अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1883, कुल 2600 में से
संदर्भ में पढ़ें३२२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० ३ अ० १ सू० ३० सर्गादिकार्येष्वधिकृतानां भक्तानामितरासक्तिरप्यस्तीत्युपाध्यन्तरितस्नेहवत्त्वा- च्छानन्तरूपत्वेन मत्स्यादिरूपोपि तदर्थं तद्व्यवहित एव प्रकटीभवति । ये तु भगवत्स्वरूपमात्रासक्ताः, तदर्थं स्वयमेवातद्द्व्यवधानेन प्रादुर्भवति । एतेनैव निराकारत्वशङ्कापि निरस्ता । एतेन सोपाधिस्नेहवद्धर्ममेव मत्स्यादिरूपप्राकट्यस्य प्रमाणसिद्धत्वान्निरुपधितद्वद्धर्ममेव श्रीव्रजनाथप्राकट्यस्यापि तथात्वात् सोपाधि- स्नेहवत्स्वपि पुरुषार्थदानस्यानुषङ्गिकत्वात् 'पुरुषविध' इति श्रुतेश्चैतदेव रूपं 'रसो वै भाष्यप्रकाशः। रूपभेदोपि सुखैनावधारयितुं शक्य इत्यर्थः । तर्हि भक्तिभेदस्य कथमवधारणमित्य आहुः सर्गेत्यादि प्रादुर्भवतीत्यन्तेन । एवं प्राकट्यप्रकारव्यवस्थापनेन निराकारत्वशङ्काया अपि निवृत्तिमाहुः एतेनैवेत्यादि । भगवति प्रपञ्चवैलक्षण्यस्य पूर्वपादान्त एव प्रतिपादिततया लौकिकाकारराहित्यमेव तत्र निरा- क्रियता, न तु यावदाकारराहित्यम् । उपाधिव्यवधानं तु शुद्धदर्शनयोग्यताभावेन हेतुभेदात्, अतः प्राकट्यप्रकारव्यवस्थापनेनैव यावदाकारशून्यत्वशङ्काप्यपास्तेत्यर्थः । एवं रूपविभागं रूपाणां स्वरूपं च विशदीकृत्य भगवति श्रीकृष्णरूपे यच्छ्रेष्ठत्वम्, अन्यत्र यत् तद्राहित्यम्, तदुभयं व्यक्तीकुर्वन्ति एतेन सोपधीत्यादि । एतेनेत्यस्याध्यवसीयत इत्यनेन सम्बन्धः । तथात्वादिति । गोपालतापनीयबृहद्दामनीयसन्दर्भे 'ता नाविद'न्नित्यादिप्रमाणसिद्धत्वात् । सोपाधिस्नेहवत्सु मधुराद्वार(का)वतीप्रभृतिस्थेष्वपि तत्तत्पुरुषार्थदानस्य तत्तद्व्यूहेन कृततया आनुष- ङ्गिकत्वात् । आनन्दमय निरूपणे 'स वा एष पुरुषविध एवे'ति पुरुषविधश्रुतेश्च । एतदेवानन्दमयं रश्मिः। 'भक्त्या जानाति चाव्यय'मिति श्रुत्यां भक्तेः करणत्वं ज्ञाने ज्ञानं प्राकट्ये सति भवतीति भक्तः भक्त्या भगवतः प्राकट्यं कुर्वन् ज्ञानविषयं करोतीत्यर्थः । परेषां ज्ञानाश्रयो भक्तः । एवं प्राकट्यं भक्तिनिमि- त्तकम् । बहुविधेति । भक्तिजन्या 'श्रेयोभिर्विविधैश्चान्यैः कृष्णे भक्तिः प्रसाध्यते' इति तत्तत्कारणजन्या बहुविधेति तदनुरूपं भक्त्यनुरूपं स्वस्वकारणजभक्तियोग्यम् । सर्गादीति । भक्तानामिति । ब्रह्मा- दीनाम् । इतरेति । सर्गादिकारणासक्तिः । इति हेतौ । हेत्वन्तरं उपाधीति । सत्त्वान्तरित्यर्थः । एवेति । 'सत्त्वमस्स प्रिया मूर्ति'रिति वाक्यादेवकारः । आधिभौतिकभक्त्या सत्त्वोपाधौ प्राकट्यप्रका- रमुक्त्वाध्यात्मिकमत्त्या निरावरण आकाशे प्राकट्यप्रकारमाहुः ये त्विति । आसक्तिराध्यात्मिकी भक्तिः । स्वयमेवेति । 'कृष्णो वै परमं दैवत'मिति श्रुतेरेवकारः । अतद्व्यवधानेन किन्तु आकाशव्यवधानेन । तन्नेति । अधोक्षजे । हेतुभेदादिति । भक्तिरूपहेतोः सोपाधिनिरुपाधिरूपभेदात् । यावदिति । सोपाधिके औपाधिकत्वेपि निरुपाधिके उपाध्यभावात्तथा । अन्यत्रेति । मत्स्यादिषु । गोपालेति । 'तदुहोवाच ब्राह्मणोसावनारतं मेध्यातः स्तुतः परार्धन्ते सोऽबुध्यत गोपवेषो मे पुरुषस्तदाविर्बभूवे'ति । बृहदिति । 'चिरं स्तुत्या ततस्तुष्टः परोक्षं प्राह तान् गिरे'ति । ता नाविदन्निति । अत्र वाक्ये 'मय्यनुषक्तबद्धधिय' इत्यनेनात्मना भक्तवश्यत्वेनाविर्भूते मय्यनुषङ्गबद्धधिय इत्यर्थान्निरुपधितद्वदर्थत्वम् । सोपाधीति भाष्यं विवृण्वन्ति स्म सोपाधीत्यादिना । त्र्यस्त्रिंशाध्याये 'पुत्रं त्वौपाधिकस्नेहवति वसुदेवे मधुरास्थे तस्य कंसेनाधर्पितत्वस्य पुरुषार्थस्य दानं तस्य तेन प्रद्युम्नव्यूहेन कृतता यथा तथा । सम्बधो- १. तद्व्यवधानेनेति पाठः । २. निरूपधितत्तदंगमिति पाठः । 1758