भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1868, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1868

कल्पविषयत्वेन कल्पसूत्रे उच्यते । विकल्पे तूभयस्याशास्त्रार्थत्वम्, उपसंहारे तूभयस्यापि शास्त्रार्थत्वम् । अतोपि नात्रोपसंहारशङ्का । अत्र दृष्टान्तमाह सववदिति । यथा सवा होमाः सप्तसूर्यादयः शतौदनपर्यन्ता वेदान्तरोदितत्रे- ताग्न्यनभिसम्बन्धादाथर्वणोदितैकाग्निसम्बन्धादाथर्वणिकानामेव कार्यत्वेन निय- म्यन्ते, तथा तत्तच्छाखायास्तथात्वात्तत्तदुक्त एव कर्मणि तत्तच्छाखिनामधि- कारान्न स्वशाखोक्तादन्यूनानतिरिक्तकर्मकरणनियम इत्यर्थः । प्रकृतेपि यद्रू- पोपासनाप्रकरणे यावन्तो धर्मा उक्ताः, तस्मिन् रूपे तावद्धर्मवत्त्वेनेवोपासना कार्या, तद्बोधकप्रमाणानुरोधात्, न तु रूपान्तरोपासनप्रकरणोक्तासाधारण- भाष्यप्रकाशः। उच्यते, यदि प्रकारभेदोक्तेरधिकारस्य च नियामकत्वं न स्यात्, तदा तत्र तन्न व्यवस्थाप्येत, यदि तन्न न व्यवस्थाप्येत, तदा विकल्पो वा उपसंहारो वा प्राप्नुयात् । तत्राद्ये ऐच्छिकत्वेनाष्ट- दोषदुष्टत्वादुभयस्याशास्त्रार्थत्वम्, उपसंहारे तूभयस्यापि शास्त्रार्थत्वम्, तथापि विरुद्धत्वात् कर्तुं न शक्यमिति व्यवस्था आवश्यकी। अतो व्यवस्थावशादपि न कर्मण्युपसंहारशङ्केति न पूर्वोक्तस्याप्रयो- जकत्वमित्यर्थः । ननु यदा शाखाभेदो न सिद्धः, तदा त्वधिकारस्य नियामकत्वाभावादुपसंहारः स्यादित्यत आहुः अत्रेत्यादि । ईदृशेपि स्थले दृष्टान्तमुखेन नियामकमाहेत्यर्थः । व्याकुर्वन्ति यथेत्यादि । यथा सवाः सम्बन्धिभेदान्नियम्यन्ते, तथा विभागाभावदशायामपि तत्तद्वेदे विद्यमा- नायास्तत्तच्छाखाया एव नियामकत्वात् तथेत्यर्थः । एवमत्रोपसंहारहेतुः शोधितः । निरूपणप्रकार- भेदादिबाधकरहित एव वेद्याभेद उपसंहारप्रयोजक इति । एवं कर्मण्युपसंहारबाधकान्युक्त्वा तेषामुपसंहारबाधकानामुपासनायामपि तुल्यत्वात् सववच्चेति चकारेण तासामप्यत्र सङ्ग्रहादे- रश्मिः। तयोदिते होतुरनुदितहोमे दोषः, अनुदिते होतुरुदितहोमे दोष इति उदितहोतुरुदितहोमोऽनुदितहो- तुरनुदितहोम इति व्यवस्थितविषयत्वं तेन । विकल्प इति भाष्यं विवरीतुमाहुः यदीति । प्रकारेति । प्रकारभेदः गुणभेदस्याप्रयोजकत्वरूपः । विद्यैकत्वं वेद्यैकत्वाधीनं, तद्वैद्यैकत्वं गुणानां गोपरूपत्वराम- त्वनृकेसरित्वानां भेदस्याप्रयोजकत्वाङ्गीकाराद्ब्रह्मत्वेनाङ्गीकृतम् । यथा घटत्वपटत्वकुम्बलगुकूलत्वानां गुणानां भेदस्याप्रयोजकत्वाङ्गीकरणेन द्रव्यत्वेन रूपेण घटादीनां वेद्यानामभेदस्तथात्र अस्याः प्रकारभेदोक्तेरित्यर्थः । तन्न तन्नेति । तत्तत्कल्पसूत्रे तत् होमाश्मादानद्वयम् । उपसंहार इति । 'कुञ्चुटोसी'ति मन्त्रयितरि 'कुरूरसी'ति मन्त्रयितुरुपसंहारः 'कुरूरसी'ति मन्त्रयितरि 'कुञ्चुटोसी'ति मन्त्रयितुरुपसंहारः । उदिते होमकर्तर्य्नुदिते होमकर्तुरुपसंहारः । अनुदिते होमकर्तर्युदिते होम- कर्तुरुपसंहारः । भाष्यं व्याकुर्वन्ति स्म तत्राथ इति । अष्टदोषेति । पूर्वमीमांसायां स्पष्टाः । कर्मणीति । अग्निष्टोमे । पूर्वोक्तस्येति । व्यवस्थितविषयत्वेन प्रकारभेदोक्तेरधिकारस्य च । यदेति । व्यासावतारपूर्वकाले । सम्बन्धीति । आथर्वणिकसम्बन्धिभेदात् । अस्यां फक्किकायां अथर्वणेति पदच्छेदः उदितेत्येकदेशान्वयि । न्यायेऽन्वयः प्रसिद्धः । तथेतिभाष्यविवरणं तथा विभागेति । विद्यमानाया इति । 'नासतो विद्यते भाव' इति वाक्यात् । नियामकत्वादिति । तथात्वादिती- तिभाष्यार्थः । तथेत्यर्थ इति । तत्तदुक्त इत्यादिरित्यर्थः । उपसंहारेति । उपसंहारस्य हेतुः वेद्या- भेदः । शोधनप्रकारमाहुः निरूपणेति । गुणनिरूपणं गुणरूपप्रकारभेद आदिनाधिकारः एतै-