अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1880, कुल 2600 में से
संदर्भ में पढ़ेंस्वयमाविर्भूयायःपिण्डे वह्निवत्तत्तत्कार्याणि करोति, यस्मिन् यस्मिन्नवतारे, स सोऽंश इत्युच्यते । तत्र हि विग्रहस्तत्राविर्भूतं ब्रह्मस्वरूपं च प्रतीयते । विग्रहस्य सत्त्वात्मकत्वेन धर्मरूपत्वात् तत्राविर्भूतस्यैव ब्रह्मत्वात् समुदितस्यावतारत्वेन गणनात् तत्रैकस्यैवांशस्य तद्रूपत्वं यत् तदेवांशत्वम् । यत्राधिष्ठानमनपेक्ष्य स्वयमेव शुद्धं साकारं ब्रह्माविर्भवति भक्तार्थम्, स स्वयं पूर्णो भगवान् उच्यते । एतदेव च श्रेष्ठ्यम् । अत एव सर्वतः पाणिपादान्तत्वं स्वस्मिन् स्फुटं ज्ञापयितुं तारः। नन्वयःपिण्ड आविर्भूतस्य वह्नेर्वह्नित्वमेवोच्यते, न त्वंशत्वम्, अतः कथमेवमित्याशङ्काया- माहुः तत्र हीत्यादि । एकस्यैवांशस्य तद्रूपत्वमिति । आविष्टस्यांशस्य ब्रह्मरूपत्वम् । तथाच विरुद्धधर्माश्रये ब्रह्मण्यप्याकाराकारतयोरुभयोः सत्त्वाद्यत्रानाकारेण तेजोरूपेण प्रविशति, सोऽंशावतारः । इदमेव निबन्धे प्रथमस्कन्धतृतीयाध्याय्यार्थविचारेपि 'सत्त्वात्मके शरीरे अलौकिकतेजसः सर्वदा संक्रमोऽवतारः, कार्यकाले संक्रम आवेश' इति तद्भेदकथनमुखेन बोधितम् । अतः परं श्रेष्ठ्यबोधनाय मूलस्वरूपं विवृण्वन्ति यत्राधिष्ठानेत्यादि । अधिष्ठानं सत्त्वाद्यात्मकं शरीरमनपेक्ष्य स्वयमेव शुद्धं साकारं ब्रह्म आविर्भवतीत्यादिप्रकारेण पूर्णो भगवा- नुच्यते । एतदेव पूर्णभगवत्त्वमेव श्रेष्ठ्यम् । तापनीयवाक्येषु रामादीनां त्रयाणां प्रणवमात्रात्रय- प्रतिपाद्यत्वमुक्त्वा, तेन सत्त्वरजस्तमोधिष्ठानत्वं प्रतिपाद्य, अग्रे अहंग्रहोपासनायां 'ॐ तत्सत् सोऽहं परं ब्रह्म कृष्णात्मको नित्यानन्दैकरूप' इत्यादिना निरधिष्ठानस्य केवलनित्यानन्दैकरूपस्य कृष्णात्मकस्यैव श्रावणादेतदेव श्रेष्ठ्यमित्यर्थः । यद्यप्येतादृशत्वं रामनृसिंहतापिन्योस्तत्तत्स्वरूपे उच्यते, कल्पभेदेन च तथा सिध्यति, तथाप्युरुक्रमावतारे देवमात्रकार्यार्थतायाः स्फुटत्वात् तेनावतारेण बलेरेव मुक्तेः स्फुटत्वाच्च स्वल्पं मोक्षदातृत्वम्, श्रीनृसिंहस्वरूपे तु 'यदिदं किञ्च जगत् सर्वं प्राण एजति निःसृत'मिति कम्पनाधिकरणविषयवाक्योक्तन्यायेन मुक्तिदातृत्वं नृसिंहराजमन्त्रे स्फुटति, न तु सौम्यरूपतया सुगमोपायेन वा । श्रीरामस्वरूपे तु बहूनां स्वल्पसाधनेनैव मोक्षदातृत्वेपि सौम्यरूपत्वेपि भूयान् मर्यादानुरोधः । पुष्टिकार्यं तु स्वल्पम् । श्रीकृष्णवतारे तु 'गोप्यः कामात् भयात् कंसो द्वेषाच्चैद्यादयो नृपाः । सम्बन्धाद्वृष्णयः स्नेहात् यूयं भक्त्या वयं विभो' इत्यादिवाक्याद्बहुभिः प्रकारैर्मोक्षदत्वम्। तेन मर्यादानुरोधशैथिल्याद्यनुसंधाय रश्मिः। सत्त्वस्य द्रव्यत्वे । आहुरित्यस्वरसस्तु ह्याश्चर्यरसाभावेपि बुद्ध्यारोहाज्ज्ञेयः । सिद्धमाहुः तस्येति । शुद्धसत्त्वस्य । प्राकृतगुणातिरिक्तत्वमेव, न तु प्राकृतगुणरूपत्वम् । एतस्येति । द्रव्यस्य । तेनेति । द्रव्यत्वेन । उच्यत इति । लोकदृष्ट्योच्यते । कथमेवमिति । केन प्रकारेण दृष्टान्तत्वम् । आहुरिति । शास्त्रदृष्ट्या समाधानमाहुरित्यर्थः । तत्र हीत्यादीति । तत्र शास्त्रदृष्ट्या सूर्येणौ दृष्टान्ते । दार्ष्टान्तिके भगवति । सर्वदेति । यथा वराहादौ । आवेश इति । यथा बलभद्रे । 'हलधर ईषद्वत्रस'दिति त्रास- बोधनात् । यत्राधिष्ठानेत्यादीति । स्वयमेवेत्यादि । मायाजवनिकां दूरीकृत्य साकारमानन्दमय- वैश्वानराधिकरणयोरोक्तम् । श्रीमद्भागवते मतेऽधोक्षजत्वेपि साकारत्वं साकारकार्यानुरोधात् । कारणगुणाः १. अधिष्ठानमित्यारभ्य अत एवेत्यन्तमिदम् श्रीहस्ताक्षरेषु एवमाविर्भूतत्वे साकारब्रह्मत्वे गमक्रमाहुः अत एवेत्यादि । 1755