अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1869, कुल 2600 में से
संदर्भ में पढ़ेंधर्मवत्त्वेनापि । तथा सति मत्स्योपासकस्य चापशरादिकमपि भावनीयं स्यात्, पुरुषरूपोपासकस्य च लक्षयोजनायामशृङ्गादिकम् । नन्वथर्वणोपनिषत्सु श्रीरामोपासनायां 'यो वै ये मत्स्यकूर्माद्यवतारा भूर्भुवःसुवस्तस्मै वै नमो नम' इति वाक्येन तदितरावताररूपत्वमुच्यते, तेन तद्धर्मवत्त्वमप्याक्षिप्यते । सत्यमाक्षिप्यते तद्धर्मवत्त्वम् । तत्रायमभिसन्धिः । परमकाष्ठापन्नं ब्रह्मस्वरू- पमिदमिति ज्ञात्वा ह्युपासना कार्या। तेनैतस्यैवान्येऽवताराः, तत्तद्रूपेण तानि तानि कर्माण्ययमेव कृतवानिति ज्ञेयं परम्, न तु तस्मिन्नेव रूपेऽन्यावतारधर्मवत्त्वमपीति ।
भाष्यप्रकाशः । तांस्तत्रापि सङ्गमयन्ति प्रकृतेपीत्यादि । तथा सतीति । तद्बोधकप्रमाणमनुरुध्य रूपान्तरा- साधारणधर्मोपसंहारेऽङ्गीकृते सति