अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1871, कुल 2600 में से
संदर्भ में पढ़ेंननु पुरुषादिरूपस्य विग्रहस्यैव शुद्धब्रह्मत्वादयमेवावतारान्तरेष्वपि लीला- कर्तेति ज्ञानमनुपपन्नमिति चेत् । मैवम् । धर्मिग्राहकमानेनैकस्यैव शुद्धस्यैवानन्त- रूपत्वेन सिद्धत्वात् । वस्तुन एव तथात्वान्न कापिच्छङ्का । यथैकस्यान्योन्या- भावस्यानन्तभावप्रतियोगिकतद्रूपत्वं तावत्प्रतियोगिकात्यन्ताभावरूपत्वं चाभा- भाष्यप्रकाशः। परविद्यासु रूपान्तरे पूर्वोक्तरीतिकरूपान्तरगुणोपसंहारानुपपत्तिं शङ्कते नन्वित्यादि, इति ज्ञानमनुपपन्नमिति । रूपान्तरविग्रहस्यापि शुद्धब्रह्मत्वादयमेव तथेत्यंशेऽनुपपन्नमित्यर्थः । तत्र समादधते मैवमित्यादि । धर्मिग्राहकं मानं हि 'यदेकमव्यक्तमनन्तरूप' मिति वक्ष्यमाणश्रुतिरूपं तेन । वस्तुन एव तथात्वात् । ब्रह्मण एकत्वादत्र प्रकरणिनः श्रीरामचन्द्रस्यैव भगवत्त्वेन भावनात् तस्य विरुद्धधर्माश्रयत्वेन सर्वाकारत्वात् तस्यैव रूपान्तरेण तत्करणसम्भवेन न कापि शङ्केत्यर्थः । एतच्च बुद्ध्यावरोहार्थं दृष्टान्तेनोपपादयन्ति यथेत्यादि । नियतपदार्थवादिमते भावभिन्नो निषेधमुखप्रतीतिगोचरो य एकोऽभावभेदरूपोऽन्योन्याभावपदार्थस्तस्यैव तादृशतादृश- रश्मिः। मनसां पदार्थानामबाधेनाधिकसंख्या पञ्चसंख्या तस्यां न्यूनसंख्या चतुःसंख्यायाः । अबाधेनेति । शृते पञ्चाशदितिप्रतीत्या तथा । पुरःस्फूर्ती शाखाभेदस्फूर्ती विद्याभेदस्फूर्ती । तस्येति । एवं प्रकार- भेदस्येत्यर्थः । इतिवदिति । इत्यदोषबोधकवाक्यवत् । शाखान्तोक्तगुणोपसंहारेण प्राणविद्यास्वरूपस्य प्राग्विदर्शनात् । व्यतिरेके दृष्टान्तः । अत्रेति । अवयव्यनवयवविपक्षयोरित्यर्थः । उद्धृत्येति । अनवयवविपक्षमाश्रित्योद्धृत्य । नन्वित्यादीति । विग्रहस्यैवेति । एवकारः शुद्धब्रह्मरूपावयवियोगं व्यवच्छिनत्ति । अयं विग्रहः । एवकारः पूर्वव्याख्येयः । शुद्धब्रह्मत्वादेवकारो वा । अनुपेति । देवदत्तोपि विष्णुमित्रे क्रीडाकर्ता स्यात् । अतोऽनुपपन्नम् । तथाचेत्यादि । अवयव्यनङ्गीकारेण शङ्का- याम् । आकाराणां परस्परं सन्निवेशविरोधेन । वाक्यमेवेति । आकाररूपेण प्रवेशाङ्गीकारेऽन्यथा- काररूपेणाप्रवेष्टृत्वेन सन्तमन्याकाररूपेण प्रवेष्टृत्वप्रतिपादनं निषिद्धं तस्य निषिद्धसार्थस्य बाधकम् । एवकारोऽन्ययोगव्यवच्छेदकः । समादधत इति । अवयविपक्षमाश्रित्य तया । मैवमित्यादीति । एकस्यैवेति । अवयविन एव । एवकारोऽवयवमात्रयोगव्यवच्छेदकः । शुद्धस्यैवेति । अक्षरमात्रस्य । तेनेति । सिद्धेनानन्तरूपत्वेन । तथात्वादित्यस्य व्याख्यानं तस्यैवेत्यादि । तस्यैवेति । अवयविन एव । तत्करणेति । अवतारान्तरेष्वपि कर्तृत्वेन । कापीति । अवयवावयविनोरपि जन्मप्रकरणे द्विभुजे चतुर्भुजप्रवेशेपि शङ्का । एतस्येति । दाष्ट्रान्तिकस्य । दृष्टान्तेनेति । तथाचोपक्रमस्य संजात- विरोधित्वेन छान्दोग्यीय नवमोपदेशार्थे दाष्ट्रान्तिके प्रसिद्धपक्ष्मं 'न्यग्रोधफलमत आहरेती' त्याद्युक्तं 'यं वै सौम्यैतमणिमानं न निभालयसे, एतस्य वै सौम्यैषोऽणिमा, एवं महान्न्यग्रोधस्तिष्ठती' त्यननुप्रयोगोद- भावदृष्टान्तेनेत्यर्थः । यद्यप्यणिमत्वेनाभावो विशेषितो न भावयितुं शक्य इत्यभावपदार्थः, तथाप्यन्यापे- क्षयायमेव दृष्टान्तो युक्त इत्याशयवन्त आहुः नियतेति । सप्तपदार्थवादिनावैयायिकमते । निषेधेति । घटः पटो नेत्येवम् । तस्यैवेति । अत्र विशेषणविभक्तेः साधुत्वार्थत्वापेक्षया प्रतीयमानाभेदार्थकत्वस्य ज्यायस्त्वेन विशेषणैक्यादन्योन्याभावपदार्थविशेष्यान्वय्येवकारः कृतः । एकस्यैवेत्यर्थः । अभेदात् । तदुक्तं मुक्तावल्यां 'अन्योन्याभावस्यैकविधत्वात्तद्विभागाभावा' दिति । तादृशेति । वक्ष्यमाणेत्यर्थः । इत्याद्युक्तेति । इत्यादिभाष्योक्तेत्यर्थः । तद्यथा । भाष्ये । घटः पटो नेत्यत्र पटो घटो न, कुम्भो कुसूलं न, कुसूलं कुम्भं नेत्येवमनेन भावप्रतियोगिकान्योन्याभावरूपत्वम् । तावदिति । अयं भावः ।