अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1882, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । १२१ नन्वेकस्यैव शुद्धस्यैवानन्तरूपत्वं भवतैवोक्तम्, अतो मत्स्यादिरूपेष्वपि नाधिष्ठानत्वेन सत्त्वं वक्तुं शक्यम्, किञ्च, एवं निराकारस्वभावत्वं ब्रह्मणः सिध्य- तीति सत्त्वाद्यवहितप्राकट्योक्तिरप्यनुपपन्नेति चेत् । मैवम् । सत्त्वाधिष्ठानत्वस्य प्रमाणसिद्धत्वेनानपनेयत्वात् । तच्चोक्तं 'यदेकमव्यक्तमनन्तरूप'मित्यादि । प्राकट्यं हि भक्तिनिमित्तिकम् । सा तु बहुविधेति तदनुरूपं प्राकट्यमपि तथा । भाष्यप्रकाशः । एवं रूपत्रयविभागास्याप्रयोजकत्वं मन्वानश्चोदयति नन्वित्यादि । एवमिति । सत्त्वाधि- ष्ठानत्वेनाकारसमर्पकत्वे । तथाच न्यायसिद्धत्वाद्विभूतिरूपं तथास्तु । मूलावताररूपे तु न तथा । वदतो व्याघातादित्यर्थः । तत्र समाधत्ते मैवमित्यादि । तच्चेति । स्वतोऽनन्तरूपत्वे प्रमाणं च । आदिपदेन 'क्षयन्तमस्य रजसः पराक' इत्यादीनां सङ्ग्रहः । तथाच 'यदेक'मित्यादिश्रुतिषु 'तमसः परस्ता'दित्यादिब्रह्मविशेषणाद्ब्रह्मसम्बन्धिरूपादौ प्रकृतिसंसर्गरहित्यसिद्ध्या 'आनन्दरूपममृतं यदि- भाति' 'आनन्दामृतरूपं प्रणवं षोडशान्तं' इत्यादिभिः सच्चिदानन्दरूपताया ब्रह्मणः स्वतोऽनन्त- रूपतायाश्च प्रमाणसिद्धत्वात् प्रकारत्रयमपि प्रमाणसिद्धमिति न व्याघात इत्यर्थः । ननु भवतु त्रयाणां प्रामाणिकत्वम्, तथापि कुत्र कथं प्रकटीभवतीति न ज्ञातुं शक्यते इति विशेषानवधार- णात् वृथैवायं विचार इत्याशङ्कायां तदवधारणहेतुबोधनेन तां निवारयन्ति प्राकट्यं हीत्यादि । प्राकट्यमपि तथेति । 'ये यथा मां प्रपद्यन्ते' इति भगवद्वाक्यात्तथा । तथाचैवं भक्तिभेदा- रश्मिः । रूपेषु । अन्नमस्य समष्टित्वात् । रसः सारः । गन्ध(पुष्प)चन्द्रपुष्पसोमवल्लीषु पुरुषत्वाग्निवायुविष्णुरूपः । गन्धः पृथिव्याः स्पष्टः । 'अपां पुष्पं वेदे'त्यारणश्रुतेश्चन्द्रः । ओषधिरसः द्वौ स्पष्टौ । 'पुष्पमूर्ध्वमेव गृह्ण- न्ती'ति श्रुतेश्च । सोमवल्ली यज्ञाङ्गम् । पुरुषस्य पुरुषत्वमाकाशः । 'आकाशो ह वै नाम नामरूपयोर्निर्वहिता'ति श्रुतेः । वाचोऽग्निः ऋग्रूपः । ऋचामग्निप्रतिपादकत्वात् । 'अग्निर्वाग्भूत्वा मुखं प्राविश'दिति श्रुतेः । ऋचो वायुः सामरूपः । 'वायुः शब्दतामापद्यत' इति प्राचां प्रवादात् । साम्नो विष्णुरुद्गीथः । पूजाप्रतिपादक- त्वात्साम्नः विष्णोश्चाधोक्षजसेवायांः स्वगुणद्वारा ज्ञापकत्वात् कार्यैक्यम् । एवं रूपत्रयेति । अवतारिणं विनावतारपूर्णविभूतिरूपत्रयविभागस्य । नन्वित्यादीति । एकस्यैवेति । द्वितीययोगव्यवच्छेदकः । शुद्धस्यैवेति । शुद्धसत्त्वयोगव्यवच्छेदकः । भवतैवेति । अस्मिन्नेव सूत्रे भवता सिद्धान्तिनैव । क्षयन्तमिति । अत्र विद्यैक्यार्थं वेद्यैक्योपदेशः । अस्य जगतः रजसः ब्रह्मकार्यस्य स्वल्पभेददर्शनं क्षयन्तं यो वेद सोऽमृतो भवति । केति चेन्न । पराके खण्डे भेदद्रष्टुर्भयजनके सति । आदिना 'महद्भयं वज्रमुद्यन्तं य एतद्विदुरमृतास्ते भवन्ती'ति काठके । 'यस्त्वेवमेतं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्त' इति विद्यैक्यमुक्तमत्र । 'यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते अथ तस्य भयं भवती'ति तैत्तिरीयकभेददर्शननिन्दायै परामर्शो दृश्यतेऽत्र । 'तत्वेव भयं विदुषोऽमन्वानस्ये'ति श्रुतेरन्यत्राप्यभे- दममन्वानस्य भयं संसाराभिनिवेशलक्षणं भवतीति । ब्रह्मसम्बन्धीत्यादि । आदिना मूलरूपम् । आनन्दरूपमिति । कृष्णावतारः । प्रणवम् । गायत्र्यर्थकारिकाभिर्विवृतम् । षोडशान्त इति । लिङ्गशरीरान्तः, आदिनानन्दमयस्य । 'को ह्येवान्या'दित्यादिश्रुतिः । स्वत इति । मूलरूपात् अनन्तावता- रादयः, चकाराद्विभूतिरूपाणि अन्नमयादीनि । प्रमाणेनेति । प्रमाणपदेन 'यदेकमव्यक्तमनन्तरूप'मिति श्रुतिरपि । कुत्र कथमिति । त्रिषु पूर्णावतारविभूतिषु कुत्र सत्त्वाद्युपाधौ कथं केन प्रकारेण । प्रकार- विशेषानवधारणात् । तद्वेति । प्रकारावधारणहेतुभूतभक्तिबोधनेन तां शङ्काम् । प्राकट्यं हीत्यादीति । 1757