अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1865, कुल 2600 में से
संदर्भ में पढ़ें२०४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ३ अ० १ सू० १. नन्वग्निष्टोममेवोद्दिश्य यावन्तो धर्मास्तैत्तिरीयके पठ्यन्ते, न तावन्तो वाज- सनेयके, तथाच त्वदुक्तरीत्या वाजसनेयिनां तद्धर्मोपसंहारोपि न्याय्यो भवेत्, नत्वेवं सः, शिष्टाचारादिविरोधात्, तथा पञ्चाग्निविद्यामेवाधिकृत्योक्तोपि षष्ठो- ऽग्निर्न छन्दोगैः शक्यत उपसंहर्तुम्, तथैवाथर्वणिकेनैकस्मिन् रूपे रूपान्तरधर्मा भाष्यप्रकाशः। नैष्कर्म्य'मिति लक्षणभेदेन, समाप्तौ च 'कृष्ण एव परो देवस्तं ध्यायेत् तं रसेत् तं भजे'दिति ध्यानरूपो- पासनातो भिन्नतया विधानेन चोपासनातिरिक्ताया भक्तेः प्रसिद्धत्वात् प्रस्तुतत्वाच्च तदभावात् । एकस्मिन्नेव प्रकरणे सृष्टिकर्तृत्वादिना माहात्म्यस्यात्मत्वेन प्रियत्वस्य च बोधनेन श्रुत्यन्तरेपि श्रुतीनां माहात्म्यज्ञानपूर्वकसुदृढस्नेहरूपभक्तावेव तात्पर्यावसायाच्च । ननु विहिताविहितभेदेन भक्तिमार्गद्वैविध्यादत्र कस्य व्यवस्था वाच्येति चेत् । श्रीभागवते श्रीनन्दादीनां फलकथनेनावि- हितभक्तेरपि प्रामाणिकत्वसिद्धौ मन्दमध्यमयोरर्थे तद्व्यवस्थाबोधनस्याप्यावश्यकत्वादुभयोरपीति बुध्यस्व । ननु सूत्रकारेणेदं कुत्रोक्तं येनैवमुच्यत इति चेत् । उच्यते । अग्रिमसूत्रेऽधिकारस्यानुप- संहारहेतुताकथनेनात्र यथाधिकारनिर्णयसूचनात् सूचितमिति जानीहि । तस्मान्नात्र शङ्कालेशः । एवञ्चास्मिन्नधिकरणे इदं सिद्धम् । 'यो देवानां नामधा एक एव', 'एकं सद्दिप्रा बहुधा वदन्ती'त्या- दिश्रुतिभिः, 'येऽप्यन्यदेवताभक्ता' इत्यादिस्मृतिभिश्च भगवतः सर्वरूपत्वात् तेन तेन रूपेण भगवत एव तत्तत्फलदातृत्वं काण्डद्वये पुराणेषु चेति । तेनादित्याद्यङ्गोपासनास्वपि ब्रह्मोपासनात्वमेवेति च सिद्धम् ॥ २ ॥ १ ॥ अतः परं ताः कथं कर्तव्या इत्याकाङ्क्षायामग्रिमसूत्रेषु तत्प्रकार उच्यत इत्याशयेन सूत्रमवतारयन्ति नन्वित्यादि । तथेति । वैधर्म्ये दृष्टान्तः । अयमर्थः । यथा कर्मणां वैलक्षण्येपि 'संयोगरूपचोदनाख्याविशेषा'दिति शाखान्तराधिकरणोक्तन्यायादैक्यम्, एवमुपासनानामपि तेनैव न्यायेनावान्तरैक्यमपि सिद्धम् । तथात्रास्यैव हेतोर्गुणोपसंहारप्रयोजकतयानेनैव हेतुना ज्योतिष्टो- मादियागेषु शाखान्तरोक्तगुणोपसंहारोपि न्याय्यो भवेत् । तत्करणे शिष्टाचारविरोधस्तत्क्रिया शा- खान्तरोक्तानादरे उपासनायामपि तदापत्त्या पञ्चाग्न्यादिविद्यासु षष्ठाग्न्याद्यनुपसंहारापत्तिरथर्वणाद्यु- क्तरूपेषु रूपान्तरधर्मानुपसंहारापत्तिश्चेति शिष्टाचारविरोधतौल्ये प्राप्ते, तत्समाधानाय गुणानुप- रश्मिः। 'उपास्तिं मन्यन्ते मधुमथनभक्ति'मिति कारिकायास्तथा । 'भक्तिरहस्यभजन'मितिपाठे लक्ष्यलक्षणैकी- भावः । 'उपाधी'त्यत्र फलनैराश्येनेति पठन्ति । लक्षणेति । उक्तोपासनलक्षणभेदेनेत्यर्थः । तद्- भावात् आकस्मिकत्वाभावात् । एकस्मिन्निति । श्वेतकेतुप्रपाठके महाप्रकरणे एकविज्ञानेन सर्ववि- ज्ञानरूपे । सृष्टीत्यादि । 'सदेव सौम्ये'त्यारभ्य 'तत्तेजोऽसृजते'त्यादि । आदिना त्रिवृत्करणम् । आत्मत्वेनेति । 'स आत्मा तत्त्वमसि श्वेतकेतो'इत्यनया तथा । श्रुत्यन्तर इति । 'यतो वा इमानि भूतानी'त्यत्र 'अयमात्मा ब्रह्मे'त्यत्र च । 'भगवान्ब्रह्म कात्स्न्र्येने'ति वाक्यादेवकारः । विहितेति । 'आत्मा वा अरे द्रष्टव्यः श्रोतव्य' इति श्रवणभक्तिर्विहिता । तिसृभिः प्रेम्णि जातेऽन्यासां स्वयम्भव- नाद्विहितत्वम् । 'तं रसेत्तं भजे'दिति द्वयं विहितम् । रस शब्दे । कीर्तनम् । भजेदिति 'भज सेवायाम्' । दास्यम् । 'यं मां स्मृत्वा'ति स्मरणम् । श्रवणमुक्तम् । किं पुन'र्भक्त्या जानाति चाव्य- य'मिति नवधा भक्तिर्विहिता । अविहिताया ज्ञानकारणत्वात् । फलेति । एकादशस्कन्धे कथनेन । मन्देति । उत्तमस्य तु गुरूपदेशेनेति । तथाच सर्ववेदान्तप्रत्ययं नैकमिति प्राप्तम् ॥ २ ॥ 1740