अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1879, कुल 2600 में से
संदर्भ में पढ़ें२१८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ३ अ० १ सू० ३. अभिधीयते । 'सत्त्वं यस्य प्रिया मूर्तिः' 'विशुद्धसत्त्वं तव धाम शान्त'मि- त्यादिवाक्यैरप्राकृतो भगवत्स्थानभूतः सत्त्वनामा भगवद्धर्मरूप एव कश्चनास्ति । यादृशेन रूपेण भगवान् कार्यं कर्तुमिच्छति, तादृग्रूपं तं प्रकटीकृत्य तस्मिन् भाष्यप्रकाशः। दिनोक्तस्तु द्वितीयः। एवं प्राप्तम्। तथाच तापनीयानन्तरूपश्रुत्योरितरेतरविरोधान्निरवयवत्व- बोधकनिष्कलश्रुतिविरोधाच्च श्रैष्ठ्यादिनिर्धारासम्भवे धर्माणां मायिकत्वस्यैव शरणीकरणीयत्वात् स्वरूपपराणांavataranतरेऽवतारान्तरधर्मोपसंहारानुपसंहारचिन्ताया अनुपयोगात् पूर्वोक्ताश- ङ्काया अनिवृत्तावप्यदोष इति मतान्तरीयव्याख्यानं साध्वेवेति पूर्वपक्षाशयः । तत्र समाधत्ते अभिधीयत इत्यादि । अत्र 'सत्त्वं यस्ये'त्यादिवाक्यद्वये यथायथं 'प्रिये'ति 'विशुद्धे'ति विशेषणाभ्यां विवक्षितस्य सत्त्वस्य प्राकृतात् सत्त्वात् व्यावृत्तिः क्रियते, 'मां भजन्ति गुणाः सर्वे निर्गुणं निरपेक्षकमिति, 'विलज्जमानया यस्य स्थातुमीक्षापथेऽमुये'ति वाक्याभ्यां तस्य गुणानामप्रियत्वस्याविशुद्धत्वस्य बोधनात् । नच प्राकृतगुणातिरिक्तसत्त्वस्याप्र- सिद्धत्वं शङ्क्यम् । 'सत्त्वं रजस्तम इति निर्गुणस्य गुणास्त्रय' इति द्वितीयस्कन्धे प्राकृतत्र्य- तिरिक्तानां गुणानां सिद्धत्वात् । 'यथा कार्पासे न हि सूत्रम्, तदेव पुनः पौर्वापर्यमापद्यमानं सूत्रतामापद्यते, तथा भगवाञ्निर्गुणस्ते पुनर्गुणा' इति तत्र विवरणात् । स च द्रव्यरूपः । अन्यथा तस्य मूर्तित्वधामत्वयोरनुपपत्तेः । रामानुजास्तु । शुद्धसत्त्वं नाम रजस्तमोमिश्रप्राकृतसत्त्वविलक्षणसत्त्वगुणाश्रयो द्रव्य- विशेष इत्यङ्गीकृत्य, 'स्वसत्ताभासकं द्रव्यं त्रिगुणाच्चद्विलक्षण'मिति वाक्यं च तस्मिन् प्रमाण- त्वेनाहुः । तस्मातिरिक्तत्वमेव, न त्वेतद्रूपत्वम् । एवमेतस्योपाधित्वं साधयित्वा तेनांशान् साधयन्ति यादृशेनेत्यादि । स स इति । अव- रश्मिः। एवं शेषं निगदव्याख्यातम् । संशयस्य पूर्वपक्षोत्थ्या बोधात्पूर्वपक्षमाहुः तथाचेत्यादिना । इतरेतरेति । तापनीये श्रेष्ठता अनन्तरूपश्रुतौ सर्वतुल्यतेति तथा । अवतारे कोटिद्वयमुक्त्वावतारिण्यनन्तरूपश्रुति- कोट्या द्वितीयकोटिमाहुः निरवयवत्वेति । श्रैष्ठ्यादीति । श्रेष्ठत्वं श्रेष्ठता आदिना सर्वतुल्यता तयोरेकतरस्य निर्धारासम्भवे । तथाचावतारस्य श्रेष्ठता वा सर्वतुल्यता वेति सन्देहः, अवतारिणोऽनन्त- रूपता वा निष्कलतारूपनिष्क्रियता वेति सन्देहः । इति पूर्वपक्षे सन्देहबोधः । स्वरूपेति । अवतारि- पराणाम् । पूर्वोक्तेति । 'नन्वग्निष्टोममेवोद्दिश्ये'त्यादिना 'भेदान्नेति चे'दिति सूत्रोक्तशङ्काया अवतारिपरायाः अवतारविषयेऽनिवृत्तावपि । अप्रियत्वस्येति । 'मां भजन्ति गुणा' इत्यत्र प्रियत्वार्थं भजनात् । 'विलज्जमानये'त्यत्र अविशुद्धत्वात्कापव्यात् विल्लज्जेति तथा । ते पुनर्गुणा इति । निषेधयोग्याः प्रति- योगिन इत्यर्थः । गुणप्राप्तिर्गुणनिषेधश्च पूर्वापरव्यवस्था । तत्रेति । द्वितीयसुबोधिन्याम् । स चेति । सत्त्वगुणः । अन्यथेति । नैयायिकगुणत्वे । मूर्तित्वं परिच्छिन्नपरिमाणवत्त्वम्, तस्यानुपपत्तिः, गुणे गुणानङ्गीकारात् । धामत्वमयोगोलकवत् । स्वसत्तेति । आत्मसत्ता जातिः, सत्त्वं न गुणः, तां भासयति तत्स्वसत्ताभासकम् । गुणकर्मान्यद्रव्यम् । विलक्षणं शुद्धत्वेन । ननु गुणविलक्षणत्वं गुणसलक्षणत्वप्राप्तौ भवति, गुणसलक्षणाभावत्वात् गुणविलक्षणत्वस्य, अतो न जातिः सत्त्वमिति- चेत् । न । चतुर्थगुणकल्पने गौरवात् सतो भावः सत्त्वं सत्ता चेत्येकार्थात् । तस्मिन्निति । शुद्ध- 1754