अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1866, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । २०५ इति प्राप्ते, उत्तरं पठति । स्वाध्यायस्य तथात्वेन समाचारेऽधिकाराच्च सववच्च तन्नियमः ॥ ३ ॥ स्वाध्यायो वेदः । स एकमेव कर्म शाखाभेदेन भिन्नभिन्नप्रकारकं बोध- यतीति तत्प्रयुक्तः सम्यग्भूतेऽग्निष्टोमादिलक्षण आचारे तत्तदङ्गाचारनियमोऽन्यू- नानधिककरणलक्षण इत्यर्थः । तावद्भिरेवाङ्गैर्यागसम्पत्तेरधिककरणस्याप्रयोजक- त्वात् तावतामेवाङ्गानां करणम् । ननूक्तं तद्धर्माणांमप्युपसंहारस्त्वदुक्तरीत्या भाष्यप्रकाशः। संहारहेतुकथनेनोपसंहारप्रकारं वदन्नुत्तरं पठतीति बोध्यः । स्वाध्यायस्य तथात्वेन समाचारेऽधिकाराच्च सववच्च तन्नियमः ॥ ३ ॥ अत्र शाखान्तराधिकरणोक्तहेतोः पूर्वसूत्रे परामर्शात् पूर्वतन्त्रविचारे पूर्वकाण्डे च स्वाध्यायशब्दस्य वेदवाचकत्वेन प्रसिद्धेरस्मिन् सूत्रे 'तथात्वेने'त्यनेन तदुक्तस्य प्रसिद्धस्य प्रकारस्य, 'तन्नियम' इति तच्छब्देन तत्प्रसिद्धाङ्गाचारस्य च ग्रहणमित्याशयेन व्याकुर्वन्ति स्वाध्यायो वेद इत्यादि। तावन्मा- त्रनिरूपणस्य यागे तावदङ्गकरणनियमने बीजं स्फुटीकुर्वन्ति तावद्भििरित्यादि । तथाच निरूपण- प्रकारभेदस्य बाधकस्य सत्त्वान्नोपसंहार इत्यर्थः । द्वितीयं हेतुं² व्याकर्तुमवतारयन्ति नन्वित्यादि । रश्मिः। स्वाध्यायस्य तथात्वेन समाचारेऽधिकाराच्च सववच्च तन्नियमः ॥ ३ ॥ तद्व्य- वस्थेति । उपसंहारव्यवस्थास्मरणम् । उपेति । उपसंहारबाधकं तु 'यस्त्वनन्तेष्वि'त्यादि पूर्वसूत्र- भाष्येणाधिकारप्राप्तं प्रकरणमुक्तम् । एवं च स्वाध्यायपूर्वसूत्रं स्वाध्यायसूत्रमिति मध्यमपदलोपी समासो व्याख्यातव्यः । एवमिति पूर्वोक्तप्रकारेण चोदनाद्यविशेषादिति हेतुशोधनात् । शाखान्तरेति । इदमधिकरणं पूर्वतन्त्रे द्वितीयचतुर्थपादद्वितीयाधिकरणेऽस्ति । संयोगादिरूपहेतुचतुष्टयात्मकेन । सिद्ध इत्यन्तेन तथाचेतिभाष्यं व्याख्यातम् । अग्रे शाखान्तरीयेत्यादि वाजसनेयिनामित्यादि- भाष्यव्याख्यानम् । अत्र मध्ये त्वदुक्तरीत्येतिभाष्यं तद्व्याख्यानं 'विरुद्धधर्माश्रयत्वस्योपसंहारनि- यामकत्व'मिति त्वदुक्तरीत्येति । नत्वेवं स इति भाष्यं द्वेधा व्याकुर्वन्ति स्म स वेदित्यादिना । आद्रियत इति क्रियाध्याहारः । शिष्टाचारेति । भाष्योक्तादिशब्दार्थोपलक्षकोयम् । क आदि- शब्दार्थ इति चेत् । नवीनव्याख्यात्रादिस्वीकृतत्वम् । अतीति । अधिकारप्राप्तप्रकरणविरोधः । तत्स्मारकमिति । उपसंहारस्मारकम् । तथा 'पञ्चामिविद्यामेवाधिकृत्योक्तोपि षष्ठोभिनं छन्दोगैः शक्यत उपसंहर्तु'मिति भाष्योक्तोपसंहारस्तत्स्मारकमित्यर्थः । भाष्ये । उक्त इति । बृहदारण्यक उक्तः । स्वाध्यायो वेद इत्यादीति । भाष्ये द्वान्तसूत्रव्याख्यानमितीत्यन्तभाष्येण । तथाच स्वाध्यायस्य तथात्वेन एककर्मणः शाखाभेदेन भिन्नभिन्नप्रकारकत्वबोधकत्वेन । हिर्हेतौ तदर्थस्तृतीय- योक्तः । तत्प्रयुक्तस्तन्नियम इत्यन्वयः । केयत उक्तं सम्यग्भूत इत्यादि । अग्निष्टोमादीति । 'परमेष्ठिनो वा एष यज्ञोग्र आसीद्यदग्निष्टोम' इति श्रुतेरादिरग्निष्टोमः । अग्निष्टोमाद्यग्निष्टोमोक्थ्याति- १. ननूपसंहारस्याग्रे वाच्यत्वादिदानीं तत्तत्संज्ञाभावाद्यावृत्तस्तद्व्यवस्थास्मरणमित्याकाङ्क्षायां स्वाध्यायसूत्र उपसंहारबाधक- थनात् तत्स्मरणमितिबोधनाय सूत्रमवतारयन्ति नन्वित्यादि । एवं हेतुशोधनाच्छाखान्तराधिकरणोक्तहेतुना कर्मक्यवद्विद्यैक्ये वेद्यैक्ये च सिद्धे शाखान्तरीयकर्मणोपि विद्यातौल्याद्विद्यास्मिन शाखान्तरीयकर्मस्वप्यनुक्तगुणोपसंहारः प्राप्नोति, स चेदाद्रियते, तदा शिष्टाचारविरोधोतिप्रसङ्गश्च, यदि नाद्रियते, तदा विधेयतादिसाधनम्व्यर्थत्वमिति शङ्कायां सूत्रं वक्तीत्यर्थः । तदेव तत्स्मारकमित्यर्थः इति पूर्व उत्थानिकापाठः । २. अंशम् । 1741