्त्ये समाहारादिसूत्रद्वये स्फुटीभविष्यति । यस्त्वनन्तेषु विभूतिरूपेषु वर्णात्मकोंकारादिषु तद्रूपप्राधान्यं ब्रह्मत्वस्य गौणत्वं चानुसंधाय उपास्ते, तस्यान्य- त्रिकास्तदीया एवोपसंहर्तव्याः, नान्ये । तत्र हेतुः तद्रूपमित्यादि । अन्यथातिप्रसङ्गादिति । प्रकरणानादरे तद्विरोधप्रसङ्गात् । तथाच तत्तद्रूपानुसंधानकृतया व्यवस्थया विषयभेदेनोपसंहा- रानुपसंहारप्राप्त्यप्राप्तिविरोधाभावादस्मादधिकरणस्योपसंहारार्थत्वं सुखेन युज्यते । किञ्च, अन्यत्रापि तत्तद्विभूतिरूपवेद्यैक्यादन्येषां च हेतूनां तत्र सत्त्वादनेनैव न्यायेन निर्णय इत्यर्थः । अत्रोपासना- मात्रनिर्णयो न क्रियते, अपि तु यद्ब्रह्मप्राप्तिसाधनत्वेन विवक्षितं तस्य सर्वस्येत्याशयेनाहुः भक्तीत्यादि । अग्रे इति । 'न वा प्रकरणभेदात् परोवरीयस्त्वादिव'दित्यस्य द्वितीयव्याख्याने । नचोपासनातिरिक्ताया भक्तेरप्रसिद्धत्वादप्रस्तुतत्वाच्च तद्व्यवस्थास्मरणमाकस्मिकमिति वाच्यम् । गोपालतापनीये 'भक्तिरस्य भजनं तदिहामुत्रोपाधिनैराश्येनामुष्मिन् मनःकल्पनमेव, तदेव च रश्मिः । त्वामेदेति लिङ्गेन वा । अभावेनेति । किन्तु बाणधारकत्वेन । प्राणसंवादेऽस्ति । अस्य न्यायस्येति । व्यापकब्रह्मत्वेन वेद्यैक्याद्विद्यैकत्वन्यायस्य तौल्यम् । व्यापकविभूतित्वेन रूपेण वेद्यैक्याद्विद्यैकत्वनिर्णय इति तस्मात् । प्रयोजकेति । विरुद्धधर्माश्रयत्वस्य तद्रूपाधिकारस्य च प्रयोजकस्य भेदात् । भेद- बलमपि अधिकारस्यानिवार्यत्वात् । ज्ञेय इति परे स्तोः श्रुना श्रुरित्यस्य प्राप्तिः स्मार्ता । उपासनेत्यादि- भाष्यं विवृण्वन्ति स्म उपासनेति । तेनेति । उपासकेन । यस्त्वित्यादिभाष्यं विवृण्वन्ति स्म यस्त्विति । तदीया एवेति । एवकारो विरुद्धधर्मरूपान्ययोगव्यवच्छेदकः । अन्य इति । अधि- कारधर्मविरुद्धः । प्रकरणेति । अधिकारप्राप्तप्रकरणानादरे । अधिकारः प्रारम्भः । प्रकरणं देशकालौ । भाष्येऽधिकृत्येत्यत्राधिकारः स्वप्रासप्रकरणवाचकः । लक्षणयेति भावः । अनेनैवेति । व्यापकधर्मेण वेद्यैक्याद्विद्यैकत्वनिर्णयरूपेणैव । एवकारोऽन्ययोगव्यवच्छेदकः । यदिति । साक्षात्परम्परया । सर्वस्येति । उप समीपे स्थित्वा यथायोग्यकरणमुपासनालक्षणमेकादशसुबोधिन्याम्, तस्या नवधा- भक्तेः सर्वात्मभावस्य च । रामानुजमतेनाशङ्क्य परिहरन्ति स्म न चोपेति । अग्रेति । मक्तिर्हंसे 1739